भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ३६१ ) अन्वयः कुटिलमतिः असौ पराभवप्रगल्भम् अमुम् एव पुनः विशङ्कमानः (सन्) पृष्ठक्रोपेहेतोः अस्य प्रकृतिविरोधिं सोमदेवं प्रगुणम् अकृत । व्याख्या कुटिला कुटिलनीतियुक्ता मतिर्बुद्धिः 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । यस्य स कुटिलमतिरसौ वेङ्गीनाथो राजिगे पराभवे शत्रूणां पराजयकरणे प्रगल्भं निष्णातम् अमुं विक्रमाङ्कदेवमेव पुन शश्वद्विशङ्कमान जातशङ्केहेतु मन्यमानः सन् पृष्ठेव पृष्ठभागेन कोप आक्रमणमेव हेतु कारणं तस्माद्विक्रमाङ्कदेवस्य पृष्ठभागादाक्रमणार्थं छलेन विक्रमाङ्कदेवं विजेतुमित्यर्थः । अस्य विक्रमाङ्कदेवस्य प्रकृत्या स्वभावेनैव विरोधिनं प्रतिकूलं सोमदेवं विक्रमाङ्क- देवज्येष्ठभ्रातरं प्रगुणं समुद्यतमकृत कृतवान् । भाषा कुटिलनीति में कुशल राजिगे वेङ्गीनाथ राजेन्द्र चोल ने, शत्रुओं को परास्त करने में कुशल विक्रमाङ्कदेव की फिर से काञ्ची में आने की आशङ्का से, विक्रमाङ्कदेव के स्वाभाविक विरोधी उसके बड़े भाई सोमदेव को, विक्रमाङ्कदेव पर पीछे से आक्रमण करने के लिये तैयार कर लिया । सुभटशतनिशातखड्गधारा-विहरणसन्नणपादपल्लवेव । अपि नयनिपुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥ अन्वयः श्रीः सुभटशतनिशातखड्गधारविहरणसन्नणपादपल्लवा इव नयनिपुणेषु अपि भरेण पदं नो क्षिपति प्रमादिषु किमुत । व्याख्या श्री राज्यलक्ष्मीः सुभटानां सुयोधानां शतं सुभटशतं तस्य निशातास्तीक्ष्णा खड्गानां करवालानां धारा अग्राणि तासु विहरणेन सविलाससञ्चरणेन सव्रणौ सक्षतौ पादपल्लवौ चरणकिसलये यस्याः सा इव नये नीतौ निपुणा प्रगल्भास्तेषु नीतिप्रगल्भेष्वपि भरेण शरीरभारेण सामस्त्येन सर्वतोभावेनेत्यर्थः । पदं चरणं नो क्षिपति न निदधाति । सक्षतपादपल्लवस्य व्यथाभयात् । दृश्यते च लोके

( ३६२ ) सव्रणचरणा भूमौ शरीरस्य सम्पूर्णभारेण सुतरां पदं न निदधत इति । प्रमादिषु प्रमादप्रसक्तेष्वनयहितेषु जनेषु तु सुखेन पदनिक्षेपणं किमुत वक्तव्यम् । अर्थात् प्रमादिषु नीतिरहितेषु तु लक्ष्म्याः प्रेमप्रवणत्वमत्यन्तमसम्भाव्यमितिभावः । अत्र पादपल्लवे खड्गधारा-विरहण-जन्यव्रण-सहितत्वस्फोटकंटककोटिकसंभावना- दुत्प्रेक्षालङ्कारः । भाषा सैकडो योद्धाओ की तीखी खड्गधाराओं पर घूमने से मानो जिसके चरणों में घाव हो गए है ऐसी लक्ष्मी, नीति युक्त कार्य करने वाले राजाओ के पास भी शरीर का पूर्ण बोझा देकर अर्थात् सर्वतो भावेन अपना पद नही रखती अर्थात् स्थान ग्रहण नही करती । अनीति युक्त कार्य करने वाले प्रमादियो के पास लक्ष्मी के निवास के सम्बन्ध में कहना ही क्या है ? अर्थात् प्रमादियो के पास तो लक्ष्मी आ ही नही सकती । जिसके पावों में घाव रहता है वह स्वभाव से ही अपने चुटीले पाव पर शरीर का कुल बोझा देकर कभी नही चलता है । जख्मी पाँव वाली लक्ष्मी इसी से नीति निपुणो के पास भी अपने पाव पर शरीर का पूरा बोझा देकर नही रहती अर्थात् सर्वतो भावेन नही रहती । अवतरति मतिः कुपार्थिवानां सुकृतविपर्ययतः कुतोऽपि तादृक् । झटिति विघटते यया नृपश्रीस्तटगिरिसंघटितेव नौः पयोधेः ॥२६॥ अन्वयः कुपार्थिवानां सुकृतविपर्ययतः कुतः अपि तादृक् मतिः अवतरति यया नृपश्रीः पयोधेः तटगिरिसंघटिता नौः इव झटिति विघटते । व्याख्या कुपार्थिवानां भिन्नचरित्राणां नृपाणां सुकृतस्य पुण्यकर्मणो विपर्ययो दुष्कृतं तस्मात्पापादित्यर्थः । कुतोऽपि कस्मादपि वचोऽविषयात् तादृक् तादृशी विचित्रा मतिर्बुद्धिरवतरति संजायते यया दुर्बुद्ध्या नृपश्री राजलक्ष्मीः पयोधेः समुद्रस्य तटे तीरे गिरिः पर्वतस्तेन संघटिता संघट्टमासादिता नौरिव नौकेव झटिति द्राग् विघटते विपन्ना भवति समुद्रे मज्जति इति भावः । उपमालङ्कारः ।

