भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( १८७ ) साम्राज्यस्य दूता सन्देशहरा ‘स्यात्सन्देशहरो दूतो इत्य तद्भावकर्मणि' इत्यमर । न, न सन्ति । तद्राज्यसूचका न सन्तीति भाव । अथवा शशिशेखरश्चन्द्र- मौलि शिव कारुण्येन दयया शून्यो रहित । यदि शिव स्वदयया तस्मै राज्यसुखभोग न ददाति चेदिति भाव । तथापि तैरेव ग्रहै राज्यसुखभोगास- सूचकै रेव तात पिता भवान् कृतार्थं कृतकार्यंसफलमनोरथ इत्यर्थ । भविता भविष्यति । तत्तस्मात्कारणान्मे मम कीर्तिविपर्ययो दुर्यशो वार्यतामपयशो न विधातव्यमित्यर्थ । भाषा यद्यपि सोमदेव के ग्रह उसके राज्योपभोग सूचक नही है या यो कहें कि भगवान् शङ्कर की उसपर दया नही है । तो भी उन्ही ग्रहो से आप की मनोरथ सिद्धि होगी । इसलिये मेरे अपयश को न होने दीजिये । अशक्तिरस्यास्ति न दिग्जयेषु यस्यानुजोऽहं शिरसा धृताज्ञः । स्थानस्थ एवाद्भुतकार्यकारी बिभर्तु रक्षामणिना समत्वम् ॥५४॥ अन्वयः यस्य शिरसा धृताज्ञः अहम् अनुजः अस्य दिग्जयेषु अशक्तिः न अस्ति । स्थानस्थः एव अद्भुतकर्मकारी (सन्) रक्षामणिना समत्वं बिभर्तुं । व्याख्या यस्य सोमदेवस्य शिरसा नतमस्तकेन धृता सञ्चिता आज्ञाऽऽदेशो येन सोऽह- मनूज कनीयान्भ्राताऽस्मि । अस्य मम भ्रातुस्सोमदेवस्य दिशा जयो विजय- स्तेषु दिग्विजयकर्मण्वशस्तिरसार्मथ्यं नाऽस्ति न सम्भवति । स स्थाने तिष्ठतीति स्थानस्थ स्वस्थले स्थित एवाऽद्भुतान्याश्चर्यकराणि कर्माणि करोतीत्यद्भुत- कर्मकारी सर्वसाधारणजनासाध्याश्चर्यजनककृत्यसत्ताधकस्सन् रक्षामणिना सर्व रक्षणक्षमौषधिविशेषप्रभावशालिना मणिना सह समत्वं सादृश्य बिभार्त्ततु । यथा रक्षामणि स्वस्थानस्थितस्सत् यस्य शरीरे तिष्ठति तस्य सर्वतो भावेन रक्षणं करोति तथैव मे भ्राता स्वस्थानस्थित सन्मत्साहाय्येनाऽद्भुतकर्मकारी भूत्वा सकलजनसंरक्षको भवत्विति भाव ।

( १८८ ) भाषा आज्ञा का शिरसा पालन करने वाला जिसका मैं छोटा भाई हूँ उसके दिग्विजय में असामर्थ्य सम्भावित नहीं हो सकता है। वह अपने स्थान पर ही रहकर आश्चर्यजनक काम करता हुआ रक्षामणि की समानता को प्राप्त हो। अर्थात् रक्षामणि जहाँ बंधा रहता है वहीं रहकर सम्पूर्ण विघ्नों को अपने प्रभाव से दूरकर सब प्रकार का आश्चर्यजनक काम कर मनुष्य की रक्षा करता है वैसे ही सोमदेव अपने स्थान पर ही रहकर मेरी सहायता से आश्चर्य- जनक कार्य करने के यश का भागी होकर प्रजा की रक्षा करे। इत्यादिभिश्चित्रतरैर्वचोभिः कृत्वा पितुः कौतुकमुत्सवञ्च । अकारयज्ज्येष्ठमुदारशीलः स यौवराज्यप्रतिपत्तिपात्रम् ॥५५॥ अन्वयः उदारशीलः सः इत्यादिभिः चित्रतरैः वचोभिः पितुः कौतुकम् उत्सवं च कृत्वा ज्येष्ठं यौवराज्यप्रतिपत्तिपात्रम् अकारयत् । व्याख्या उदारमसंकुचितं शीलं स्वभावो यस्य स उदारशील उदारस्वभावः स राजपुत्रो विक्रमाङ्कदेव इत्यादिभिरेवम्भूतैश्चित्रतरैर्विचित्रैर्वचोभिर्वाक्यैः पितुराह- वमल्लदेवस्य कौतुकं कौतूहलमुत्सवमानन्दावसरञ्च 'उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः' इत्यमरः । कृत्वा जनयित्वा ज्येष्ठं ज्येष्ठभ्रातरं सोमदेवं यौव- राज्यस्य युवराजपदस्य प्रतिपत्तिः स्वीकृतिस्तस्य पात्रं स्थानमकारयत् कारित- वान् । स्वयशःप्रसरैर्ज्येष्ठभ्रातुर्यौवराज्यपदप्रदानस्वीकृतिं सम्पादयानेति भावः । भाषा उदार स्वभाव वाले उस राजपुत्र विक्रमाङ्कदेव ने ऐसी २ अनेक आश्चर्य- जनक बातें कहकर अपने पिता आहवमल्लदेव राजा के कुतूहल और आनन्द के अवसर को उत्पन्न कर, अपने बड़े भाई सोमदेव को युवराज पद पर नियत करने की स्वीकृति कराली । स्वयं समाधास्यति चन्द्रमौलि-रम्लानकीर्तेरभिवाञ्छितं मे । कार्यं विचार्येति सुतोपदिष्टं स सर्वमुर्वीपतिरन्वतिष्ठत् ॥५६॥

