वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 88, कुल 355 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ६७ ( वामाक्षिस्पन्दनं सूचयित्वा । ) आः ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावेदयन्ति । ( सावष्टम्भम् । ) अथवा भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवं- विषेषु । गीतश्चायमर्थोऽङ्गिरसा — 'ग्रहाणां चरितं स्वप्नोऽनिमित्तोत्पातिकं तथा । फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति' ॥ १५ ॥ तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि । भानुमती—हला सुवअणे, पेक्ख दाव उदअगिरिसिहरन्तरविमुक्करह- वामाक्षिस्पन्दनमिति—वामनेत्रस्पन्दनं पुरुषाणामशुभसूचकं लोके ख्यातमिति । अनिमित्तानि = अशुभसूचकानि, हृदयक्षोभ = मनोदुःखम् । अन्वयः—ग्रहाणाम्, चरितम्, स्वप्नः तथा, अनिमित्तोत्पातिकम्, ( एते ) काकतालीयं यथा स्यात्तथा, फलन्ति, तेभ्यः, प्राज्ञाः, न बिभ्यति ॥ १५ ॥ पूर्वोक्तेऽर्थे प्रमाणमाह = ग्रहाणामिति । ग्रहाणां = सूर्यादीनाम्, चरितं = सञ्च- रणम् , राश्यन्तर इति भावः । स्वप्नः, तथा, अनिमित्तोत्पातिकं = आकस्मिकमहा- वायुप्रवहणम्, एते, काकतालीयम् = अतर्कितागतं यथा स्यात्तथा । फलन्ति = फल- दायका भवन्ति । यथा तालवृक्षाधः सञ्चरतः काकस्योपरि तालफलपतनेन कदाचि- देव मृत्युर्भवति तथैव कदाचिदेव तैरपि फलवन्तो भवन्तीति भावः । तेभ्यः = स्वप्ना- दिभ्यः, प्राज्ञाः = विद्वांसः न, बिभ्यति = भयं प्राप्नुवन्ति । 'अदभ्यस्तादि'ति झस्या- तादेशः । अत्र प्राकरणिकस्य स्वप्नस्याप्राकरणिकयोरन्ययोश्चैकस्मिन्फले सम्बन्धाद्दीप- कालंङ्कारः । पथ्यावक्त्रं छन्दः ॥ १५ ॥ स्त्रीस्वभावसुलभां = नारीणां स्वभावतः प्राप्तियोग्याम्, अलीकाशङ्काम् = मिथ्या- संशयम्, स्वप्नदर्शनजन्यामिति भावः । अपनयामि = निवर्तयामि । ( वाम नेत्र के स्पन्दन का अभिनय करके ) ओह, क्यों ये अपशकुन दुर्योधन के भी हृदय को क्षुब्ध कर रहे हैं ? ( अभिमान के साथ ) ऐसे अपशकुन जो कायरों के हृदय को क्षुब्ध कर देते हैं उनमें दुर्योधन की क्या बात ? इस अर्थ की पुष्टि अङ्गिरा के वचन से होती है— ग्रहोंका शुभाशुभ फल, स्वप्न, अपशकुन तथा उत्पात काकतालीयन्याय से फल देते हैं अर्थात् फल देते भी हैं नहीं भी देते हैं अतः बुद्धिमान् व्यक्ति इससे भयभीत नहीं होते ॥१५॥ अतः भानुमती के स्त्री स्वभावके लिये स्वाभाविक इस अमङ्गलकी आशंका दूर करूँगा । भानुमती—सखी सुवदने, देखो तो उदयाचल के शिखर के प्रान्त भाग का परित्याग