वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 87, कुल 355 में से
संदर्भ में पढ़ें६६ वेणीसंहारं नाटकं तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यताम् ! न खलु दंष्ट्रिणो नकुलस्य वा दशनंमहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः । ) राजा— ( आत्मगतम् ) अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमानिष्टोदर्कं तर्कयामि । पर्यायेण हि दृश्यन्ते स्वप्नाः काम शुभाशुभाः । शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥ १४ ॥ दुःखकरमपि अग्रे शुभकरमवश्यं वक्तव्यमित्यर्थः । प्रकाशम् = सर्वश्राव्यम् , तदुक्तं दर्पणे- 'सर्वश्राव्यं प्रकाशं स्यात् ।' इति । देवतानां = देवानां, प्रणामेन, 'द्विजातिजनप्रतिग्रहेण = ब्राह्मणोद्देश्यकदानेन, 'चतुर्थी तदर्थार्थे'ति सूत्रे चतुर्थीति योगविभागात्स मासः । अन्तर्यताम् = व्यवहितं क्रियताम् । स्वप्नदर्शनजन्यप्राप्ताशुभं विनाश्यतामिति यावत् । दंष्ट्रिणः = दंशकस्य सर्पस्येत्यर्थः । अहिः = सर्पः । विचक्षणाः=विद्वांसः, प्रशंसन्ति = शुभं कथयन्ति । सुवदना, अवितथम् = सत्यम् , आहेत्यन्वयः । नियतम् = निश्चयम् क्रियावि- शेषणं भावप्रत्ययान्तोऽयम् । अनिष्टोदर्कम् = अनिष्टम् उदर्कम् , उत्तरकालिकफलं यस्य तत् । तर्कयामि=अनुमिनोमि । अन्वयः-हि, पर्यायेण, शुभाशुभाः, स्वप्नाः, कामम्, दृश्यन्ते, इमम् , पुनः, शतसंख्या, सानुजम् , माम्, स्पृशति, इव ॥ १४ ॥ उत्तरकाले सम्भाव्यमशुभमाह—पर्यायेणेति । हि = यतः, पर्यायेण = अनुक्रमेण, शुभाशुभाः = शुभा अशुभाश्च, शोभत एमिरिति शुभाः, 'करणे घञ्' । स्वप्नाः = शयनकालेऽन्तकरणपरिणामविशेषः, कामम् = यथेष्टम्, दृश्यन्ते = विलोक्यन्ते, इयं = अहिगता, शतसंख्या = शतत्वसंख्या, पुनः, सानुजम् = कनिष्ठभ्रातृसहितम्, मां = दुर्योधनम् , स्पृशति = विषयीकरोति इव, वयमपि शतं भ्रातरः सर्पाश्च शतं, तथा च संख्यासामान्यादस्माकं भयमित्यर्थः । पथ्यावक्त्रं छन्दः । लक्षणमुक्तं तृतीयश्लोके ॥ में दंशं होना अथवा एक सौ सर्पों का स्वप्न में वध होना स्वप्न के शुभाशुभ-कथनकर्त्ता पण्डित लोग अच्छा नहीं कहते । राजा— (स्वयं) सुवदना सत्य कहती है; 'नकुल के द्वारा सौ सर्पों का वध और स्तन के वस्त्र का अपहरण करना हम लोगों के भविष्य के लिये अच्छा नहीं है'—यह मानी हुई बात है-इस प्रकार मैं समझता हूँ । स्वप्न तो कभी शुभ और कभी अशुभ क्रमपूर्वक दिखाई पड़ते रहते हैं, परन्तु यह सौ की संख्या मेरे आप्तवर्गों के प्रति मुझे मर्मविद्ध कर रही है ॥ १४ ॥