( १८९ ) अन्वयः चन्द्रमौलिः स्वयम् अम्लानकीर्तेः मे अभिवाञ्छितं समाधास्यति इति विचार्य सः उर्वीपतिः सुतोपदिष्टं सर्वं कार्यम् अन्वतिष्ठत् । व्याख्या चन्द्रमौलिः शशिशेखरः शिवस्स्वयमेवाऽम्लाना निष्कलङ्का कीर्तिर्यशो यस्य तस्य मे ममाऽभिवाञ्छितमभीप्सितं समाधास्यति पूरयिष्यतीतीत्थं विचार्य निश्चित्य सः प्रसिद्ध उर्व्या वसुंधरायाः 'सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा' इत्यमरः । पति स्वामी राजाऽऽहवमल्लदेवः सुतेन पुत्रेणोपदिष्टं सम्मन्त्रितं सर्वं पूर्णं कार्यं यौवराज्यप्रदानकार्यमन्वतिष्ठत्तच्चकार । भाषा चन्द्रशेखर भगवान् शंकर, स्वयं ही, निष्कलङ्क कीर्तिवाले मेरो अभिष्ट सिद्धि करेंगे, ऐसा विचार करके उस राजा आहवमल्लदेव ने पुत्र द्वारा कथित, यौवराज्य प्रदान रूप कार्य को पूर्णता से सम्पन्न किया । ज्येष्ठे कृतेऽपि प्रतिपत्तिपात्रे तमेव लक्ष्मीस्तुनमन्यते स्म । पूरेण निम्ने निहिताऽपि सिन्धुरपेक्षते सागरमार्गमेव ॥५७॥ अन्वयः ज्येष्ठे प्रतिपत्तिपात्रे कृते अपि लक्ष्मीः तम् एव अनुमन्यते स्म । पूरेण निम्ने निहिता अपि सिन्धुः सागरमार्गम् एव अपेक्षते । व्याख्या ज्येष्ठे ज्येष्ठभ्रातरि सोमदेवे प्रतिपत्तिपात्रे यौवराज्यासनपात्रे कृतेऽपि सम्पा दितेऽपि लक्ष्मी राज्यश्रीस्तमेव विक्रमाङ्कदेवमेवाऽनुमन्यते स्म तस्मिन्नेव सम्मानं प्रणयिताञ्च प्रदर्शयति स्मेति भाव । पूरेण जलप्रवाहेण निम्ने नीचस्थाने गर्ते वा विहिता प्रस्थापिताऽपि सिन्धुर्नदी सागरस्य समुद्रस्य मार्गमेव पन्थानमेवाऽपेक्षते प्रतीक्षते । दृष्टान्तालङ्कारः । भाषा बड़े भाई सोमदेव को युवराज पद पर आरूढकर देने पर भी राज्य श्री विक्रमाङ्कदेव के ही अनुकूल थी । जल प्रवाह के कारण नीचे स्थान पर भी

( १९० )

बहने वाली नदी, समुद्र में जा मिलने की ही अपेक्षा रखती है। अर्थात् सिफारिश से गुणहीन सोमदेव के युवराज पद पर स्थित होने पर भी राज्य- श्री विक्रमाङ्कदेव को ही अपनाती थी क्योकि जल प्रवाह से नीच स्थान में बहने वाली नदी समुद्र में ही मिलने की अपेक्षा रखती है । देवोपदेशाद्गुणदर्शनाच्च स एव चित्ते नृपतेरुवास । यथा स्तुतं रत्नपरीक्षकेण दृष्टप्रभावं च महार्हरत्नम् ॥५८॥ अन्वयः सः एव देवोपदेशात् गुणदर्शनात् च नृपतेः चित्ते उवास। यथा रत्नपरीक्षकेण स्तुतं दृष्टप्रभावं च महार्हरत्नम् । व्याख्या स एव विक्रमाङ्कदेव एव देवोपदेशादाऽऽकाशवाण्याः श्रवणात् गुणदर्शनाद्वि- क्रमाङ्कदेवे शौर्यादिगुणानामनुभवाच्च नृपते राज्ञश्चित्ते मनसि ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः’ इत्यमरः । उवास स्थितिं चकार । यथा रत्न- परीक्षकेण वैकटिकेन स्तुतं प्रशंसितं दृष्टोऽनुभूतः प्रभावः सामर्थ्यं यस्य तत् दृष्टप्रभावमनुभूतसामर्थ्यञ्च महार्हरत्नं महर्घ्यं रत्नम् । वैकटिकेन प्रशंसित- मनुभूतसामर्थ्यं च बहुमूल्यं रत्नं राज्ञो हृदये वक्षःस्थले धार्यते तथैवाऽऽकाशवाण्या, प्रशंसितोऽनुभूतगुणश्च विक्रमाङ्कदेवो राज्ञो हृदये स्थित इति भावः । भाषा जौहरी द्वारा प्रशंसित और अनुभूत सामर्थ्य वाले बहुमूल्य रत्न के समान आकाशवाणी द्वारा प्रशंसित और अनुभव में आये हुए उसके गुणों से विक्रमाङ्क देव ने राजा आहवमल्ल के हृदय में स्थान प्राप्त कर लिया। अर्थात् जिस प्रकार जौहरी द्वारा प्रशंसित और अनुभव मे आए हुए उसके सामर्थ्य से बहुमूल्य रत्न को राजा हृदय पर धारण कर लेता है वैसे ही आकाशवाणी से प्रशंसित और अनुभव में आए हुए उसके गुणो से विक्रमाङ्क देव ने राजा के हृदय में स्थान प्राप्त कर लिया। स यौवराज्यश्रियमाश्रितस्य ज्येष्ठस्य राज्ये च पितुः स्थितस्य । कार्यं द्वयोरप्यखिलं बभार भूरेशपयोर्भारमिवादिकूर्मः ॥५९॥

( १९१ ) अन्वयः सः यौवराज्यश्रियम् आश्रितस्य ज्येष्ठस्य, राज्ये स्थितस्य पितुः च द्वयोः अपि अखिलं कार्यम्, आदिकूर्मः भूशेषयोः भारम् इव बभार । व्याख्या स विक्रमाङ्कदेवो यौवराज्यश्रियं यौवराज्यलक्ष्मीमाश्रितस्य समास्थितस्य ज्येष्ठस्य ज्येष्ठभ्रातुः सोमदेवस्य, राज्ये राज्यसिंहासने स्थितस्य वर्तमानस्य पितुस्तातस्य च द्वयोरुभयोरप्यखिलं समस्तं 'विश्वमशेषं कृत्स्नं समस्तनिखिला- खिलानि निःशेषम्' इत्यमरः । कार्यं युवराजप्रयुक्तं राजप्रयुक्तञ्च कार्यमित्यर्थः । आदिकूर्मो विष्णोः प्रथमावताररूपः कच्छपो भूः पृथ्वी शेषो नागराजोऽनन्तस्त- योर्भारमिव बभार पारयामास । यथाऽऽदिकच्छपो भुवरुद्धारकस्य नागरा- जस्याऽपि भार दधाति तथैव विक्रमाङ्कदेवः स्वज्येष्ठभ्रातुस्स्वपितुश्च कार्यभार- मवहदिति भावः । भाषा भगवान् विष्णु का आदि अवतार कच्छप जैसे पृथ्वी और पृथ्वी का भार उठाने वाले शेषराज दोनो का बोझ उठाये रहता है उसी प्रकार विक्रमाङ्कदेव ने युवराज पद पर स्थित अपने बड़े भाई तथा राजगद्दी पर विराजित अपने पिता इन दोनो का सम्पूर्ण कार्य भार अपने ऊपर ले लिया । आज्ञापयामास च वन्दिताङ्गं तमेव सर्वत्र रणोत्सवेषु । पपौ च भूपस्तदुपार्जितानि यशोवतंसानि जयामृतानि ॥६०॥ अन्वयः सः भूपः वन्दिताङ्गं तम् एव सर्वत्र रणोत्सवेषु आज्ञापयामास, तदुपार्जितानि यशोवतंसानि जयामृतानि च पपौ । व्याख्या स भूपो राजाऽऽहवमल्लदेवो वन्दिता सम्मानिताऽङ्गता येन तं सम्मानिताङ्गं तं विक्रमाङ्कदेवमेव सर्वत्र रणोत्सवेषु युद्धोत्सवेषु गमनायाज्ञापयामास नियो- जितवान् । तेन विक्रमाङ्कदेवेनोपार्जितानि समानीतानि यशः कीर्तिरेवाऽवतंसो भूषणं येषां तानि । एतेन यशसः पुष्पसाम्यं गम्यते । जया विजया एवाऽ-

