विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 139, कुल 168 में से
संदर्भ में पढ़ें११८ विक्रमोर्वशीये सद् कुमारव्वदं गेण्हिअ अकल्लुमो णाम गन्धमादणकच्छो अज्झा- सिदो । किदा अ स्थिदी । राजा—कीदृशी । उर्वशी—जा किल इत्थिआ इमं देसं आगमिस्सदि सा लदाभाएण परिणदा भविस्सदि । किदो अ सावान्तो गोरीचरणरा भसंभवं मणिं धत्तिअ रुदाभात्र ण मुञ्चिस्सदि त्ति । तदो अह गुरूसावसम्मूढहिअआ विसुमरिददेवदाणिअमा अङ्ककाजणपरिहर णीभं कुमारवणं पविट्ठा । पवेसाणन्तरं अ काणणोरन्तवत्तिलदा- भाएण परिणदं मे रूवम् । राजा—प्रिये, सर्वमुपपन्नम् । रतिखेदसुप्तमपि मां शयने या मन्यते प्रवासगतम् । सा त्वमिहेतद्वत्सं कथं सहेथाश्चिरवियोगम् ॥ ७१ ॥ इदं चैतयमाकथितं संगममिति पुरातनऋषभभावमस्यानि । ( इति मणिं दर्शयति ।) सद् गृहीत्वा अकलूशो नाम गन्धमादनकच्छोऽध्यासितः । कृता च स्थितिः । १ या किल स्त्री इमं देशमागमिष्यति सा लताभावेन परिणता भविष्यति । कृतश्च शापान्तो गौरीचरणरागोद्भवं मणिं धृत्वा लताभावं न मोक्ष्यति । ततोऽहं गुरुशापसमूढहृदया विस्मृतदेवनियमा स्त्रीजनपरि- हरणीयं कुमारवनं प्रविष्टा । प्रवेशानन्तरं च काननाभ्यन्तरवर्तिलताभावेन परिणतं मे रूपम् । चिता । स्थितिः ? २ उर्वशी । या किल स्त्री इमं देशमागमिष्यति सा लताभावेन परिणता भविष्यति । कृतश्च शापान्तो गौरीचरणरागोद्भवं म मणें धृत्वा लताभावं मोक्ष्यतीति । ततोऽहं गुरुशापमूढहृदया विस्मृतदेवनियमा
- स्त्रीपरिहार्यं कुमारवनं प्रविष्टा । प्रवेशानन्तरं च काननोरन्तवर्त्तिलताभावेन परिणतं मे रूपम् । इति दर्शयति । इत्यादिना सङ्गमनीयेत्याद्यम् । एतद्भवने