विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 211, कुल 493 में से
संदर्भ में पढ़ें( १८७ ) साम्राज्यस्य दूता सन्देशहरा ‘स्यात्सन्देशहरो दूतो इत्य तद्भावकर्मणि' इत्यमर । न, न सन्ति । तद्राज्यसूचका न सन्तीति भाव । अथवा शशिशेखरश्चन्द्र- मौलि शिव कारुण्येन दयया शून्यो रहित । यदि शिव स्वदयया तस्मै राज्यसुखभोग न ददाति चेदिति भाव । तथापि तैरेव ग्रहै राज्यसुखभोगास- सूचकै रेव तात पिता भवान् कृतार्थं कृतकार्यंसफलमनोरथ इत्यर्थ । भविता भविष्यति । तत्तस्मात्कारणान्मे मम कीर्तिविपर्ययो दुर्यशो वार्यतामपयशो न विधातव्यमित्यर्थ । भाषा यद्यपि सोमदेव के ग्रह उसके राज्योपभोग सूचक नही है या यो कहें कि भगवान् शङ्कर की उसपर दया नही है । तो भी उन्ही ग्रहो से आप की मनोरथ सिद्धि होगी । इसलिये मेरे अपयश को न होने दीजिये । अशक्तिरस्यास्ति न दिग्जयेषु यस्यानुजोऽहं शिरसा धृताज्ञः । स्थानस्थ एवाद्भुतकार्यकारी बिभर्तु रक्षामणिना समत्वम् ॥५४॥ अन्वयः यस्य शिरसा धृताज्ञः अहम् अनुजः अस्य दिग्जयेषु अशक्तिः न अस्ति । स्थानस्थः एव अद्भुतकर्मकारी (सन्) रक्षामणिना समत्वं बिभर्तुं । व्याख्या यस्य सोमदेवस्य शिरसा नतमस्तकेन धृता सञ्चिता आज्ञाऽऽदेशो येन सोऽह- मनूज कनीयान्भ्राताऽस्मि । अस्य मम भ्रातुस्सोमदेवस्य दिशा जयो विजय- स्तेषु दिग्विजयकर्मण्वशस्तिरसार्मथ्यं नाऽस्ति न सम्भवति । स स्थाने तिष्ठतीति स्थानस्थ स्वस्थले स्थित एवाऽद्भुतान्याश्चर्यकराणि कर्माणि करोतीत्यद्भुत- कर्मकारी सर्वसाधारणजनासाध्याश्चर्यजनककृत्यसत्ताधकस्सन् रक्षामणिना सर्व रक्षणक्षमौषधिविशेषप्रभावशालिना मणिना सह समत्वं सादृश्य बिभार्त्ततु । यथा रक्षामणि स्वस्थानस्थितस्सत् यस्य शरीरे तिष्ठति तस्य सर्वतो भावेन रक्षणं करोति तथैव मे भ्राता स्वस्थानस्थित सन्मत्साहाय्येनाऽद्भुतकर्मकारी भूत्वा सकलजनसंरक्षको भवत्विति भाव ।