( १९२ ) मृतानि पीयूषाणि तानि च पपौ पिवति स्म । युद्धे सर्वत्र विजयप्राप्त्या तदीयकीर्तिं निशम्य परमतृप्तोऽभूदिति भावः । अत्र जयस्य अमृतत्वेन रूपकं शब्दोपात्तं, यशसि च पुष्पारोपोऽर्थलभ्य इति एकदेशविवर्ति-रूपकमलङ्कारः । भाषा राजा आहवमल्लदेव सर्वत्र संग्रामोत्सवो में आज्ञाकारी विक्रमाङ्कदेव को ही जाने की आज्ञा देता था और उसके द्वारा उपार्जित यश से सुशोभित विजयरूपी अमृतों का पान किया करता था । तत्कुम्भिकुम्भस्थलचीनपिष्ट-विपाटलो वारिनिधिर्बभासे । आपूरितश्चोलबलक्षयोत्थ-रक्तापगानामिव मण्डलेन ॥६१॥ अन्वयः तत्कुम्भिकुम्भस्थलचीनपिष्टविपाटलः वारिनिधिः चोलबलक्षयोत्थर- क्तापगानां मण्डलेन आपूरितः इव बभासे । व्याख्या तस्य विक्रमाङ्कदेवस्य कुम्भिनो दन्तिनस्तेषां कुम्भस्थलानि गण्डस्थलानि तेषु यच्चीनपिष्टं चीनदेशभवं चूर्णं सिन्दूरं तेन विपाटलो रक्तवर्णो वारिनिधिर्जेल- निधिस्समुद्रश्चोलानां चोलनृपाणां बलं सैन्यं 'वरूथिनी बलं सैन्यं चक्रं चानीक- मस्त्रियाम्' इत्यमरः । तेषां क्षयेण नाशेनोत्था जाता रक्तस्य रुधिरस्याऽपगा नद्यः "अपां समूहो आपं तेन गच्छतीत्यापगा" । समूहे अण्" । तासां मण्डलेन समूहेनाऽऽपूरितस्संचलित इव बभासे द्युतिं संप्राप । लोके सिन्दूरेण गजगण्डस्थलानि शोभार्थं लिप्यन्ते । उत्प्रेक्षालङ्कारः । भाषा विक्रमाङ्कदेव के हाथियों के गण्डस्थलों पर लगाये हुए सिन्दूर से सिन्दुरिया रंग का समुद्र मानो चोलदेशीय राजाओं की सेना के काटे जाने से उत्पन्न खून की नदियों के समूह से भरा भासित होता था । चालुक्यरामे हरिवाहिनीभिः सहागते तत्र तटीं पयोधिः । प्रादुर्भ्वन्मौक्तिकशुक्तिभङ्ग्या भयेन दन्तानिव निष्ककर्ष ॥६२॥

( १९४ ) . 'स्याच्चैत्रे चैत्रिको मधुः' इत्यमरः । विना विनैव चन्दनस्य चन्दनवृक्षस्य वायुः पवनश्चन्दनवायुर्दक्षिणानिल इत्यर्थः । आसीत् प्रादुर्बभूव । तद्वाहिन्यामसंपाता गता आसन्नितिभावः । अत्र चैत्रं विना चन्दनवायुप्रवृत्तेर्विभावनालङ्कारः । “विभावना विना हेतुं कार्योत्पत्तियंदुच्यते ।” भाषा विक्रमाङ्कदेव के मलयाचल के कुञ्ज में प्रविष्ट होने पर उसकी सेना के हाथियों के कानरूपी ताड़ के पंखों से, चैत का महीना न होने पर भी, विरहिणियों को सन्तप्त करने वाला, चन्दन की सुगन्ध से युक्त दक्षिणानिल बहने लगा । अदर्शयत्कामपि राजहंस-लीलामसौ कुन्तलराजसूनुः । निस्त्रिंशधाराजलसङ्गतं यद् द्विषां यशः क्षीरमिवाचकर्ष ॥६४॥ अन्वयः असौ कुन्तलराजसूनुः काम् अपि राजहंसलीलाम् अदर्शयत् । यत् निस्त्रिंशधाराजलसङ्गतं द्विषां यशः क्षीरम् इव आचकर्ष । व्याख्या असौ कुन्तलराजस्य कुन्तलदेशाधिपस्य सूनुः पुत्रो विक्रमाङ्कदेवो कामपि विचित्रां राजहंसस्य राजश्रेष्ठस्य हंसपक्षिणो वा लीलां क्रीडाविलासम्अदर्शयत् प्रकटयाम्बभूव । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैस्सिताः' इत्यमरः यद्यस्मा- त्कारणात् निर्गतांस्त्रिशद्भ्योऽङ्गुलिभ्य इति निस्त्रिंशः खड्गः 'कृपाणं खङ्गे तु निस्त्रिंश चन्द्रहासासिरिष्टयः' इत्यमरः । तस्य धाराजलेन तीक्ष्णाग्रभागजलेन सङ्गतं मिश्रितं द्विषां शत्रूणा 'द्विड्विपक्षा हितामित्रप्रत्यर्थ्याप्रवञ्चशत्रवः' इत्यमरः । यशः कीर्तिं क्षीरमिव दुग्धमिवाऽऽचकर्ष पृथक् कृतवान् । हंसो मिश्रित- नीरक्षीरयोः क्षीरं पिबति नीरं त्यजतीति प्रसिद्धिः । कुन्तलराजपुत्रोऽपि स्वखङ्ग- धाराजलमिश्रितशत्रुयशसो यशः पृथक्त्वेन स्वीचकारेति भावः । श्लेषानुप्रामि- तातिशयोक्तिनिदर्शना चालङ्कारः । भाषा उस कुन्तलदेश के राजपुत्र ने श्रेष्ठराजा की या राजहंस पक्षी की एक विलक्षण लीला दिखाई । जिस प्रकार राजहंस पानी और दूध मिला देने पर पानी से

