विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 432, कुल 493 में से
संदर्भ में पढ़ें( ४२८ ) अन्वयः वसन्तः सिञ्जितनूपुराभिः पुरन्ध्रिभिः विलासदोलाः यत् पूरयामास तेन उद्वसां मन्मथराजधानीं वसन्तीम् अकरोत् । (इत्यहं) मन्ये । व्याख्या वसन्तो वसन्तर्तुः, सिञ्जितानि शब्दायमानानि नूपुराणि मञ्जीराणि ‘मञ्जीरो नूपुरो स्त्रियाम्’ इत्यमरः । यासां तास्ताभिः पुरन्ध्रिभिः स्त्रीभिर्विलासदोलाः क्रीडाप्रेङ्खा यत् पूरयामास परिपूरितवान्, तेन कारणेन उद्वसां उद्गता वसन्तो यस्याः सा उद्वसा तां जनशून्यामित्यर्थः । मन्मथस्य कामस्य राजधानीं प्रधान- नगरीं तां वसन्तीं जनबहुलामकरोत् कृतवान् । वसन्ते कामिनीकर्तृकविलास- दोलाकर्मकाक्रमणेन कामराजधानीरूपविलासदोलायां कामिनीजनाभ्युषितत्वं सूचितम् । इत्यहं मन्ये तर्कयामि । उत्प्रेक्षालङ्कारः । भाषा चूँकि वसन्त ऋतु ने शब्द करने वाले पैंजेब पहने हुई अङ्गनाओ से, आनन्द देने वाले हिंडोलो को भर दिया । इससे मैं समझता हूँ कि वसन्त ऋतु ने कामदेव की उजड़ी राजधानी को बसा दिया । चुचुम्ब वक्त्राणि चकर्ष वस्त्रं चिरं विशश्राम नितम्बबिम्बे । दोलाविलासे गुरुङ्गनानामङ्कुशः केरलमारुतोऽभूत् ॥२६॥ अन्वयः केरलमारुतः अङ्गनानां वक्त्राणि चुचुम्ब, वस्त्रं चकर्ष, नितम्बबिम्बे चिरं विशश्राम । (अतः) दोलाविलासे (अङ्गनानाम्) अनङ्कुशः गुरुः अभूत् । व्याख्या केरलमारुतो दक्षिणदिग्गतकेरलदेशपवनो दक्षिणानिल इत्यर्थः । अङ्गनानां स्त्रीणां वक्त्राणि मुखानि चुचुम्ब पस्पर्श । वस्त्रमम्बरं चकर्ष हठाज्जग्राह । नितम्बबिम्बे पश्चात्कटिभागे चिरं बहुकालं विशश्राम विश्रान्तिं लेभे । अतोऽङ्ग- नानां दोलाविलासे प्रेङ्खाक्रीडायामनङ्कुशः स्वच्छन्दो गुरुरुपदेष्टा आचार्य इत्यर्थः । अभूत् संजातः । गुरुर्यथा स्वशिष्येभ्यः शिक्षां ददाति तथैव दक्षिणपवनोऽङ्गनाभ्यो मुखवस्त्रनितम्बसंसाहाय्येन दोलाविलाससम्बन्धिनीं शिक्षां ददाविति भावः ।