( ३६२ ) भाषा दुश्चरित्र राजाओ के पाप से उनमें न जाने कहाँ से ऐसी बुद्धि अर्थात् द्धि आ जाती है जिससे राजलक्ष्मी, समुद्र के किनारे के पर्वतों से टकराई नाव के समान शीघ्र नष्ट हो जाती है। व्रतमिदमिह शस्त्रदेवतानां दृढमधुनापि कलौ निरङ्कुशेऽपि । ऽविनयपथवर्तिनं यदेताः प्रबलमपि प्रधनेषु वञ्चयन्ति ॥३०॥ अन्वयः इह निरङ्कुशे अपि कलौ शस्त्रदेवतानाम् इदं दृढं व्रतं यत् एताः अधुना अपि अविनयपथवर्तिनं प्रबलम् अपि प्रधनेषु वञ्चयन्ति । व्याख्या इहाऽस्मिन् जगति निरङ्कुशेऽपि निष्प्रतिबन्धेऽपि कलौ कलियुगे शस्त्राणामा- युधानां देवतास्तदधिष्ठातृदेवतास्तेषामधुनाऽपि साम्प्रतमपीदमेतद् दृढं निश्चितं व्रतं नियमो यद्यस्मात्कारणादेताः अत्राधिष्ठातृदेवता अविनयस्योद्धतस्य पन्था मार्गोऽविनयपथस्तस्मिन् वर्तत इत्यविनयपथवर्ती तं कुमार्गगामिनं प्रबलमपि प्रकृष्टबलवन्तं शूरमपि प्रधनेषु युद्धेषु 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' इत्यमरः । वञ्चयन्ति प्राङ्मुखास्तिति तत्समीहितं नोत्पादयन्ति । काव्य- लिङ्गमलङ्कारः । . भाषा इस जगत् में इस निरङ्कुश कलियुग में भी, शस्त्रों की अधिष्ठातृ देवताओं का सम्प्रति भी यह निश्चित नियम है कि वे अनीतिमार्गारूढ बलवान् से बलवान् को भी युद्धों में धोखा देती हैं । अर्थात् उनका साथ नहीं देतीं । इति मुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः । बलभरबहुमानतः पतङ्ग-व्रतमुपयान्ति परप्रतापदीपे ॥३१॥ अन्वयः इति प्रयान्त्या श्रिया मुषितधियः दग्धभूपाः रभसवशात् अविचिन्त्य बलभरबहुमानतः परप्रतापदीपे पतङ्गव्रतम् उपयान्ति ।

( ३६४ ) व्याख्या इति पूर्वोक्तापयगामित्वाद्धेतोः प्रयान्त्या नृपमेकं परित्यज्यान्यत्र गच्छन्त्या श्रिया राजलक्ष्म्या मुषिताऽपहृता धीः सदसद्विवेकिनी बुद्धिर्येषां तेऽपहृतसम्मतयो दग्धभूपा दुष्टराजानो रभसवशादविमृश्यकारित्वादविचिन्त्याऽज्ञातवैव बलस्य सैन्यस्य भरोऽतिशयस्तस्य बहुमानोऽतिदर्पस्तस्मात् स्वसैन्याधिक्यातिदर्पतः परेषां शत्रूणां प्रतापस्तेज एव दीपस्तस्मिन् पतङ्गानां शलभकीटानां व्रतं गतिं शलभत्व- मित्यर्थः । उपयान्ति प्राप्नुवन्ति । शलभत्वत्परप्रतापदीपशिखायां भस्म- साद्भवन्तीति भावः । पतङ्गानां व्रतमिव व्रतं प्राप्नुवन्तीत्यर्थपरामर्शात् पदार्थ- निदर्शनालङ्कारः । भाषा अनीतिमार्ग पर आरूढ होने से, उन राजाओ को छोड़ कर अन्यत्र जाने वाली राजलक्ष्मी के द्वारा अपहृत सुबुद्धि वाले दुष्ट राजा लोग, बिना विचारे शीघ्रता से कार्य करने के कारण, बडी पलटन होने के अधिक गर्व से अनजान में ही शत्रु के प्रताप रूपी दीपक में फतिङ्गो के समान जलकर भस्म हो जाते हैं । सकलमपि विदन्ति हन्तशून्यं क्षितिपतयः प्रतिहारवारणाभिः । क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥ अन्वयः क्षितिपतयः प्रतिहारवारणाभिः सकलम् अपि शून्यं विदन्ति हन्त । यत् प्रकृतिजडाः अमी परलोकचिन्तनाय क्षणम् अपि न संरभन्ते । व्याख्या क्षितिपतयो राजानः प्रतिहारैर्द्वारपालैर्वारणाः सर्वजनप्रवेशनिषेधकरणानि तैर्द्वारपालकृतसकललोकापसारणैः सकलमपि सम्पूर्णमपि जगत् शून्यं स्व विहाया- न्यनियन्तृरहितं विदन्ति जानन्ति हन्तेति खेदे अथवा सर्वशून्यमिति बौद्धमत- मवलम्बते । यदस्मात्कारणात् प्रकृत्या स्वभावेन जडा मूर्खा अमी भूपाः परलोकस्य मर्त्यलोकं विहायाऽन्यलोकस्येहकृतकर्मफलभोगाश्रयभूतस्य जन्मान्तरस्य या चिन्तनमस्तित्वविचारस्तस्मै परलोकचिन्तनाय क्षणमपि स्वल्पकालमपि न संरभन्ते न चेष्टां विदधति । बौद्धा अपि पुनर्जन्म नोररीकुर्वन्ति । पूर्ववाक्या-

( ३६५ ) र्धैऽपरवाक्यार्थस्य हेतुत्वप्रदर्शनात् काव्यलिङ्गमलङ्कारः । अथवा पूर्वोत्तर वाक्यार्थयोः परस्परं व्याप्तेरनुमानालङ्कारः । भाषा दुःख की बात है कि ये दुष्ट राजा लोग द्वारपालों के रोकने से भीतर किसी का प्रवेश न होने के कारण भीतर एकान्त होने से सम्पूर्ण जगत् को शून्य अर्थात् अपने को छोड़ कर दूसरा कोई भी इस जगत् का नियन्ता नहीं है—ऐसा समझने लगते हैं । क्योंकि ये स्वाभाविक मूर्ख राजागण इस लोक को छोड़ कर परलोक में जाने पर उनकी क्या दशा होगी इसका क्षण भर भी विचार नहीं करते । अथवा 'सर्वं शून्यं' मानकर बौद्ध हो जाते हैं इसीलिये पुनर्जन्म नहीं मानते । विदधति कुधियोऽत्र देवबुद्धिं स्फटिकशिलाघटनासु वर्तुलासु । इति मनसि निधाय दग्धभूपास्त्रिनयनलिङ्गमपि स्पृशंति मिथ्या ॥३३॥ अन्वयः दग्धभूपाः, अत्र कुधियः वर्तुलासु स्फटिकशिलाघटनासु देवबुद्धिं विदधति इति मनसि निधाय त्रिनयनलिङ्गम् अपि मिथ्या स्पृशन्ति । व्याख्या दग्धभूपा दुष्टनृपा, अत्राऽस्मिन् संसारे कुधियो निन्दितबुद्धयो मूर्खा इत्यर्थः । वर्तुलासु वर्तुलाकारासु स्फटिकस्य शिलाः पाषाणास्ताभिर्घटना निर्माणं यासां तास्तासु स्फटिकनिर्मितशङ्करलिङ्गमूर्तिषु देवबुद्धिं देवत्वज्ञानं तदाश्यां वा विदधति कुर्व्वन्ति । जगति मूर्खा एव स्फटिकनिर्मितदेवमूर्तिषु देवबुद्धिं धार- यन्तीति भावः । इतीत्थं मनसि हृदये निधाय निश्चित्य त्रीणि नयनानि यस्य स त्रिनयनस्त्रिनेत्रः शिवस्तस्य लिङ्गं लिङ्गरूपां मूर्तिं मिथ्या मिथ्यात्वरूपेण स्पृशन्ति स्पर्शं कुर्वन्ति गृह्णन्तीत्यर्थः । भाषा इस संसार में, मूर्ख लोग, स्फटिक की गोल शक्ल की लिङ्ग मूर्त्तियो पर देवत्व बुद्धि रखते हैं, ऐसा मन में निश्चय कर, दुष्ट राजा लोग शिव के ज्योतिर्लिङ्ग को भी मिथ्या समझते हैं ।