( १९५ ) ध को अलग कर पी जाते हैं उसी प्रकार इस राजहंस ने खड्ग की धार के पानी से मिले हुए शत्रुओं के यश को दूध के समान अलग कर अपनी ओर खींच लिया अर्थात स्वीकार कर लिया । ३४ तस्मिन् समाकर्षति चापदण्डं वीरप्रकाण्डे विजयोद्यमेषु । मुखान्यभूवन् द्रविडाङ्गनाना-मुष्णोष्णनिःश्वासविधूसराणि ॥६५॥ अन्वयः वीरप्रकाण्डे तस्मिन् विजयोद्यमेषु चापदण्डं समाकर्षति (सति) द्रविडाङ्गनानां मुखानि उष्णोष्णनिःश्वासविधूसराणि अभूवन् । व्याख्या प्रशस्तो वीरो वीरप्रकाण्डस्तस्मिन् 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । तस्मिन्विक्रमाङ्कदेवे विजयोद्यमेषु विजय- यात्रासु चापदण्डं धनुर्दण्डं समाकर्षति सति द्रविडदेशीयाङ्गनानां चोलदेशीयनारीणां चोलीनामित्यर्थः । मुखानि वदनान्युष्णादप्युष्णं इत्युष्णोष्णो निःश्वासः शोकजनितोच्छ्वासस्तेन विधूसराणीषद्व्याण्डूनि कान्तिरहितानीत्यर्थः । ईषत्पा- ण्डुस्तु धूसर' इत्यमरः । अभूवन् जातानि । अत्र चापदण्डाकर्षणमात्रेण मुखानां विधूसरत्वोक्त्याऽतिशयोक्तिरलङ्कारः । भाषार्थ युद्ध यात्राओं में वीरों में श्रेष्ठ उस विक्रमाङ्कदेव के धनुष तानने पर चोल देश की नारियों के मुख, गरम २ उच्छवास लेने से कुछ सफेद पड़ जाते थे अर्थात कान्ति हीन हो जाते थे । तस्मिन्बिरुद्धे गिरिनिर्भराम्बु श्रमातिरेकात्पशुवन्निपीय । मातेति चोलः क्षितिमादिभर्ता कृत्या स्तनास्वादमिवोन्ममर्ज ॥६६॥ अन्वय तस्मिन् विरुद्धे (सति) आदिभर्ता चोलः श्रमातिरेकात् गिरिनिर्भराम्बु स्तनास्वादम् इव पशुवत् निपीय क्षिति माता इति कृत्या उत्ससर्ज ।

( १९६ ) व्याख्या तस्मिन्विक्रमाङ्कदेवे विरुद्धे विपक्षतां गते सत्याऽऽक्रान्तवति सतीत्यर्थः । आदौ पूर्वं भर्ता पतिश्चोलश्चोलदेशीयन्नृपः श्रमस्य परिश्रमस्याऽतिरेकादापिस्पात् गिरीणां शैलाना 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । निर्झराः स्रोतांसि तेषामम्बु जलं स्तनयोः कुचयोरास्वादं दुग्धमिव पशुवत् पात्राभावान्मु- खेनैव पशुवन्निपीय पीत्वा क्षितिं चोलदेशभूमिं माता जननीति कृत्वेति हेतोरुत्स- सर्ज त्यक्तवान् । पूर्वमयं चोलभूमेर्भर्ता । विक्रमाङ्कदेवेनाऽऽक्रान्ते चोलदेशे युद्धजनितपरिश्रमस्य पश्चात्पलायनजनितपरिश्रमस्य चाऽधिक्यात् पात्राभावात् स्तनपानमिव गिरिनिर्झराम्बुन पशुवन्मुखेनैव पानात् सा चोलभूमि सम्प्रति जननीव जातेति हेतोस्तस्या उपभोगो भर्तृत्वेन निषिद्ध इति धिया ता मुमोचे- त्यर्थः । चोलभूमिं त्यक्त्वाऽन्यत्र पलायित इति भाव । अत्रोत्प्रेक्षालङ्कार, परमयौचित्यं चिन्त्यमेव । भाषा उस विक्रमाङ्कदेव के चोलदेश पर आक्रमण करने पर, चोलभूमि का पहिले जो पति था अर्थात् राजा था, वह चोलराज युद्ध के और भागने के अधिक परिश्रम से बहुत प्यासा होकर, पहाडियों के झरनो का जल, गिलास न होने से चोल भूमि के स्तनपान के समान पशुओं के ऐसे मुख से पीकर, चोल भूमि को स्तनपान कराने वाली जननी है ऐसा समझ कर और उसका अब उपभोग करना ठीक नहीं ऐसा सोचकर, मानो उसे त्याग कर चला गया । अर्थात् विक्रमाङ्कदेव के आक्रमण करने पर वह चोल भूमि छोड कर भाग गया । स मालवेन्दुं शरणं प्रविष्ट-मकण्टके स्थापयति स्म राज्ये । कन्याप्रदानच्छलतः क्षितीशाः सर्वस्यदानं बहवोऽस्य चक्रुः ॥६७॥ अन्वयः सः शरणं प्रविष्टं मालवेन्दुम् अकण्टके राज्ये स्थापयति स्म । बहवः क्षितीशाः कन्याप्रदानच्छलतः अस्य सर्वस्वदानं चक्रुः । व्याख्या स विक्रमाङ्कदेवः शरणं रक्षायाचनाय प्रविष्टं समागतं मालवेन्दुं मालवदेश- राजानमकण्टके प्रतिपन्थशून्ये बाधारहिते इत्यर्थः । राज्ये स्थापयति स्म

( १९७ ) प्रतिष्ठापयति स्म । बहवो बहुसंख्यकाः क्षितीशा राजानः कन्यायाः स्वदुहितुः प्रदानं - पाणिग्रहणरूपेण समर्पणं तस्य च्छलेन 'व्याजेनाऽस्यास्मै राजकुमाराय सर्वस्वस्य सर्वधनराज्यादेः प्रदान चक्रुः सर्वस्वं धनराज्यादिकं यावद्वस्तु ददुः । “अस्य सर्वस्वदानं चक्रुः” इत्यत्र “अस्ये”ति षष्ठीप्रयोगश्चिन्त्यः । भाषा विक्रमाङ्कदेव ने शरण में आए हुए मालवा के राजा को निष्कण्टक राज्य पर पुन बैठा दिया । बहुत से अन्य राजाओ ने अपनी कन्याओ का उसके साथ विवाह कर देने के भिष से अपना सर्वस्व उसको समर्पण कर दिया । त्रिलोकवीरः कियतो विजिग्ये न दुर्द्दमानां प्रतिपार्थिवानाम् । दोर्विक्रमेणाद्भुतसाहसेन महाहवानाहवमल्लसूनुः ॥६८॥ अन्वयः त्रिलोकवीरः आहवमल्लसूनुः अद्भुतसाहसेन दोर्विक्रमेण दुर्द्दमानां प्रतिपार्थिवानां कियतः महाहवान् न विजिग्ये । व्याख्या त्रिलोके भुवनत्रये वीर एकशूर आहवमल्लस्य सूनुः पुत्रो विक्रमाङ्कदेवोऽ- द्भुतं चित्रं साहसं दमो यस्य सः 'साहसं तु दमो दण्डः' इत्यमरः । तेन दोष्णोर्भुजयोर्विक्रमः पराक्रमस्तेन दुःखेन दमयितुं दान्तुं दण्डयितुं शक्या दुर्द्दमास्तेषां दुर्द्दमानां दुर्जयानां प्रतिपार्थिवाना विपक्षनृपाणां शत्रूणामित्यर्थः । कियतः कतिसंख्याकान् महाहवान् महासंग्रामान् विजिग्ये न जयति स्म । बहुसंख्यानि महायुद्धानि जयति स्मेति भावः । अत्रार्थापत्त्यलङ्कारः । भाषा तीनो लोको में अपनी वीरता का सानी न रखने वाले आहवमल्ल राजा के पुत्र विक्रमाङ्क देव ने, विचित्र दमनशक्ति से युक्त अपनी भुजाओ के पराक्रम से अनेक दुर्दान्त विपक्षी राजाओं के अर्थात् शत्रुओं के कितने महायुद्धो को नही जीता । अर्थात् अनेक महायुद्धो को जीता । उत्कन्धरानेव रणाङ्गणेषु यस्यातितुङ्गस्य हठात्प्रहर्तुः । न नम्रभावादपरो नृपाणा-मासीत्कृपाणप्रतिषेधमार्गः ॥६६॥

