विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 140, कुल 168 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ११९ उर्वशी—कधं संगमणीओ अअं मणी । अदो एव्व महारा- एण आलिङ्गिदा जेव्व एदवत्थम्हि संवुत्ता । राजा—(उत्सङ्गे मणिं संनिवेश्य ।) स्फुरता विच्छुरितमिदं रागेण मणेर्ललाटनिहितस्य । श्रियमुद्वहति मुखं ते बालातपरक्तकमलस्य ॥ ७२ ॥ उर्वशी—पिअंवद, महन्तो क्खु कालो अम्हाणं पडिट्ठाणदो निग्गदाणम् । कदाइ असूइस्सन्ति पकिदिओ अम्हाणम् । ता एहि । गच्छम्ह । (इत्युत्तिष्ठत ।) राजा—यदाह भवती । उर्वशी—अथ कथं महाराओ गन्तुं इच्छदि । राजा— अचिरप्रभाविहसितैः पताकिना सुरकार्मुकाभिनवचित्रशोभिना । गमितेन खेलगमने विमानतां नय मां नवेन वसतिं पयोमुचा ॥ ७३ ॥ ———————————————————————————————— १ कथं संगमनीयोऽयं मणिः । अत एव महाराजेनालिङ्गितैवैतदव- स्थास्मि संवृत्ता । २ प्रियंवद, महान्खलु काल आवयोः प्रतिष्ठानान्निर्गतयोः । कदाचिद- सूयिष्यन्ति प्रकृतय आवाम् । तदेहि । गच्छावः । ३ अथ कथं महाराजो गन्तुमिच्छति । ———————————————————————————————— प्रप्रकारकम् अनिर्वचनीयदृष्टमिति यावत् ॥ ७१ ॥ उर्वशी । कथ संगमनीयोऽय मणि । अत एव महाराजेनालिङ्गितैवैतदवस्थास्मि संवृत्ता ॥ उर्वशी । प्रियंव- महान्खलु काल आवयो प्रतिष्ठानान्निर्गतयो । कदाचित्सूयिष्यन्ति प्रकृतय आवाम् । तदेहि । गच्छाव । प्रतिष्ठानारिति प्रयागपूर्वतीरस्थित झूषी संज्ञकस्थलसगराद् ॥ उर्वशी । अथ कथ महाराजो गन्तुमिच्छति ॥ अचिरप्रभेति । हे सलीलग-