भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 210, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 210

( १८६ ) श्रुत्वेति वाक्यं पितुरादरेण जगाद भूयो विहसन्कुमारः । मद्भाग्यदोषेण दुराग्रहोऽयं तातस्य मत्कीर्तिकलङ्कहेतुः ॥५२॥ अन्वयः कुमारः पितुः इति वाक्यम् आदरेण श्रुत्वा विहसन् (सन्) भूयः जगाद। अयं तातस्य दुराग्रहः मद्भाग्यदोषेण मत्कीर्तिकलङ्कहेतुः (अस्ति) व्याख्या कुमारो राजकुमारो विक्रमाङ्कदेवः पितुर्जनकस्याऽऽहवमल्लदेवस्येतीत्थं वाक्यं वचनमादरेण समादरेण श्रुत्वा निशम्य विहसन् हास्यं कुर्वन्सन् भूयः पुनरपि जगादोक्तवान् । अयं पूर्वोक्तः तातस्य जनकस्य भवतो दुराग्रहो दुरभिनिवेशो मह्यं राज्यलक्ष्मीसमर्पणरूपाभिनिवेशो मम भाग्यस्य दिष्टस्य 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । दोषेण विपर्यासेन मम कीर्तेर्यशसः कलङ्कस्य मलिनोकरणस्य हेतुः कारणमस्ति । सत्यपि ज्येष्ठे भ्रातरि मम दुर्भाग्यजनितेन भवतो दुराग्रहेण मे यौवराज्यग्रहणं मत्कीर्तिमलिनीकरणकारणमेव भविष्यतीति भावः । भाषा राजा की उपर्युक्त बातो को आदर पूर्वक सुनकर राजकुमार विक्रमाङ्कदेव ने हँसते हुए फिर से कहा कि यह पिता जी का दुराग्रह, मेरे दुर्भाग्य से, मेरी कीर्ति में कलङ्क लगने का कारण है । यदि ग्रहास्तस्य न राज्यदूताः कारुण्यशून्यः शशिशेखरो वा। तैरेव तातो भविता कृतार्थ-स्तद्धार्यतां कीर्तिविपर्ययो मे ॥५३॥ अन्वयः यदि तस्य ग्रहाः राज्यदूताः न, वा शशिशेखरः कारुण्यशून्यः (तथापि) तैः एव तातः कृतार्थः भविता । तन् मे कीर्तिविपर्ययः धार्यताम् । व्याख्या यदि तस्य सोमदेवस्य ग्रहा जन्माङ्गस्थितग्रहाः 'ग्रहो निग्रहानिर्गद्यग्रहणेपु रणोद्यमे । सूर्यादौ पृतनादौ च सैंहिकेयोपरागयोः' इति विश्वः । राज्यस्य