( १९८ ) अन्वयः अतितुङ्गस्य रणाङ्गणेषु उत्कन्धरान् एव हठात् प्रहर्तुः यस्य कृपाण- प्रतिषेधमार्गः नृपाणां नम्रभावात् अपरः न आसीत् । व्याख्या अतितुङ्गस्याभ्युच्चस्य 'उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे' इत्यमरः । रणाङ्गणेषु समरभूमिषूद्गतोन्नता कन्घरा ग्रीवा येषां तानेव ऊर्ध्वस्थितग्रीवानुद्धतानेवेत्यर्थः । नृपान् हठात्प्रसभं प्रहर्तुर्नाशयितुर्यस्य राजकुमारस्य कृपाणस्य खड्गस्य प्रहारस्ये- त्यर्थः । प्रतिषेधो निषेधस्तस्य मार्गः पन्थाः कृपाणप्रहारजनितस्यनाशद्रक्षणोपाय इत्यर्थः । नृपाणां विपक्षणां राज्ञां नम्रभावाद्विनयेन पराजयस्वीकारादपरोऽन्यो नाऽऽसीत् । ये खलून्नतां ग्रीवां कृत्वा तेन सार्द्धमभिमानेन युद्धाय समागता- स्तेषामेव नाशो जातः । ये खलु नम्रभावादस्य पुरतः पराजयं स्वीचक्रुस्ते तु सुरक्षिता इति भावः । भाषा रणभूमि में अभिमान से ऊँची गर्दन कर युद्ध के लिये आने वालो को ही चुन २ कर मारने वाले उस अत्युन्नत राजपुत्र की तलवार के प्रहार से विपक्षी राजाओ को बचने का उपाय, नम्रता से पराजय स्वीकार कर लेने के अतिरिक्त दूसरा नही था । व्याजावतीर्णेन जनार्दनेन तेनोदरे हाररुचिच्छटाभिः । नाभीसरोजोद्गमवारणाय संचारिता चन्द्रमसः प्रमेव ॥७०॥ अन्वयः व्याजावतीर्णेन जनार्दनेन तेन उदरे हाररुचिच्छटाभिः नाभीसरोजोद्- गमवारणाय चन्द्रमसः प्रभा संचारिता इव । व्याख्या व्याजेन छलेन विक्रमाङ्कदेव रूपेणेत्यर्थः । अवतीर्णः पृथ्वीतले समागतस्तेन जनार्दनेन विष्णुना तेन राजकुमारेणोदरे कुक्षौ 'पिचण्डकुक्षी जठरोदरं तुन्दम्' इत्यमरः । हारस्य मुक्ताहारस्य रुचीनामुज्ज्वलकान्तीनां छटाभिश्शोभाभिः नाभ्यां विष्णुवत्स्वनाभ्यां सरोजस्य कमलस्योद्गम उत्पत्तिस्तस्य वारणाय

( १९९ ) दूरोकरणाय चन्द्रमसः सुधांशोः प्रभा ज्योत्स्ना संचारितेव प्रसारितेव । विष्णु- रूपोऽपि स नाभिकमलोत्पत्तिमूदरस्थ--हारजनितोज्ज्वलकान्तिभिश्चन्द्रमसो ज्योत्स्नेव प्रसार्य निवारितवान् । यतः कमलानि न चन्द्रिकायां विलसन्ति प्रादुर्भवन्तीति भावः । अत्र सापह्नवोत्प्रेक्षालङ्कारः । भाषा विक्रमाङ्क देव के छद्म से अवतीर्ण विष्णु ने अपनी नाभी में से कमल की उत्पत्ति को रोकने के लिये, अपने पेट पर के मोती के हार की उज्ज्वल कान्ति से मानो चन्द्रमा की चांदनी फैला दी थी । अर्थात् चन्द्रिका में कमल नष्ट होते हैं इसलिये मोती के हार की मानो चांदनी की ऐसी चमक फैला कर कमल की उत्पत्ति रोक दी । न भोजराजः कविरञ्जनाय मुञ्जोऽथवा कुञ्जरदानदत्तः । हस्ताम्बुजे तस्य गुणिप्रियस्य सहर्षमाविष्कृतहेमवर्षे ॥७१॥ अन्वयः गुणिप्रियस्य तस्य सहर्षम् आविष्कृतहेमवर्षे हस्ताम्बुजे (सति) कुञ्जर- दानदक्षः भोजराजः अथवा मुञ्जः कविरञ्जनाय न । व्याख्या गुणिनो गुणवन्तः प्रिया यस्य स तस्य गुणिप्रियस्य तस्य राजकुमारस्य विक्रमाङ्कदेवस्य हर्षेण सहित सहर्षं सानन्दमाविष्कृतं प्रकटीकृतं हेम्नः सुवर्णस्य वर्षं वृष्टिर्येन स तस्मिन् हस्त एवाम्बुज कमलं तस्मिन् करकमले विराजमाने सति कुञ्जराणां हस्तिना दान प्रदान तस्मिन् दक्षः प्रवीणो भोजराजो धाराधी- शोऽथवा मुञ्जस्तत्पूर्ववर्ती मुञ्जनामनृपः कवीनां रञ्जनं प्रसन्नीकरणं तस्मै करिदानद्वाराऽपि कवीनां मनः प्रसादाय न, न तथा समर्थ इति भावः । भाषा गुणिजनों से प्रेम रखने वाले उस राजकुमार के, प्रसन्नतापूर्वक सुवर्ण की वृष्टि करने वाले कर कमल के रहते हुए अर्थात् अपने हाथ से गुणियों को सहर्ष सुवर्ण दान करते रहने पर, कवियों को हाथियों का प्रदान करने में प्रवीण राजा भोज या राजा मुञ्ज, कवियों को प्रसन्न करने में, वैसे समर्थ नहीं हुए ।

