वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 82, कुल 355 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ६१ श्लाघा सास्मद्वपुषि विनयव्युत्क्रमेऽप्येष रागः। तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतत् ॥ ११ ॥ सखी—तदो तदो। ( ततस्ततः । ) भानुमती—तदो सोवि मं अणुसरन्तो एव्व लदामण्डवं पविट्ठो। (ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः ।) राजा—(आत्मगतम्) अहो, कुलटोचितमस्याः पापाया अशालीनत्वम् । महदाश्चर्यमिति भावः । अस्मद्वपुषि = अस्माकं शरीरे, सा = प्रसिद्धा, श्लाघा=प्रशंसा प्रेमातिशय इत्यर्थः । विनयव्युत्क्रमे = सदाचारातिक्रमणे, अपि एषः=अन्यपुरुषविष- यकः, रागः = अनुरागः, यदेवाहं न श्लाघनीयस्तदैव त्वयाऽन्यत्र रागः कर्तव्य इति मम शरीरे श्लाघा तदभावमूलकोऽन्यत्र राग इति विरुद्धमिति भावः । जडमतौ = तत्त्वाज्ञातारि, मयि, तत् = प्रसिद्धम्, औदार्यम् = उदारता महत्त्वमित्यर्थः । शुद्ध- स्वभाव इति यावत् । चापले पुंश्चलीत्वे, च, कोऽपि, पन्थाः = अनुसरणमार्गः, शुद्ध- स्वभावता पुंश्चलीत्वानुसरणम् विरुद्धमिति भावः । 'मीनेऽपि चपला तु स्यात् विप्प्लयां विद्युति स्त्रियां । पुंश्चल्याम्'ति हैमः । वितमसि = विशुद्धे, ख्याते=सर्वजन- वेद्ये, तस्मिन् = दोषरहिते, कुले = वंशे, जन्म = उत्पत्तिः, एतत् =परपुरुषसङ्गम- पम्, कौलीनम् = लोकवादः 'स्यात्कौलीनं लोकवादः' इत्यमरः । तथा च कुलटोचित- मेव सर्वं तवेति भावः । अत्र विरुद्धयोः सङ्घटनातो विषमालङ्कारः । मन्दाक्रान्ता छन्दः, लक्षणमुक्तमष्टमश्लोके ॥ ११ ॥ लतामण्डपम् = निकुञ्जम् । अनुसरन् = पश्चादागच्छन् । पापायाः=पापमस्ति अस्या इति अर्श आदित्वान्मत्वर्थेऽच्प्रत्ययः । अशालीनत्वं= धृष्टता, उस शुभ निष्कलङ्क कुल में जन्म और यह दुराचार [ अर्थात् मेरे सामने तो बड़ी डरपोक सी बनी रहती थी और अब दूसरे पति के साथ इस प्रकार सम्बन्ध करने का यह साहस कर रही हो । मेरे रूप और लावण्य की खूब प्रशंसा करती थी और अब यह भोलेपन के विरुद्ध कार्य कर रही हो, मुझ मूर्ख के प्रति बड़ी उदारता प्रकट करती थी परन्तु अब इस प्रकार के कुमार्ग पर चलो जा रही हो, जन्म तो तुम्हारा विशुद्धकुल में हुआ है परन्तु यह नीच कर्म कर रही हो ] ॥ ११ ॥ सखी—तो फिर क्या हुआ ? भानुमती—तो फिर मैं शीघ्र ही लताकुञ्ज में चली गई, वह भी मेरा अनुसरण करता हुआ उसी लतानिकुञ्ज में प्रवेश कर गया। राजा—अहो, इस दुराचारिणी में व्यभिचारिणियों की सी निर्लज्जता भी है।