( ३६६ ) अविरततरुणीसहस्रमध्य-स्थितिविगलत्पुरुषव्रता इवैते । प्रतिपदमतिकातराः क्षितीशाः परिकलयन्ति भयं समन्ततोऽपि ॥३४॥ अन्वयः एते क्षितीशाः अविरततरुणीसहस्रमध्यस्थितिविगलत्पुरुषव्रताः इव प्रतिपदम् अतिकातराः (सन्तः) समन्ततः अपि भयं परिकलयन्ति । व्याख्या एते इमे दुष्टाः क्षितीशा राजानोऽविरतं सन्ततं तरुणीनां युवतीनां सहस्रं तस्य मध्ये या स्थितिनिवासस्तया विगलत्परिपतत्पुरुषाणां नराणां व्रतं धर्मः पौरुषमित्यर्थः । येषां ते निरन्तरयुवतीसहस्रमध्यस्थित्या नश्यत्पौरुषा इव प्रतिपदं प्रतिक्षणमतिकातरा अत्यन्ततभीतास्सन्तः समन्ततोऽपि परितोऽपि भयं भीतिं परिकलयन्ति परिपश्यन्ति विचारयन्तीत्यर्थः । अत्र तरुणीमध्यस्थितेर्नष्ट- पुरुषबले हेतुत्वेन संभावनादुत्प्रेक्षालङ्कारः । भाषा सदैव हजारो युवतियों के बीच में रहने से मानो जिनका पुरुषत्व ही नष्ट हो गया है, ऐसे ये दुष्ट राजा लोग, पद पद पर अत्यन्त कायर होकर, चारो ओर भय ही देखते हैं । अर्थात् उनको चारो ओर से भय की ही प्रतीति होती है । अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु । हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥३५॥ अन्वयः रक्तपङ्किलेषु समरमहाध्वसु सदा अभिसरणपरा इयं वराकी नृपश्रीः धरणिभुजां हृदि निहितपदा एव कलङ्कम् आतनोति । व्याख्या रक्तेन रुधिरेण पङ्किलाः कर्दमयुक्तास्तेषु समरा युद्धस्थलान्येव महाध्वानो विषममार्गास्तेषु सदा निरन्तरमभिसरणं यानं तस्मिन्पराऽऽसक्ता अभिसारिका या रक्तपङ्किलयुद्धेषु सदा विहरमाणेत्यर्थः । इयमेषा वराकी असन्तुष्टा दुराचारिणी या नृपश्री राजलक्ष्मी धरणिभुजां महीभुजां दुष्टानां राज्ञामित्यर्थः । हृदि

मनसि निहितं स्थापितं चरणं यया सा निहितपदैव राज्ञां मनसि तस्या विचार- मात्रेणेवेति भावः । कलङ्कं पङ्कचिह्नं 'कलङ्काङ्कौ लाञ्छनञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । पक्षे चरित्रे लाञ्छनमातनोति विस्तारयति । यथा कस्याश्चिद्धूलिधूसरितपदायाः स्त्रियः पादस्य संयोगेन तत्स्थानं मलिनं भवति तथैव राजलक्ष्म्याः मनसि विचारमात्रेणैव दुष्टानां राज्ञां हृदयं कलुषितं भवति किं पुनस्तल्लाभादिति भावः । अथवा शौर्यैकप्राप्याया राजलक्ष्म्या स्त्रैणनृप- मनसि तस्याः संप्राप्तिविचारमात्रेणैव तेषां हृदयं कलङ्कितं भवतीति भावः । अथवा दुराचारिणीसम्बन्धाद्रूपा अपि दुर्यशसो भवन्तीति भावः ।

भाषा खून के कीचड़ से भरे संग्राम रूपी विषम मार्गों पर घूमने में आसक्त, असन्तुष्ट राजलक्ष्मी या अभिसारिका रूपी दुराचारिणी राजलक्ष्मी दुष्ट राजाओं के हृदय में पैर रखते ही उसको कलङ्कित कर देती है । अर्थात् शौर्यमात्र से प्राप्त हो सकने वाली राजलक्ष्मी, स्त्रैण राजाओं के उसको प्राप्त करने की हार्दिक इच्छा ही से उनके हृदयों को कलुषित कर देती है । अथवा दुराचारिणी अभिसारिका रूपी राजलक्ष्मी के विचार से ही दुष्ट राजा कलङ्कित हो जाते हैं ।

गुणिनमगुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमाप्तवर्गम् । वितरति मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥

अन्वयः इयं लक्ष्मीः उपसर्पणमात्रकेण गुणिनम् अगुणिनं स्वजनम् अमित्रम् आप्तवर्गम् अनाप्तं वितर्कयन्ती (सती) नृपाणां मतिविप्लवं वितरति ।

व्याख्या इयमेषा लक्ष्मी राज्यश्री उपसर्पणमेव समीपगमनमेवेत्युपसर्पणमात्रमुप- सर्पणमात्रमेवोपसर्पणमात्रकं तेन सामीप्यप्राप्त्यैव गुणिनं गुणवन्तं पुरुषमगुणिनं गुणशून्यं स्वजनमात्मीयजनं मित्रमित्यर्थः । अमित्रं शत्रुमाप्तवर्गमाप्तानां विश्वासपात्राणां वर्गं समूहमनाप्तं सन्देहस्थानं वितर्कयन्तीविचिन्तयन्ती (प्रयोज- कर्त्री णिव् ।) नृपाणां राज्ञां मतिविप्लवं बुद्धिविभ्रमं वितरति प्रयच्छति । राजलक्ष्मीसंसर्गादेव नृपाणां मतिविभ्रमो भवतीति भावः ।