( २०० ) तस्यारिलक्ष्मीपरिरम्भकेलि-समुत्सुकप्राज्यभुजद्वयस्य । केयूर-रत्नाङ्कुरकण्टकानां तैक्ष्ण्यं कृपाणाहतिभिर्निरस्तम् ॥७२॥ अन्वयः अरिलक्ष्मीपरिरम्भकेलिसमुत्सुकप्राज्यभुजद्वयस्य तस्य केयूररत्नाङ्कुर- कण्टकानां तैक्ष्ण्यं कृपाणाहतिभिः निरस्तम् । व्याख्या अरीणां शत्रूणां लक्ष्मीः श्रीस्तस्याः परिरम्भ आलिङ्गनमेव केलिः क्रीड़ा तस्यां समुत्सुकं समुत्कण्ठितं प्राज्यं विशालं भुजद्वयं बाहुयुगलं यस्य तस्य राजकुमारस्य केयूरेऽङ्गदे स्थितानि रत्नानि तेषामङ्कुरा अग्रभागा एव कण्ट- कानि तेषां तैक्ष्ण्यं तीव्रता कृपाणैः शत्रूणां खङ्गैराहतयः प्रहारास्तैर्निरस्तं कृतम् । कृपाणाहतिभिः केयूररत्नाङ्कुरकण्टकानां तैक्ष्ण्यनिराकरणादालिङ्गनं निष्प्रत्यूहम- भवदिति भावः । एतेन लक्ष्म्यास्तस्य राजकुमारस्य सर्वतोभावेन स्वीकरणं ध्वन्यते तेन रसाभासध्वनिः । भाषा शत्रुओं की लक्ष्मी की आलिङ्कनरूपी क्रीड़ा में उत्सुक लम्बी २ दो भुजाओं वाले उस राजकुमार के विजायत मे जड़े हुये रत्नों का अग्रभाग रूपी कांटो का तीखापन, शत्रुओं के खङ्ग के प्रहारों से नष्ट हो गया था । अतएव आलिङ्गन में लक्ष्मी को उन काँटों के गड़ने की आशंका न थी । एकातपत्रोर्जितराज्यलोभाच्छत्रान्तराणामिव वारणाय । स भूभृतामुन्नतवंशभाजां दण्डानशेषाञ्छतधा बभंज ॥७३॥ अन्वयः सः एकातपत्रोर्जितराज्यलोभात् छत्रान्तराणां वारणाय इव उन्नतवंश- भाजां भूभृताम् अशेपान् दण्डान् शतधा बभंज । व्याख्या स राजकुमार एकमेवातपत्रं छत्रं यस्मिन्तदेकातपत्रमेकच्छत्रमूर्जितं समृद्धि- मद्विशालं राज्यं तस्य लोभात्तस्य प्रतिष्ठावाञ्छायाऽन्यच्छत्रं छत्रान्तरं तेषामन्य

( २०२ ) पूर्वांद्रेः पूर्वाचलस्य कटकेषु नितम्बेषु 'कटकोऽस्त्री नितम्बोद्रेः' इत्यमरः। प्रालेयमिव हिममिव शुद्धं श्वेतवर्णं यशः कीर्ति गायन्ति स्म सङ्गीतपुरस्सरं स्तुवन्ति स्म। भाषा युद्ध में गौड या बङ्गाल के राजा को जीत कर उसके हाथियों को छीन लेने वाले, कामरूप या असाम के राजा की समृद्ध प्रतापश्री को समूल नष्ट कर देने वाले उस राजकुमार विक्रमाङ्कदेव की बरफ के समान श्वेत कीर्ति को, सूर्य के रथ के पहियों की घड़घड़ाहट से प्रात काल की निद्रा के आनन्द से वञ्चित अर्थात् जागपड़ी हुई सिद्ध नामक देव कन्याएँ, पूर्वाचल के नीचे के भागों में गाया करती थीं। आसीत्तस्य समुत्सुकः सुरपतिः संग्रामसंदर्शने सेहे किन्तु न गाढपीडितधनुष्टङ्कारमुच्चैःश्रवाः। आरूढः सुरवारणं रणरसक्रुद्धेभगन्ध—ग्रहात् तेनाप्येष पलायनप्रणयिना दूरं समुत्सारितः ॥७५॥ अन्वयः सुरपतिः तस्य संग्रामदर्शने समुत्सुकः आसीत्। किन्तु उच्चैःश्रवाः गाढपीडितधनुष्टङ्कारं न सेहे। (अतः) एषः सुरवारणम् आरूढः। (किन्तु) रणरसक्रुद्धेभगन्धग्रहात् पलायनप्रणयिना तेन अपि एषः दूरं समुत्सारितः। व्याख्या सुराणां देवानां पतिः स्वामीन्द्रस्तस्य विक्रमाङ्कदेवस्य सङ्ग्रामाणां युद्धानां दर्शने कौतुकेन निरीक्षणे समुत्सुक उत्कण्ठित आसीत्। विक्रमाङ्कदेवस्य विचित्रं युद्धकलां सर्वतो निशम्य तस्य युद्धदर्शने कौतुकयुक्तस्तराम् समुत्सुक आसीदिति भावः। किन्तुच्चैःश्रवा इन्द्राश्वः 'हय उच्चैः श्रवाः सूतो मातलिर्नन्दनं वनम्' इत्यमरः। गाढं यथास्यात्तथा पीडितं धनुः शरासनं तस्य टङ्कारं शब्दं न सेहे न सोढुं समर्थः। टङ्कारशब्दं श्रुत्वा पलायित इति भावः। अत एष इन्द्रः सुरवारणमैरावतमारूढोऽधिष्ठितः। किन्तु रणरसेन संग्रामरसेन क्रुद्धाः कुपिताः इभा गजास्तेषां गन्धस्य ग्रहात् ग्रहणात् पलायने वेगेन दूरापसरणे प्रणयः

( २०३ ) प्रीतिर्यस्य तेन पलायनोत्तरलितमनसा तेनैरावतेनाऽप्येष दूरं रणभूमितो महदन्तरं समुत्सारितोऽपनीतः। विक्रमाङ्कदेवस्य गजा गन्धगजा आसन्निति भावः। यस्य गन्धं समाघ्राय पलायन्तेऽपरे गजाः। स सुगन्धगजः प्रोक्त इति। अत्राति- शयोक्तिरलङ्कारस्तेनाऽस्य लोकोत्तरं शौर्यं ध्वन्यते। भाषा इन्द्र को इस विक्रमाङ्क देव का संग्राम देखने की उत्कण्ठा हुई। परन्तु इन्द्र का घोड़ा उच्चैःश्रवा, इस राजकुमार के कान तक खींच कर चलाये जाने वाले धनुष के टङ्कार को न सहन कर सका। अर्थात् उसके धनुष के टङ्कार से भड़क गया। इसलिये इन्द्र ऐरावत नाम के अपने हाथी पर सवार हुआ। परन्तु इस राजकुमार के युद्ध की भावना से क्रोधयुक्त गन्ध गजों की गन्ध से (भयभीत होकर) भाग जाने में ही प्रेम रखने वाला अर्थात् अपना कल्याण समझने वाला ऐरावत भी इन्द्र को युद्धभूमि से दूर भगा ले गया। काञ्ची पदातिभिरमुष्य विलुण्ठिताभूद्- देवालयध्वजपटावलिमात्रशेषा। लुण्टाकक्षुप्तनिखिलाम्बरडम्बराणां कौपीनकार्पणपरेव पुराङ्गनानाम् ॥७६॥ अन्वयः अमुष्य पदातिभिः विलुण्ठिता (सती) देवालयध्वजपटावलिमात्रशेषा काञ्ची लुण्टाकक्षुप्तनिखिलाम्बरडम्बराणां पुराङ्गनानां कौपीनकार्पणपरा इव अभूत्। व्याख्या अमुष्य विक्रमाङ्कदेवस्य पदातिभि पादचारिसैनिकैर्विलुण्ठिता हृतावपहृत- सर्वस्वा सती देवानामालया देवास्तया देवमन्दिराणि तेषां ध्वजेषु पताकासु संसक्ता या पटावलिस्तन्मात्रमेव पताकांशुकान्येव शेषोऽवशिष्टवस्त्रभागो यस्यां सा काञ्ची तन्नाम्नी चोलराजधानी लुण्टाकैर्हठापहरणशीलैर्लुप्तान्यपहृतानि निखिलाम्बराणामखिलवस्त्राणां डम्बराण्याटोपा यासां तास्तासां पुराङ्गनानां

