विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 110, कुल 493 में से
संदर्भ में पढ़ें( ८७ )
कौन २ दुख लिखे हैं इन अक्षरों को पढ़ने के लिये चीर डाला । अर्थात् भय से कांटों में से भागते २ उसके ललाट का चमड़ा कट गया ।
दहत्यशेषं प्रतियोगिवर्गमनर्गले यद्भुजशौर्यवह्नौ । प्रत्यर्थिपृथ्वीपतिचिन्त्यमानो न कोऽपि मन्त्रः प्रतिबन्धकोऽभूत् ॥११७॥
अन्वयः अनर्गले यद्भुजशौर्यवह्नौ अशेषं प्रतियोगिवर्गं दहति(सति) प्रत्यर्थि- पृथ्वीपतिचिन्त्यमानः कः अपि मन्त्रः प्रतिबन्धकः न अभूत् ।
व्याख्या नास्त्यर्गलं प्रतिबन्धकं यस्मिंस्तस्मिन् यस्य राज्ञो भुजस्य शौर्यरूपाग्नौ शौर्यरूपदग्धावशेषं समग्रं प्रतियोगिवर्गं शत्रुसमूहं दहति भस्मसात्कुर्वति सति प्रत्यर्थिपृथ्वीपतिभिः शत्रुभूतरानिभिश्चिन्त्यमानो विचार्यमाणः स्मृतः कोऽपि मन्त्रः काऽपि मन्त्रशक्तिः 'षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजा' इत्यमरः ) वह्निशामकमन्त्रश्च यथा-उत्तर्रस्मिंश्च दिग्भागे मरीचो नाम राक्षस । तस्य मूत्रपुरीषाभ्यां हुतस्तम्भः प्रजायते' । प्रतिबन्धकः प्रतिरोधको नाऽभूत् । मन्त्रेण वह्निः प्रतिबध्यते मन्त्रशक्त्या च राज्यं रक्ष्यते । भुजशौर्ये वह्नित्वारोपाद्रूपकम् । शौर्यव्यवहारे वह्निव्यवहारस्याप्यभेदप्रतिपत्तिः ।
भाषा जिस राजा की अप्रतिहत भुजबल रूपी अग्नि में सब शत्रुओं के जलते रहने पर अर्थात् उसके भुजबल से शत्रुओं का नाश होते रहने पर, विपक्षी राजाओं द्वारा प्रयुक्त षाड्गुण्यादि उपाय वा "उत्तरस्मिंश्च दिग्भागे मरीचो नाम राक्षस । तस्य मूत्रपुरीषाभ्यां हुतस्तम्भ प्रजायते" सदृश अग्निस्तम्भक मन्त्र उस अग्नि का शामक न हुआ । अर्थात् उस राजाको विपक्षी राजाओं को परास्त करते रहने से रोकने में विपक्षियों का कोई उपाय सफल न हुआ ।
भूमस्तस्य किमस्त्रकौशलविधौ देवस्य विक्रामतः पुष्पेषोरिव यस्य दुष्परिहराः सर्वैरखर्वाः शराः । राज्ञामप्रतिभानमेव विदधे युद्धेषु यस्योर्जित- ज्यानिष्ठ्यूतनितान्तनिष्ठुररवप्राप्ताग्रवादो भुजः ॥११८॥