( ३६८ ) भाषा यह राजलक्ष्मी पास में आते ही राजाओं में गुणी को गुणरहित, मित्र को शत्रु और विश्वासपात्रों को अविश्वासपात्र समझने का भाव उत्पन्न कर उनकी बुद्धि में भ्रम उत्पन्न कर देती है। विधिलिखितमिदं कुटुम्बमध्ये नृपतिपदं समुपैति कश्चिदेव । इति हृदि न विचारयन्ति भूपाः कुलमपि निर्दलयन्ति राज्यलुब्धाः ३७ अन्वयः भूपाः, इदं विधिलिखितं (यत्) कुटुम्बमध्ये कश्चित् एव नृपतिपदं समुपैति, इति हृदि न विचारयन्ति (किन्तु) राज्यलुब्धाः (सन्तः) कुलम् अपि निर्दलयन्ति । व्याख्या भूपा राजान, इद वक्ष्यमाणं वस्तु विधिना ब्रह्मणा लिखित लेखद्वारा संघटित, यतो लिखितमेव निश्चित भवति न तु भाषितम् । यत् कुटुम्बमध्ये कश्चिदेव भाग्यशाली जनो नृणां पतिर्नृपतिः स्वामी तस्य पद स्थानं राज्यपदवीं समुपैति संप्राप्नोतीति विषय हृदि मानसे न विचारयन्ति न परिशीलयन्ति किन्तु राज्ये राजपदे लुब्धा लोलुपास्सन्तः कुलमपि स्ववंशमपि निर्दलयन्ति विनाशयन्ति । स्वायोग्यतया स्वकीर्तिमन्तमपि वंशमपकीर्त्या कलङ्कयन्तीति भावः । भाषा राजा लोग यह नहीं विचार करते कि यह ब्रह्मा का लेख है कि कुल में (सब नहीं, किन्तु) कोई ही राजपद को प्राप्त करने योग्य होता है। किन्तु राज्य के लोभी बनकर ये राजा लोग अपने कुल को भी कलङ्कित कर डालते हैं । अनुचितममुना किमग्रजस्य व्यवसितमुन्नतचेतसा यदस्मिन् । अपकरणधिया चकार सन्धिं कुलरिपुणा सह चोलराजीगेन ॥३८॥ अन्वयः उन्नतचेतसा अमुना अग्रजस्य अनुचितं किं व्यवसितं यत् (सः) अस्मिन् अपकरणधिया कुलरिपुणा चोलराजीगेन सह सन्धिं चकार ।

( ३६९ ) व्याख्या उन्नतं समुदार चेतश्चित्तं 'चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। यस्य स उन्नतचेतास्तेनाऽमुना विक्रमाङ्कदेवेनाऽग्रजस्य ज्येष्ठ- भ्रातु सोमदेवस्य किमनुचितं प्रतिकूलं व्यवसितं कृतं यद्यस्मात्कारणादस्मि- न्विक्रमाङ्कदेवेऽपकरणस्याऽपकारस्य चीर्षुद्विस्तया कुलरिपुणा वंशपरम्परायात- शत्रुना चोलराजिगेन वेङ्गिचोलदेशाधिपतिराजेन्द्रेण सह साकं सन्धि गुप्त- मैत्रीं चकार सम्पादितवान् । भाषा उदारचित्त विक्रमाङ्क देव ने अपने बड़े भाई सोमदेव का क्या बिगाड़ा था जो इसने, विक्रमाङ्क देव का अपकार करने की इच्छा से चालुक्य वंश के शत्रु वेङ्गिचोलदेशाधिपति राजेन्द्र से सन्धि कर ली। अथ नृपतनये कृतप्रयाणे गलितनयस्य वधाय राजिगस्य। त्वरिततरमुपागतोऽस्य पृष्ठे सह सकलेन बलेन सोमदेवः ॥३६॥ अन्वयः अथ नृपतनये गलितनयस्य राजिगस्य वधाय कृतप्रयाणे (सति) सोमदेवः सकलेन बलेन सह अस्य पृष्ठे त्वरिततरम् उपागतः । व्याख्या अथाऽनन्तरं नृपस्याऽऽहवमल्लदेवस्य तनये पुत्रे विक्रमाङ्कदेवे गलित औचित्य- मार्गात्परिभ्रष्टो नयो नीतिमार्गो यस्य त तस्य राजिगस्य वेङ्गि-राजेन्द्रस्य वधाय नाशाय कृतं विहितं प्रयाणं प्रस्थान येन स तस्मिन्, प्रस्थिते सति सोमदेवो ज्येष्ठभ्राता सकलेन सम्पूर्णेन बलेन सैन्येन 'अनीकिनी बलं सैन्यं चक्रं चानीक- मस्तियाम्' इत्यमरः । सह साकमस्य विक्रमाङ्कदेवस्य पृष्ठे पृष्ठभागे त्वरिततरं द्रुततरमुपागतस्सम्प्राप्तः । भाषा बाद में, राजपुत्र विक्रमाङ्क देव के, अनुचितनीति मार्ग पर आरूढ वेङ्गि- राजेन्द्र का वध करने के लिये रवाना होने पर, सोमदेव अपनी सब पलटनो के साथ इसके पीछे जल्दी से आ गया। २४

( ३७० ) अथ षड्भिः पद्यैः सोमदेवहस्तिनो वर्णयति कविः— अनुसरदसितातपत्रमैत्रीं मधुकरमण्डलमाससाद येषाम् । अतिविपुलकपोलदानपङ्क–प्रभवसरोरुहिणीदलानुकारम् ॥४०॥ अन्वयः असितातपत्रमैत्रीम् अनुसरत् मधुकरमण्डलं येषाम् अतिविपुलकपोल- दानपङ्कप्रभवसरोरुहिणीदलानुकारम् आससाद । व्याख्या असितस्य कृष्णवर्णस्याऽऽतपत्रस्य छत्रस्य मैत्रीं सादृश्यं तामनुसरत्सपारयन्म- धुकराणां भ्रमराणां मण्डलं समूहो येषां सोमदेव गजानामतिविपुलेष्वत्यन्त- प्रशस्तेषु कपोलेषु गण्डस्थलेषु दान मद एव पङ्कः कर्दम स एव प्रभव उत्पत्तिस्थानं यासां तासां सरोरुहिणीनां कमलिनीनां दलानां पत्राणां ‘पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्’ इत्यमरः । अनुकारं साम्यमाससाद भेजेऽनुप्रापेत्यर्थः । भाषा काले रंग के छत्र के समान कृष्णवर्ण भौंरों के समूह, सोमदेव के हाथियों के अति विशाल गण्डस्थलों पर के मद रूपी कीचड में उत्पन्न नीले रंग की कमलिनी के पत्तों की समानता प्राप्त कर रहे थे । अर्थात् नील कमलिनी के पत्तों के ऐसे शोभित होते थे । अगणितसृणिभिः प्रधावितैर्यैः कुलगिरयः परिघट्टितास्तटेषु । मुमुचुरिव मुखैरजस्रमस्रं विगलितधातुतरङ्गिणीमिषेण ॥४१॥ अन्वयः अगणितसृणिभिः प्रधावितैः यैः तटेषु परिघट्टिताः कुलगिरयः मुखैः विगलितधातुतरङ्गिणीमिषेण अजस्रम् अस्रं मुमुचुः इव । व्याख्या अगणिता उपेक्षिता सृणयोऽङ्कुशा यैस्ते तैरङ्कुशनिक्षेपाऽनियन्त्रितैः प्रधावितैस्तीक्ष्णवेगेन सचलद्भिर्यैर्गजैस्तटेषु प्रान्तभागेषु परिघट्टिता सङ्घट्टं प्रापिताः कुलगिरयः कुलपर्वता 'महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः । विन्ध्यश्च