( २०४ ) काञ्चीनगरस्त्रीणां कौपीनकं गुह्याच्छादनवस्त्रं तस्याऽर्पणे परा तत्परेवाऽभूत् । सर्वतो भावेन काञ्चीनगरी पदातिभिर्लुण्ठितेति भावः । भाषा विक्रमाङ्कदेव की पैदल सेना से लूटी जाने पर केवल देव मन्दिरो की पताकाओ में ही वस्त्रो का अस्तित्व रखने वाली चोलराजा की प्रधान नगरी काञ्ची, लुटेरो द्वारा अपहृत वस्त्र समूह वाली नागरिक स्त्रियो को मानों गुह्याङ्ग ढकने के लिये लगोटी ही देने में तत्पर थी अर्थात् समर्थ थी । अर्थात् पूरी तरह से काची नगरी को सैनिको ने लूट लिया था । अत्र द्राविडभूमिपालदलनक्रीडारसोद्दामरे कोदण्डध्वनिभिर्विधुन्वति घनध्वानानुकारैर्जगत् । वैदेहीरमणस्य रावणशिरश्छेदेऽप्यशान्तक्रुधः प्रत्यावृत्तिरकाण्डकम्पतरलैराशङ्कि लङ्काचरैः ॥७७॥ अन्वयः द्राविडभूमिपालदलनक्रीडारसोद्दामरे अत्र घनध्वानानुकारैः कोदण्ड- ध्वनिभिः जगत् विधुन्वति (सति) अकाण्डकम्पतरलैः लङ्काचरैः रावण- शिरश्छेदे अपि अशान्तक्रुधः वैदेहीरमणस्य प्रत्यावृत्तिः आशङ्कि । व्याख्या द्राविडश्चसौ भूमिपालश्च द्राविडभूमिपालश्चोलदेशराजस्तस्य दलनस्य पीडनस्य या क्रीडा लीलास्तस्या रसे उद्डामर अत्युत्सुकस्तस्मिन्नत्राऽस्मिन्विक्र- माङ्कदेवे घनानामेघानां ध्वानो निस्वनस्तदनुकारैस्तत्सदृशैः कोदण्डस्य धनुषो ध्वनिभिश्चशब्दैर्जगल्लोकं विधुन्वति कम्पयति सति अकाण्डेऽसमय एव कम्पो भयेन कम्पनं तेन तरलैश्चञ्चलैर्लङ्काचरै रक्षसै रावणस्य लङ्कापतेः शिरसां छेदे कर्तने कृतेऽप्यशान्ता क्रुध् क्रोधो यस्य तस्य वैदेह्या रमणस्य श्री रामचन्द्रस्य प्रत्यावृत्तिः पुनरावर्तनं पुनरागमनमित्यर्थः । आशङ्कि वितर्कितम् । कोदण्डप्रयोगेऽयं श्री रामचन्द्रवत् कुशल आसीदिति भावः । उत्प्रेक्षालङ्कारः । भाषा चोलदेश के राजा को परास्त करने के क्रीडारस में समुत्सुक, राज कुमार

॥ श्रीः ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम् ——————— चतुर्थः सर्गः कार्यतो युवराजत्वे राजसूनुरवस्थितः । स दिग्विजयमन्याज-वीरः स्मर इवाकरोत् ॥१॥ अन्वयः कार्यतः युवराजत्वे अवस्थितः अव्याजवीरः सः राजसूनुः स्मरः इव दिग्विजयम् अकरोत् । व्याख्या कार्यतस्सम्पूर्णराज्यकार्यकारित्वाद्युवराजत्वे युवराजकार्यसम्पादनेऽवस्थितः प्रतिष्ठितो न तु युवराजपदे समभिषिक्तस्तत्र तु तदग्रजस्सोमदेवो नाम राजपुत्रोऽ- भिषिक्त आसीत् । व्याजेन कपटेन वीरो व्याजवीरः स न भवतीत्यव्याजवीरो निष्कपटवीरः सत्यशूर इत्यर्थः । सः प्रसिद्धो राजसूनुर्नृपपुत्रः 'आत्मजस्तनयः सूनुस्सुतः पुत्रः स्त्रियां त्वमी' इत्यमरः । विक्रमाङ्कदेवः स्मर इव काम इव 'कामः पञ्चशरः स्मरः' इत्यमरः । दिशामाशानां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । लक्षणया दिक्षु स्थितानां राज्ञामन्यजना- नाञ्च विजयं जयमकरोत् । पृथ्वोस्थसकलभूपानां पराजयं विधाय तान् स्ववशे कृतवानित्यर्थः । राजसूनोःस्मरेण साधर्म्यादत्रोपमालङ्कारः 'साधर्म्यमुपमा भेदे' । सर्गेऽस्मिन्ननुष्टुप् छन्दः । 'श्लोके षष्ठं गुरुज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः ॥' इति लक्षणात् भाषा सम्पूर्ण राज्य कार्य करने के लिये युवराज पद पर अभिषिक्त न होते हुए

