विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 368, कुल 493 में से
संदर्भ में पढ़ें( ३६१ ) अन्वयः कुटिलमतिः असौ पराभवप्रगल्भम् अमुम् एव पुनः विशङ्कमानः (सन्) पृष्ठक्रोपेहेतोः अस्य प्रकृतिविरोधिं सोमदेवं प्रगुणम् अकृत । व्याख्या कुटिला कुटिलनीतियुक्ता मतिर्बुद्धिः 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । यस्य स कुटिलमतिरसौ वेङ्गीनाथो राजिगे पराभवे शत्रूणां पराजयकरणे प्रगल्भं निष्णातम् अमुं विक्रमाङ्कदेवमेव पुन शश्वद्विशङ्कमान जातशङ्केहेतु मन्यमानः सन् पृष्ठेव पृष्ठभागेन कोप आक्रमणमेव हेतु कारणं तस्माद्विक्रमाङ्कदेवस्य पृष्ठभागादाक्रमणार्थं छलेन विक्रमाङ्कदेवं विजेतुमित्यर्थः । अस्य विक्रमाङ्कदेवस्य प्रकृत्या स्वभावेनैव विरोधिनं प्रतिकूलं सोमदेवं विक्रमाङ्क- देवज्येष्ठभ्रातरं प्रगुणं समुद्यतमकृत कृतवान् । भाषा कुटिलनीति में कुशल राजिगे वेङ्गीनाथ राजेन्द्र चोल ने, शत्रुओं को परास्त करने में कुशल विक्रमाङ्कदेव की फिर से काञ्ची में आने की आशङ्का से, विक्रमाङ्कदेव के स्वाभाविक विरोधी उसके बड़े भाई सोमदेव को, विक्रमाङ्कदेव पर पीछे से आक्रमण करने के लिये तैयार कर लिया । सुभटशतनिशातखड्गधारा-विहरणसन्नणपादपल्लवेव । अपि नयनिपुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥ अन्वयः श्रीः सुभटशतनिशातखड्गधारविहरणसन्नणपादपल्लवा इव नयनिपुणेषु अपि भरेण पदं नो क्षिपति प्रमादिषु किमुत । व्याख्या श्री राज्यलक्ष्मीः सुभटानां सुयोधानां शतं सुभटशतं तस्य निशातास्तीक्ष्णा खड्गानां करवालानां धारा अग्राणि तासु विहरणेन सविलाससञ्चरणेन सव्रणौ सक्षतौ पादपल्लवौ चरणकिसलये यस्याः सा इव नये नीतौ निपुणा प्रगल्भास्तेषु नीतिप्रगल्भेष्वपि भरेण शरीरभारेण सामस्त्येन सर्वतोभावेनेत्यर्थः । पदं चरणं नो क्षिपति न निदधाति । सक्षतपादपल्लवस्य व्यथाभयात् । दृश्यते च लोके