विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 126, कुल 168 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ११३ (चर्चरी ।) सुरसुन्दरि जहणभरालस पीणुत्तुङ्गघणत्थणि थिरजोव्वण सणुमरीरि हसगइ । गयणुज्जलराण्णे मिअलोअणि भमन्ते दिट्ठी तइ तद्विरहसमुन्दरे उत्तारहि मह ॥ ५८ ॥ (उपसृत्याञ्जलिं बद्ध्वा ।) हंहो हरिणीपते, अपि दृष्टवानसि मम प्रियां वने कथयामि ते तदुपलक्षणं शृणु । पृथुलोचना सहचरी यथैव ते सुभगा तथैव रन्तु सापि वीक्ष्यते ॥ ५९ ॥ कथमनादृत्य मद्वचनं कलत्राभिमुखं स्थितः । सर्वथोपपद्यते परिभवास्पदं निधिविपर्ययः । यावदन्यमवकाशमवगाहिष्ये । (परि- क्रम्यावलोक्य च ।) हन्त, दृष्टमुपलक्षणं तस्या मार्गस्य । रक्तकदम्बः सोऽयं प्रियया धर्मान्तशंशि यस्येदम् । कुसुमसगममकेसरविषममपि कृतं शिराभरणम् ॥ ६० ॥ १ सुरसुन्दरी जघनभरालसा पीनोत्तुङ्गघनस्तनी स्थिरयौवना तनुशरीरा हंसगतिः । गगनोच्चलकानने मृगलोचना भ्रमन्ती दृष्टा त्वया तद्विरहसमुद्रात्तारय माम् ॥ इति त्रिकान्तं ॥ ५७ ॥ सुरममुन्दरि—सुरसुन्दरीति । सुरसुन्दरी जघन- भरालसा पीनोत्तुङ्गघनस्तनी स्थिरयौवना तनुशरीरा हंसगतिः । गगनोच्चलकानने मृगलोचना भ्रमन्ती दृष्टा त्वया तद्विरहसमुद्रादुत्तारय माम् ॥ स्थिरयौवना चेत् सुरसुन्दरी दृष्टा । एतादृशेन रूपेणोपलक्षिता मद्विपिया वने भ्रमन्ती यदि त्वया दृष्टा तत्तर्हि मां विरहपारावारात्समुत्तारयेत्यर्थः । तादृशनेत्रेणेत्याह । काननस्य गगनोच्चलत्वं महदग्रगीतकायतिशयादाश्चर्याद् भ्रमत्ये भ्रमन्त्या त्वयेति वा । तद्वत्तथा । अतिरचणीयादित्यर्थ इति वा ॥ ५८ ॥ अपीति । अपिः प्रश्ने । तदुपलक्षणं तस्याश्चिह्नम् ॥ ५९ ॥ रक्तकदम्ब इति । रक्तोऽर्के कद-