भी उस पद पर स्थित, उस सत्य शूर राज पुत्र विक्रमाङ्कदेव ने कामदेव के समान समस्त दिशाओ को अर्थात् समस्त दिशाओ के राजाओ को तथा अन्य लोगो को जीत लिया अर्थात् अपने वश में कर लिया । अभज्यन्त गजैस्तस्य लीलया मलयद्रुमाः । समं केरलकान्तानां चूर्णकुन्तलवल्लिभिः ॥२॥ अन्वयः तस्य गजैः लीलया मलयद्रुमाः केरलकान्तानां चूर्णकुन्तलवल्लिभिः समम् अभज्यन्त । व्याख्या तस्य विक्रमाङ्कदेवस्य गजैर्हस्तिभिर्लीलया क्रीडया मलयस्य मलयाद्रेर्द्रुमा वृक्षा. केरलकान्ताना केरलदेशीयरमणीना चूर्णकुन्तला अलका. 'अलकाश्चूर्ण- कुन्तला.' इत्यमर. । एव वल्ल्यो लतास्ताभि सम सहाऽभज्यन्त भग्ना भूमौ निपातिता इत्यर्थ । गजसेनया पतीना विनाशे केरलदेशीयमारीणा चूर्णकुन्तला देशाचाररीत्या ताता मुण्डनेन भूमौ पतिता मलयद्रुमाश्च संवर्गजैर्भूमौ पातिताः । अत्र सहोक्तिरलङ्कारः । द्रुमाणा पाते वल्ल्योऽपि पतन्त्येवेति सूच्यते । भाषा विक्रमाङ्कदेव के हाथियो ने मलयाचल के चन्दनवृक्षों के साथ ही केरल- देशीय स्त्रियो के केशपाश रूपी लता को भी तोड कर पृथ्वी पर गिरा दिया । अर्थात् गज सेना से उनके पतियो का नाश हो जाने पर देशाचारानुसार उन स्त्रियो के विधवा हो जाने से केश भी मूंड़ दिये गये थे और वे पृथ्वी पर गिर गये । मदस्तम्बेरमैस्तस्य मलये निर्द्रुमीकृते । मन्ये चन्दनवायूनामभूद्दुर्धिक्षमक्षयम् ॥३॥ अन्वयः तस्य मदस्तम्बेरमैः मलये निर्द्रुमीकृते (सति) चन्दनवायूनाम् अक्षयं दुर्भिक्षम् अभूत् (इति) मन्ये ।

( २०८ ) व्याख्या तस्य विक्रमाङ्कदेवस्य मदो दानमस्तेयेषु ते मदा मदयुक्ताः 'अर्श आदिभ्यो- जित्यच् प्रत्ययः' । स्तम्बेरमा गजाः 'इभः स्तम्बेरमः पद्मी' इत्यमरः । तैर्मदोन्मत्त- गजैर्मलये मलयपर्वते न सन्ति द्रुमा अस्मिन्निति निद्रुमः न निद्रुमोऽनिद्रुमः, अनिद्रुमो निर्द्रुमः कृत इति निर्द्रुमीकृतस्तस्मिन् 'अभूततद्भावे संपद्यकर्तरि च्विरिति च्विः प्रत्यय' । भक्षणाद्भञ्जनाच्च वृक्षरहिते कृते सति चन्दनवायूनां चन्दनद्रुमसम्र्पकत्कच्छीतलसुगन्धिपवनानां दक्षिणानिलानामित्यर्थः । लक्षयम- विनाशि चिरकालतभवेत्यर्थः । दुर्भिक्षमभावोऽभूदित्यहं मन्ये तर्कयामि । गत्रोत्प्रेक्षालङ्कारः । भाषा उसके मदोन्मत्त हाथियो द्वारा मलयाचल का, वृक्षों को तोडने और खाने से, वृक्ष रहित कर दिये जाने पर चिरकाल के लिये शीतल, मन्द, सुगन्ध वायु का (दक्षिणानिल का) अकाल पड गया होगा ऐसा में समझता हूँ । चन्दनस्यन्दिडिण्डीरच्छलेन मलयाचलः । पिण्डं श्रीखण्डवृक्षाणां परोक्षाणामिवाकरोत् ॥४॥ अन्वयः मलयाचलः चन्दनस्यन्दिडिण्डीरच्छलेन परोक्षाणां श्रीखण्डवृक्षाणां पिण्डम् इव अकरोत् । व्याख्या मलयाचलो मलयाद्रिश्चन्दनाच्चन्दनवृक्षात्स्यन्दी प्रच्युतो डिण्डीरः फेनः 'डिण्डीरोऽब्धिकफः फेनः' इत्यमरः । तस्य च्छलेन व्याजेन परोक्षाणां भग्नानामत एव परलोकगतानां श्रीखण्डवृक्षाणां चन्दनतरूणां पिण्डमिव श्राद्धपिण्डमिवाऽ- करोत् कृतवान् । मृतेभ्यः सम्बन्धिभिः पिण्डदानं क्रियते तथैव मलयाचलः स्वोत्पन्नानां सम्प्रति नष्टानां चन्दनवृक्षाणा चन्दनस्यन्दिफेनव्याजेन पिण्डदानं कृतवानित्यर्थः । भाषा मलयाचल ने टूटे हुए चन्दन वृक्षो से चूने वाले (सफेद) फेनो के मिष से मानो मरे हुए अर्थात् नष्ट भए हुए चन्दन-वृक्षो का पिण्डदान किया ।

( २०९ ) सान्द्रचन्दननिष्यन्दपङ्किलैस्तस्य वारणैः । क्षणमौर्वाग्निसन्तापः प्रविश्य शमितोऽम्बुधेः ॥५॥ अन्वयः सान्द्रचन्दननिष्यन्दपङ्किलैः वारणैः प्रविश्य अम्बुधेः ऽऔर्वाग्निसन्तापः क्षणं शमितः । व्याख्या सान्द्रो घनीभूतो यश्चन्दनस्य श्रीखण्डवृक्षस्य निष्यन्दः प्रस्रुतो द्रवीभूत- पदार्थस्तेन पङ्किलैश्चन्दनवृक्षसंघर्षवशादार्द्रशरीरैर्वारणैर्गजैः प्रविश्य समुद्रमध्ये जलक्रीडार्थं गत्वाऽम्बुधेः समुद्रस्यौर्वोऽग्निर्यौर्वाग्निर्बडवाग्निस्तस्मात्सन्तापः पीडा क्षणं क्षणमात्रं शमितः शान्तिं नीतः । 'और्वस्तु बाडवो वडवानलः' इत्यमरः । तस्य शीतचन्दनस्यन्दलिप्ताङ्गेषु गजेषु समुद्रं प्रविष्टेषु समुद्रस्य वडवानलतापः क्षणं शान्तिं गत इति भावः । गम्योत्प्रेक्षालङ्कारः । भाषा (अपने शरीरो को चन्दनवृक्षो से रगड़ने के कारण) गाढे २ चन्दन के रस से लथपथ उसके हाथियो ने समुद्र में स्नानादि क्रीडा के लिए प्रवेश कर (चन्दन की ठण्डक से) समुद्र की वडवानल की गर्मी को थोड़े देर के लिये शान्त कर दिया । और्वाग्नितप्तपाथोधौ चन्दनस्यन्दवासिताः । शीतोपचारसाम्राज्यं भेजुर्मलयनिम्नगाः ॥६॥ अन्वयः चन्दनस्यन्दवासिताः मलयनिम्नगाः और्वाग्नितप्तपाथोधौ शीतोपचार- साम्राज्यं भेजुः । व्याख्या चन्दनस्य श्रीखण्डवृक्षस्य स्यन्देन प्रस्रुतजलेन वासिताः सुगन्धित्वमापन्ना मलयस्य मलयाद्रेर्निम्नगा नद्यः 'स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा' इत्यमरः । और्वाग्निना वडवानलेन तप्त उष्णतां प्रापितः पायोधिस्समुद्रस्त- १४