( २७८ ) रयान्न्रश्च सर्पन्ते कुलपर्वताः' । मुखैरुर्ध्वमार्गेविगलिता स्रवन्ती धातुतरङ्गिणी रक्ताश्याननदी तस्या भियेण व्याजेनाऽजस्रं निरन्तरमथ रुधिर 'रुधिरेऽ- लोहितास्रक्षतजशोणितम्' इत्यमरः । मुमुचुरिव ससृजुरिव वममु- वेत्यर्थः । गजसंघट्टनात्ताडिताः कुलपर्वता उपरिष्टात्पतद्गैरिकादिरक्त- तूनदीभियेन मुखैरस्रं निरन्तरं ववमुरिवेति भावः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा अङ्कुश की परवाह न कर, वेग से दौडने वाले इन हाथियो से, तट भाग में टक्कर खाए हुए, अत एव चोटीले महेन्द्रादि कुलपर्वत, ऊपर से बहने वाली लाल रंग की गेरू आदि धातुओ की नदी के बहाने से मानो मुखो से लगातार रक्त की वम कर रहे थे ।

निजदशनयुगैकबद्धवासां श्रियमिव कर्तुमुपोढकौतुका ये । स्मरणशरणपङ्कजानि चक्रुः सततममर्षपुरःसराः सरांसि ॥४२॥

अन्वयः श्रियं निजदशनयुगैकबद्धवासां कर्तुम् इव उपोढकौतुकाः अमर्षपुरस्सराः ये सरांसि सततं स्मरणशरणपङ्कजानि चक्रुः ।

व्याख्या श्रियं लक्ष्मीं निज स्वकीय यद्दशनयोर्दन्तयोर्युगं युगलमेवैक केवलं तस्मिन् बद्धो दृढतया कृतो वासो संस्थितिर्यया सा तां कर्तुमिव विधातुमिवोपोढं सञ्जातं कौतुकं कुतूहलं येषां ते 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । अमर्षः क्रोधः पुरस्सरो मुख्यो येषां ते ये सोमदेवनृपस्य गजा सरांसि तडागान् सततं निरन्तरं स्मरणं स्मृतिरेव शरणं रक्षास्थानं येषां तानि स्मृतिशरणानि स्मृतिगोचराणि न तु लोके प्रत्यक्षविषयाणि पङ्कजानि कमलानि येषु तानि स्मृतिगोचरकमलानि पद्मरहितानीत्यर्थः । यद्विदुः । हस्तिनां दन्तेषु श्रियः स्थानं प्रसिद्धम् । तदुत्पत्तिमत्प्रेक्षते कविः । यत्सरोवरगतलक्ष्मी-निवास- स्थानकमलसमूहविनाशेन स्वदन्तेषु स्थिर लक्ष्मीनिवासस्थानं ते चक्रुरिति भावः ।

भाषा मानो लक्ष्मी को केवल अपने दोनो दातो की ही निवासिनी बनाने के ध्येय से अत्यन्त उत्सुक तथा क्रोध से भरे सोमदेव के हाथियों ने सरोवरों को स्मृतिमात्र

( ३७२ ) में आने योग्य कमल वाले बनादिया अर्थात् लक्ष्मी के निवास स्थान कमलो को नष्ट कर दिया जिससे उनके दातो में ही लक्ष्मी वास करे। श्रवणमधुरविस्फुरद्ध्वनीनां व्यधुरुपकारधियेव षट्पदानाम्। मदमलिलमुदारसौरभं ये विटपिविधूननपातिभिः प्रसूनैः ॥४३॥ अन्वयः ये श्रवणमधुरविस्फुरद्ध्वनीनां षट्पदानाम् उपकारधिया इव विटपि- विधूननपातिभिः प्रसूनैः मदसलिलम् उदारसौरभं व्यधुः। व्याख्या ये सोमदेवगजा श्रवणयोः कर्णयोर्मधुरं सुश्राव्यः कोमल इत्यर्थं । विस्फुर- द्विलसद् ध्वनि शब्दो येषा ते तेषा श्रवणमधुरविलसच्छब्दाना षट्पदाना भ्रमराणा ‘षट्पदभ्रमरालय’ इत्यमर । उपकारधिया हितसम्पादनबुद्धयेव विटपिना वृक्षाणा विधूननेनाऽन्दोलनेन पातिभिरथ पतनशीलै प्रसूनै पुष्पैर्मद- सलिल मदजलमुदारोऽधिक सौरभ सुगन्धो यस्मिंस्तत्तथप्पू रचक्रु । कर्णमधुर- शब्देनोपकृता गजा स्वमद पुष्परसेनाधिकं सुरबासु विधाय भ्रमरान् प्रत्युप- कुर्वन्ति स्मेति कविरुत्प्रेक्षते । गज-भ्रमरयो परस्परमादानप्रदानाभ्यां परिवृत्तिर्नामालङ्कार । भाषा इन सोमदेव के हाथियों ने कान में आनन्द देने वाली गूंजार करने वाले भौंरों पर मानो उपकार करने की बुद्धि से वृक्षों को झकझोरने से गिरे हुए फूलों से अपने मद जल को अधिक सुगन्धित बना दिया। अर्थात् भ्रमरों के शब्द द्वारा आनन्द देने से उपकृत होकर उनके लिये अपने मद जल को फूलों से अधिक सुगन्धित बनाकर उनका प्रत्युपकार किया। निजतनूभरगौरवाद्गलन्तीं क्षितिमिर ये दधति स्म शैलतुङ्गाः। मदमुकुलितलोचनाश्चलन्तः किमपि करैः सविलासमुन्नमद्भिः ॥४४॥ अन्वयः शैलतुङ्गाः मदमुकुलितलोचनाः सविलासं चलन्तः ये उन्नमद्भिः करैः निजतनूभरगौरवात् गलन्ती क्षितिं किमपि दधति स्म इव ।

