वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 83, कुल 355 में से
संदर्भ में पढ़ें६२ . वेणीसंहारं नाटकं यस्मिंश्चिरप्रणयनिर्भरबद्धभाव- मावेदितो रहसि मत्सुरतोपभोगः । तत्रैव दुश्चरितमद्य निवेदयन्ती ह्रीणासि पापहृदये न सखीजनेऽस्मिन् ॥ १२ ॥ उभे—तदो तदो ( ततस्ततः । ) भानुमती--तदो तेण सप्पगब्भप्पसारिअकरेण अवहिदं मे त्थणं सुअम् ( ततस्तेन सप्रगल्भप्रसारितकरेणापहृतं मे स्तनांशुकम् । ) लज्जाराहित्यम् । शालाप्रवेशमर्हतीति शालीना 'शालीनकौपीने अधृष्टाकार्ययो'रिति निपातनात्प्रत्ययः । अत्रावयवार्थस्तु न विवक्षितः, रूढिशब्दत्वात् । अन्वयः--यस्मिन्, रहसि, मत्सुरतोपभोगः, चिरप्रणयनिर्भरबद्धभावम्, आवे- दितः, अत्रैव, अस्मिन्, सखीजने, दुश्चरितम्, अद्य, निवेदयन्ती, हे पापहृदये ! न, ह्रीणा, असि ॥ १२ ॥ लज्जाकारणसत्त्वेऽपि लज्जाराहित्यं दर्शयति--यस्मिन्निति । यस्मिन्=सखीजने, रहसि = एकान्ते, मत्सुरतोपभोगः=मदीयरतिजन्यभोगः, चिरप्रणयनिर्भरबद्धभा- वम् = बहुकालिकप्रेमातिशयेन कृतबन्धनाभिप्रायम्, यथा स्यात्तथा आवेदितः = कथितः, तत्रैव = तस्मिन्नेव एव शब्दोऽवधारणे । अस्मिन् = उपस्थिते, तदिदं शब्दा- भ्यां प्रत्यभिज्ञां दर्शयति । सखीजने = आलिसङ्घे, दुश्चरितम् = परपुरुषसङ्गम रूपदु- राचारम्, अद्य = इदानीम्, 'इदानीमद्ये'ति कलापसूत्रेण निष्पन्नं सम्प्रत्यर्थे अद्येति । निवेदयन्ती=कथयन्ती, हे पापहृदये ! न ह्रीणा=न लज्जिता असि ? । लज्जास्थानेऽपि कथं न लज्जस इति भावः । अत्रैकस्मिन्नेव सखीजने अनेकयोः स्वामिसुरतोपभोग- दुश्चरितयोः, स्थापनात्पर्यायालंङ्कारः । वसन्ततिलका छन्दः ॥ १२ ॥ ततः--मत्कृतंकलतामण्डपप्रवेशानन्तरम्, सप्रगल्भप्रसारितकरेण = सप्रगल्भं यथा स्यात्तथा प्रसारितः करः हस्तः येन तेन सप्रगल्भप्रसारितशब्दयोः स्तोकनम्रा इतिवत्समासः । तेन = नकुलेन, मे, स्तनांशुकं = कुचयोपरि स्थितं वस्त्रम्, अप- हृतम् = आकृष्टम् । अरी पापचित्ते, जिन सहेलियों से चिरकाल के प्रेम और अत्यन्त आसक्ति के साथ मेरे रमणक्रिया की वार्ता की आज वही उन सखियों से अपने दुष्कृत्यों की वार्ता करते हुए तुम्हें लज्जा नहीं उत्पन्न होती ? दोनों सखियाँ-तो आगे क्या हुआ ? भानुमती-तब उसने बड़ी धृष्टता से हाथ फैलाकर मेरे स्तनावरण को दूर हटा दिया !