विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 176, कुल 493 में से
संदर्भ में पढ़ें( १४९ ) चञ्चच्चारणदीयमानकनकं संनद्धगीतध्वनि स्फूर्जद्गाथकलुण्ठ्यमानकरटि प्रारब्धनृत्योत्सवम् । पूर्णं मङ्गलतूर्यदुन्दुभिरवैरुत्तालवैतालिक- श्लाघालङ्घितपूर्वपार्थिवमथ क्ष्माभर्तुरासीद्गृहम् ॥६०॥ अन्वय अथ क्ष्माभर्तुः गृहं चञ्चच्चारणदीयमानकनकं संनद्धगीतध्वनि स्फूर्ज- द्गाथकलुण्ठ्यमानकरटि प्रारब्धनृत्योत्सवं मङ्गलतूर्यदुन्दुभिरवैः पूर्णम् उत्तालवैतालिकश्लाघालङ्घितपूर्वपार्थिवम् आसीत् । व्याख्या अथ पुत्रोत्पत्तिवार्ताप्रसरानन्तर क्ष्माभर्तुः पृथ्वीपतेराहवमल्लदेवस्य गृहं प्राप्ता- दश्र्चञ्चद्भ्यो हर्षेण चञ्चलचित्तेभ्यश्चारणेभ्यः कुशीलवेभ्यो 'चारणास्तु कुशी- लवाः' इत्यमरः । दीयमानं वितीर्यमाणं कनकं सुवर्णं यस्मिंस्तत्, संनद्धो जायमानो गीतानां स्त्रीकर्तृकगायनाना 'सोहर इति लोके प्रसिद्धम्' ध्वनिः शब्दो यत्र तत्, स्फूर्जन्तो हर्षेण विलसन्तो गायका गायकास्तैर्लुण्ठ्यमाना हठाद्गृह्यमाणाः करटिनो हस्तिनो यत्र तत्, प्रारब्धः समारब्धो नृत्योत्सवो नृत्यसमारम्भो यत्र तत्, मङ्गलं मङ्गलसूपतूर्यदुन्दुभिरवो वाद्यविशेषशब्दस्तैः पूर्णं परिपूर्णम्, उत्ताला अत्युच्चैः शब्दायमाना वैतालिकाः स्तुतिपाठकास्तैः श्लाघया प्रशंसया लङ्घिता अतिक्रान्ता अघ- रीकृता इत्यर्थः । पूर्वपार्थिवाः पूर्ववर्तिनृपा यस्मिंस्तदाऽऽसीत् । तादृशं गृहमासीदिति भावः । शार्दूलविक्रीडितच्छन्दः । सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् । भाषा पुत्र होने की खबर फैलने के बाद राजा के महल में अत्यन्त प्रसन्न नटों को इनाम में सोना दिया जाने लगा, सोहर का गान प्रारम्भ हो गया, हर्ष से मस्त गवैया हाथियों को जबर्दस्ती इनाम में लेने लगे, नाच आरम्भ हो गया, मङ्गलमय तुरही और दुन्दुभी का नाद छा गया और बडे ऊँचे शब्दो में स्तुति-पाठक लोग पूर्ववर्ती राजाओ से तुलना करते हुये, इस राजा का वर्णन अधिक बढाकर करने लगे । अथ सूतिकाकर्मण्यास्थापरेण पुरोधसा कथितमवनीनाथः सर्वं विधाय विधानवित् । प्रति मुहुरसौ सूनुस्पर्शान्महोत्सवमन्वभू- दिह हि गृहिणां गार्हस्थ्यस्य प्रधानमिदं फलम् ॥६१॥