( ३७३ ) व्याख्या ईषत्पर्वतवत्तुङ्गा उन्नता पर्वतवद्विशालोच्चशरीरा मदेन दानेन मुकुलितानि नेमीलितानि लोचनानि नयनानि येषां ते सविलासं सलीलं चलन्तो मन्दविक्षेपं कुर्वन्तो ये सोमदेवगजा उपरिष्टादूर्ध्वं क्रियमाणैः करैः शुण्डादण्डैर्निजाः स्वकीया- स्तनवो देहास्तेषां भरस्य भारस्य गौरवात् स्थूलत्वेन गुरुत्वाद्गलन्तीमधो विशन्तीं क्षितिं भूमिं किमपि किञ्चिदपि दधति स्मेवोपरि गृह्णन्ति स्मेव । भाषा पर्वत के ऐसे ऊँचे, मद से अधखुली आंखवाले व मस्ती से झूम झूम कर धीरे धीरे चलने वाले सोमदेव के हाथी, अपने शरीर के बोझे से नीचे धँसने वाली पृथ्वी को मानो अपनी सूँड ऊपर उठा कर कुछ उभार रहे थे । रणजलधिविलोडनप्रचण्डा गिरय इव द्विरदेश्वरास्तदीयाः । दधुरतिमहतीमतीतसंख्याः श्रियमधिरोहितयोधमण्डलास्ते ॥४५॥ अन्वयः अतीतसंख्याः अधिरोहितयोधमण्डलाः रणजलधिविलोडनप्रचण्डाः गिरयः इव ते तदीयाः द्विरदेश्वराः अतिमहतीं श्रियं दधुः । व्याख्या अतीतसंख्याः संख्यामतिक्रम्य वर्तन्त इत्यतीतसंख्या गणनारहिता अधिरो- हितानि स्वपृष्ठोपरि स्थापितानि योधानां सुभटानां मण्डलानि समूहा यैस्ते रणे युद्धमेव जलधिसमुद्रस्तस्य विलोडनेऽवगाहने मन्थने प्रचण्डा निष्णाता गिरय इव पर्वता इव विशाला इत्यर्थः । ते प्रसिद्धास्तस्य सोमदेवस्येमे इति तदीया द्विरदेश्वरा गजेन्द्रा 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विप.' इत्यमरः । अतिमहतीमत्यधिकां श्रियं शोभां दधुः धारयामासुः । गिरिपक्षेऽसंख्याका योधमण्डलपुञ्जा, जलधौ रण इव तद्विलोडने मन्दराचलवत्प्रचण्डा गिरय इवेति दिक् । भाषा असंख्य, योद्धाओं को अपनी पीठ पर धारण करने वाले पक्ष में अपने शिखरों पर रखने वाले, रणरूपी समुद्र को मन्थन करने में प्रवीण, पक्ष में समुद्र को रण

( ३७४ ) मन्दराचल के समान मन्थन करने वाले पर्वतों के समान सोमदेव के गजेन्द्र अत्यन्त शोभा को प्राप्त हो रहे थे । इति सम्बन्धकुलकम्—कुलकमित्यर्थ । अथ सोमदेवसेनाश्वान्पञ्चभिः श्लोकैर्वर्णयति कविः— कुलिशकठिनलोहबन्धयोगान्निजगृहकुट्टिमवद्विलङ्घ्यते स्म । विशिखशकलकण्टकावतीर्णा रणखुरली खुरमण्डलैर्यदीयैः ॥४६॥ अन्वयः यदीयैः खुरमण्डलैः कुलिशकठिनलोहबन्धयोगात् विशिखशकलकण्ट- कावकीर्णा रणखुरली निजगृहकुट्टिमवत् विलङ्घ्यते स्म । व्याख्या येषामश्वानामिमे इति यदीयास्तैः खुरमण्डलैः शफसमूहैः 'शफं क्लीबे खुरः पुमान्' इत्यमरः । कुलिशवद्वज्रवत्कठिनानां कठोराणां लोहबन्धानां खुरेषु कीलितलोहानां "नाल" इति भाषायां प्रसिद्धानां, योगात्सम्बन्धाद्विशिखानां बाणानां शकलानि खण्डान्येव कण्टकास्तैरवकीर्णा व्याप्ता रणखुरली युद्धभूमि- र्निजानि स्वकीयानि गृहाणि गेहाः 'गृहं गेहोदवसितम्' इत्यमरः । तेषां कुट्टिमा निबद्धा भूस्तद्वत् 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । विलङ्घ्यते स्मातिक्राम्यते स्म । भाषा जिन घोडो के खुरो से, वज्र के समान कड़ी नांल बधी होने के कारण, बाणो के टुकडे रूपी काटो से आच्छादित युद्धभूमी, घुडसाल की फरशबन्दी के समान लाघी जाती थी अर्थात् घोड़े, खुरो में कड़ी नाल जड़ी होने के कारण आराम से घुडसाल की पक्की सतह पर चलन के समान बाणो के टुकडे रूपी कांटो से आच्छादित रणभूमि पर भी आराम से चलते थे । व्यजनचटुलवालधिप्रपञ्च-प्रचुरसमीरणपुञ्जमध्यवर्ती । त्वरितगमनलङ्घितोऽपि येषां मरुदविभाव्यतया न लज्जते स्म ॥४७॥

( ३७५ ) अन्वयः व्यजनचटुलवालधिप्रपञ्चप्रचुरसमीरखपुञ्जमध्यवर्ती मरुत् येषां त्वरित- गमनलङ्घितः अपि अविभाव्यतया न लज्जते स्म । व्याख्या व्यजनानि तालवृन्तानीव चटुलाश्चपला वालधयः पुच्छप्रदेशपुञ्जाः 'पुच्छोऽस्त्री लूमलांगूले बालहस्तश्च वालधिः' इत्यमरः । तेषां प्रपञ्चा विस्तारास्तेभ्यः प्रचुरा बहुलाः समीराणा वायवस्तेषां पुञ्जस्य समूहस्य मध्ये वर्तत इति व्यजनचटुलवालधिप्रपञ्चप्रचुर-समीरणपुञ्जमध्यवर्ती भरद्वापुर्यषा- मश्वानां त्वरितगमनेन शीघ्रगतिविशेषेण लङ्घितोऽप्यतिक्रान्तोऽप्यविभाव्य- तयाऽलक्ष्यतया न लज्जते स्म नु त्रपते स्म । मरुद्गतिस्तु प्रसिद्धैव । परमश्वानां गतिस्तस्मादधिकेति लज्जास्थानम् । किन्तु मरुतो व्यजनचटुल- वालधिप्रपञ्चप्रचुरसमीरजपुञ्जवर्तित्वादविभाव्यतया को मां पश्यतीति भावेन लज्जा न सजातेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा ताड के पंखो के समान चंचल पूंछो के हिलने से उत्पन्न अधिक हवाओ के समूह के मध्य में विद्यमान पवन, घोडो से तीव्रगति में पराजित होने पर भी अदृश्य होने से लज्जित न हुआ । अर्थात् घोडो से गति में हरा दिये जाने पर भी अन्य वायुओ के मध्य में रहने से मुझे कौन पहचान सकेगा इस भावना से मरुत् लज्जित न हुआ । प्रतिफलननिभात्सहसमासा मणियमपल्ययनप्रविष्ठितेन । निजरथवहनाथमथिता ये स्वयमधिरुह्य परीक्षिता इवासन् ॥४८॥ अन्वयः ये प्रतिफलनानिभात् काणिमयपल्ययनप्रतिष्ठितेन सहसमासा निजवाह- नार्थम् अर्थिताः (सन्तः) स्वयम् अधिरुह्य परीक्षिताः इव आसन् । व्याख्या येऽश्वाः प्रतिफलनस्य प्रतिबिम्बस्य निभात् व्याजात् 'निभ व्याजसदृक्षयोः' इति कोशः । मणीनां विकार इति मणिमय तादृश पल्ययन पर्याणं (काठी)ति

