विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 159, कुल 493 में से
संदर्भ में पढ़ें( १३६ ) अलङ्कृता दुष्प्रसहेन तेजसा रराज सा रत्नमयीषु भूमिषु । महागृहाणां प्रतिबिम्बडम्बरैः प्रणम्यमानेव कुलाचलैरपि ॥७१॥ अन्वयः दुष्प्रसहेन तेजसा अलङ्कृता सा रत्नमयीषु भूमिषु महागृहाणां प्रतिबिम्बडम्बरैः कुलाचलैः अपि प्रणम्यमाना इव रराज । व्याख्या दुखेन प्रकर्षेण सोढुं शक्येन दुष्प्रसहेन दुर्धर्षेण सोढुमशक्येन वा तेजसा दीप्त्या 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु' इत्यमरः । अलङ्कृता विभूषिता सा राज्ञी रत्नमयीषु रत्ननिर्मितासु भूमिषु स्थानेषु कुट्टिमेष्वित्यर्थः । महागृहाणां प्रासादानां प्रतिबिम्बस्य प्रतिच्छायाया डम्बरैरारोपैः कुलाचलै- स्सप्तभिः कुलपर्वतैरपि "महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वता ॥" प्रणम्यमानेव वन्द्यमानेव रराज शुशुभे । विशालाकारत्वात्प्रासादप्रतिबिम्बेषु कुलपर्वतत्वारोपः । अत्रोत्प्रेक्षालङ्कारः । भाषा अत्यधिक तेज से विभूषित वह रानी, रत्नों से निर्मित फर्शों पर बड़े २ महलों की परछाई पड़ने से मानो सात कुलपर्वतों से भी प्रणमित हो रही हों, ऐसी शोभित हो रही थी । अर्थात् महलों की परछाई मानो पर्वत थे जो उसके चरणों पर पड़ रहे थे । कलत्रमूर्वीतिलकस्य मेखला-कलापमाणिक्यमरीचिभिर्दधे । उदेष्यतः सूर्यसमस्य तेजसः समुद्गतं बालमिवातपं पुरः ॥७२॥ अन्वयः उर्वीतिलकस्य कलत्रं मेखलाकलापमाणिक्यमरीचिभिः उदेष्यतः सूर्यसमस्य तेजसः पुरः समुद्गतं बालम् आतपम् इव दधे । व्याख्या उर्व्याः पृथिव्यास्तिलकस्य भूषणस्य श्रेष्ठस्य वा नृपस्य कलत्रं भार्या 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । मेखलाया रशनायाः 'स्त्रीकट्यां मेखला काञ्ची सप्तकी