( ३७६ ) भाषायाम्) तस्मिन् प्रतिष्ठितेन समुपविष्टेन मणिमयपर्ययनप्रतिबिम्बितेनेत्यर्थः । सहस्रं भासो मयूखा यस्य तेन सहस्रभानुना सूर्येण तेषामश्वानां सर्वश्रेष्ठत्वा- न्निजवहनायं स्ववाहनकल्पनाय प्रार्थिता अपेक्षिताः सन्तः स्वयं साक्षात्स्वयमेव तानधिरुह्याश्वोपरि समुपविश्य परीक्षितास्तीव्रतमा गतिरस्ति न वेति निरीक्षिता इवासन् । सूर्याश्वतोऽपि तेषामश्वानां श्रेष्ठत्वमिति भावः । सापह्ववोत्प्रेक्षालङ्कारः । भाषा इन घोड़ों की रत्न जड़ित काठियों पर सूर्य के प्रतिबिम्ब पड़ने के मिष से (अपने घोड़ों से अच्छे समझ) सूर्य द्वारा अपना वाहन बनाने के लिये मागे हुए इन घोड़ों पर मानो स्वयं सूर्य ने सवारी कर उनकी परीक्षा की हो । जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाथ पृथ्वी । नभसि खुरपुटैरिति स्फुरद्भिर्विधिमिव ये स्म मुहुः प्रतिक्षिषन्ति ४६ अन्वयः (हे) नाथ ! पृथ्वी जवसमुचितधावनानुरूपा पृथुला किमिति न कृता इति नभसि स्फुरद्भिः खुरपुटैः ये विधिं मुहुः प्रतिक्षिषन्ति स्म इव । व्याख्या हे नाथ ! हे स्वामिन् ब्रह्मन् । पृथ्वी मेदिनी जवस्य वेगस्य समुचितं योग्यं धावनं तीव्रगमनं तस्यानुरूपाऽनुकूला पृथुला विस्तृता महतीत्यर्थः 'विशङ्कटं पृथुबृहद्विशालं पृथुलं महत्' इत्यमरः । किमिति कस्माद्धेतोर्न कृता न विहिता । इति हेतोरीदृशमनौचित्यं मनसि परिज्ञाय नभसि व्योम्नि स्फुरद्भिस्ततस्ततः समुच्छलद्भिः खुरपुटैः शफसम्पुटैः येऽश्वा विधिं ब्रह्माणं मुहुर्भूयः प्रतिक्षिषन्ति स्मेव समुपालभन्ते स्मेव । खे खुरपुटस्फुरणे ब्रह्मण उपालम्भस्याहार्यसंभावना- दुत्प्रेक्षालङ्कारः । भाषा हे ब्रह्मा जी ! आपने इस पृथ्वी को वेग के अनुसार दौड़ लगाने योग्य विस्तृत क्यो नहीं बनाया । इसीलिए मानो वे घोड़े आकाश में ऊपर दिखाई देने वाले अपने खुरपुटों से ब्रह्मा को उलाहना दे रहे थे या ब्रह्मा की लिहाड़ी ले रहे थे ।

( ३७७ ) प्रतिदिशमधिरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः । अगणितकृतपङ्क्तयो हयास्ते कमिव न चक्रुरुपक्रमं तदीयाः ॥५०॥ अन्वयः अधिरोहिताश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः अगणितकृत- पङ्क्तयः ते तदीयाः हयाः प्रतिदिशं कम् इव उपक्रमं न चक्रुः । व्याख्या अधिरोहितास्स्वपृष्ठोपरि समुपवेशिता अश्ववाराः सादिनः 'अश्वारोहास्तु सादिनः' इत्यमरः । यैस्ते परिचितानि गात्रेषु शोभार्थं निर्मितानि काञ्चनस्य सुवर्णस्य चित्राः विचित्राः वर्मबन्धाः कवचानि येषां तेऽगणितः संख्यामतिक्रान्ताः कृता बद्धाः पङ्क्तयः श्रेणयो येषां ते तथोक्तास्ते प्रसिद्धस्तदोवास्सोमदेव- सम्बन्धिनो हया अश्वाः प्रतिदिशं दिशि दिशि कमिवोपक्रमं रमणयोगं न चक्रुः न विदधुः सर्वमेवोपक्रमं चक्रुरिति भावः । अनेन तेषामश्वानामतिसाहसकर्मकारित्वं सूचितम् । भाषा घुड़सवारों को अपने पीठ पर बैठाए हुए, अपनी शोभा और रक्षा के लिये सोने के विचित्र कवचों को धारण करने वाले, असंख्य कतारें बनाए हुए उन प्रसिद्ध सोमदेव के घोडों ने प्रत्येक दिशा में कौनसा साहसयुक्त कार्य नहीं किया । इति पञ्चभिः कुलकम् । असिविलसितेन तद्बलानामतिलतिकानिबहेन निर्मलेन । गगनगिरितटो नवेन्द्रनील-द्युतिशतनिर्झरधारिणेव रेजे ॥५१॥ अन्वयः गगनगिरितटी तद्बलानाम् असिविलसितेन निर्मलेन असिलतिका- निवहेन नवेन्द्रनीलद्युतिशवनिर्झरधारिणी इव रेजे । व्याख्या गगनमाकाशमेव गिरिः पर्वतस्तस्य तटी प्रान्तभागः (कर्त्री) तस्य सोमदेवस्य बलानि सैन्यानि 'अनीकिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । तेषां

( ३७८ ) सोमदेवसैन्याना असित कृष्णं विलसितं चेष्टितं स्वरूपं वा यस्य स तेन श्याम- वर्णेन निर्मलेन विशदेनाऽस्य खङ्गा एव लतिका लतास्तासा निवहेन समूहेन हेतुना नवो नवीनो य इन्द्रनीलो मरकतमणिस्तस्य द्रुतीनां द्रवीभूतपदार्थाना शतानि तेषा निर्झरान् वारिप्रवाहान् 'वारिप्रवाहो निर्झरो झर' इत्यमरः। धारयतीति नवेन्द्रनीलद्रुतिशतनिर्झरधारिणीव नवीनमरकतमणिद्रवीभूतपदार्थ- शतप्रवाहधारिणीव रेजे शुशुभे। खड्गलतान्वहे कृष्णत्वसाम्यादिन्द्रनीलद्रव- शतनिर्झरत्वस्य सम्भावनादुत्प्रेक्षालङ्कारः। भाषा आकाशरूपी पर्वत का प्रान्तभाग, सोमदेव की सेना के कृष्णवर्ण निर्मल तलवार रूपी लताओं के समूह से मानो नये मरकत मणी (पन्ने) के पानी के सैकड़ो झरनों को धारण करता हुआ शोभित होता था। क्व नु न विलसति स्म कुन्तमाला कलितशिखण्डिशिखण्डमण्डनश्रीः। क्षणमविरहिता विपक्षसेना-भटशिरसामिव मण्डलैस्तदीया ॥५२॥ अन्वयः कलितशिखण्डिशिखण्डमण्डनश्रीः तदीया कुन्तलमाला विपक्षसेना- भटशिरसा मण्डलैः क्षणम् अविरहिता इव क्व नु न विलसति स्म। व्याख्या कलिता धारिता शिखण्डिना मयूराणां शिखण्डं पिच्छमेव मण्डनं भूषणं, तस्य श्री शोभा यया सा तदीया सोमदेवसैन्यसम्बन्धिनी कुन्तमाला प्रासपङ्क्तिः 'प्रासस्तु कुन्त' इत्यमरः। विपक्षाणां शत्रूणा सेना सैन्यं तासां भटा योद्धार- स्तेषां शिरांसि मूर्धानस्तेषां मण्डलस्समूहैः क्षणमीषत्कालायाडविरहितेव युक्तेव क्व नु कस्मिन्समराङ्गणप्रदेशे न विलसति स्म न प्रस्फुरति स्म। सर्वत्र विलसति स्मेति भावः। मयूरपिच्छशोभितास्तदीयसेनाकुन्ता क्षण शत्रुंमस्तक- धारिण इव सर्वत्र दृश्यन्ते स्मेत्यर्थः। भाषा मोरपंख की सजावट से सजाया हुआ सोमदेव के भालों का समूह, थोड़ी देर के लिये, शत्रु की सेना के योद्धाओं के मस्तक समूहों से युक्त होने के समान, कहाँ नही दिखाई देता था अर्थात् सर्वत्र दिखाई देता था।

( ३७९ ) बहुभिरभिहितैः किमद्भुतैर्वा भयजननं भुवनैकमल्लसैन्यम् । रणरसचलितं विलोक्य केषामलभत चेतसि नान्तरं विकल्पः ॥५३॥ अन्वयः बहुभिः अद्भुतैः अभिहितैः किं वा । भयजनन भुवनैकमल्लसैन्यं रणरसचलितं विलोक्य केषां चेतसि विकल्पः अन्तरं न अलभत । व्याख्या बहुभिरनेकैर्द्भुतैराश्चर्यकारिभिरभिहितै कथितैर्वर्णनै रित्यर्थः । किं वा किम्फलं न किमपीत्यर्थः । भयस्य त्रासस्य जननमुत्पत्तिर्यस्मात्तत् भयोत्पादक भुवने जगत्पेष्वेकोगद्वितीयो मल्लो वीरस्सोमदेवस्तस्य सैन्यं बल रणस्य युद्धस्य रसेनोत्साहेन चलित समापतन्तं विलोक्य दृष्ट्वा केषां नृपाणां चेतसि हृदये विकल्प संशयोन्तरमवकाश 'अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये' इत्यमर । नालभत न प्राप । राजानोऽपि तद्वलं वीक्ष्य विजये संशय- युक्ता अभूवन्निति भाव । भाषा बहुत सी आश्चर्य जनक बातें कहने से क्या लाभ ? भयजनक, जगत् के अद्वितीय वीर सोमदेव की सेना को युद्ध के उत्साह से आई हुई देखकर किन राजाओं के हृदय में सन्देह को अवकाश नहीं मिलता था अर्थात् सभी राजा इसकी पलटन देखकर विजय के विषय में सन्दिग्ध हो जाते थे । द्रविड़बलभरे क्रमादयात निकटमुदारभुजस्य राजसूनोः । अपि नृपतिरसौ समीपमागादपकरणावसरं चिरादवाप्य ॥५४॥ अन्वयः द्रविड़बलभरे उदारभुजस्य राजसूनोः क्रमात् निकटं अयाते (सति) असौ नृपतिः अपि अपकरणावसरं चिरात् अवाप्य समीपम् आगात् । व्याख्या द्रविड़बलानि द्रविड़देशाधिपति । चोलराजराजिसंख्यानि तेषां भरस्समूह- 'नित्यानवरताऽजस्रमप्यथातिशयो भर" इत्यमर । तस्मिन् द्रविड़राजसैन्य

समूहं उबारी महाशक्तिमन्तौ भुजो बाहू यस्य तस्य राजसूनो राजपुत्रस्य विक्रमाङ्कदेवस्य क्रमात् क्रमशॊ निकटं समीपमवाप्ते प्राप्ते सन्नसौ प्रसिद्धो नृपतिर्भूमिपतिस्सोमदेवोऽप्यपकरणस्य वैरनिर्यातनस्याऽवसरं समुचितसमयं चिराद्ब- हुकालानन्तरमवाप्याऽधिगत्य समीप विक्रमाङ्कदेवसमीपमागादाजगाम । भाषा धीरे २, द्रविडदेश के राजा चोलराज राजिग की भारी पलटन के, महा- शक्तिशाली भुजावाले राजपुत्र विक्रमाङ्कदेव के पास आने पर, राजा सोमदेव भी चिरकाल के बाद बैर निकालने का अवसर प्राप्त कर, उसके (विक्रमाङ्क देव के) समीप आ गया । ग्रहकलितमिवाग्रजं विलोक्य प्रहरणसम्मुखमश्रुपूर्णनेत्रः । किमपि किमपि विक्रमाङ्कदेवश्चिरमनुचिन्त्य निवेदयाञ्चकार ॥५५॥ अन्वयः विक्रमाङ्कदेवः प्रहरणसम्मुखम् अग्रजं ग्रहकलितम् इव विलोक्य अश्रु- पूर्णनेत्रः (सन्) किमपि चिरम् अनुचिन्त्य किमपि निवेदयाञ्चकार । व्याख्या विक्रमाङ्कदेवः प्रहरणाय शस्त्रैः प्रहारं कर्तुं सम्मुखं समक्षमागतमग्रजं ज्येष्ठभ्रातर सोमदेवं ग्रहैः शनैश्चरादिपापग्रहैः कलितं ग्रस्तमिव विलोक्य दृष्ट्वाऽश्रुभिर्बाष्पै पूर्ण व्याप्ते नेत्रे नयने यस्य स बाष्पाम्बुपूरितनयनस्सन् किमपि वस्तु चिरं बहुकालमनुचिन्त्य विचार्य किमपि वस्तु निवेदयाञ्चकार कथितवान् शनैरुवाचेत्यर्थः । भाषा विक्रमाङ्कदेव ने प्रहार करने के लिये उद्यत, दुष्टग्रहो से गृहीत होने के समान, अपने बडे भाई सोमदेव को देखकर आंखो में आंसु भरकर बहुत देर तक कुछ सोच कर कुछ कहना प्रारम्भ किया । अहह महदनर्थभोजमेतद् विधिहतकेन विरोधसारिणीभिः । अविनयसपूरपूरिताभिर्विहितमकीर्तिफलप्रदानसज्जम् ॥५६॥