भारतकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 145, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 145

१२४ विक्रमोर्वशीये राजा—किमिदानीं धनुषा । बाणपथातीतं क्रव्यभोजनं । तथाहि । आभाति मणिविशेषो दूरमिदानीं पतत्रिणा नीतः । नक्तमिव लोहिताङ्गः परुषघनच्छेदसंस्पृक्तः ॥ ४ ॥ आर्य लातव्य । कञ्चुकी—आज्ञापयतु देवः । राजा—मद्वचनादुच्यन्तां नागरिकाः सायं निवासवृक्षाग्रे वि- धीयतां विहगावधः । कञ्चुकी—यथाज्ञापयति देवः । (इति निष्क्रान्तः ।) विदूषकः—भो, विसमीभवु भव संपदम् । कहिं गदो सो रवणुकुम्भीलओ भवादो सासणादो मुञ्चिस्सदि । (इत्युपविशतः ।) राजा—वयस्य, रत्नमिति न मे तस्मिन्मणौ प्रयासो विदूरमोतिशते । प्रियया तेनास्मि सरो संगमणीयेन संगमितः ॥ ५ ॥ (ततः प्रविशति सशरं मणिमादाय कञ्चुकी ।) कञ्चुकी—जयति जयति देवः । अनेन निर्भिन्नतनुः स वध्यो । रोषेण ते मार्गणतां गतेन १ भो, विश्रम्यतु भवान्संप्रतम् । कुत्र गतः स रत्नकुम्भीरको भवतः शासनान्मुच्येत । विहगवधः ॥ आभातीति । मणिविशेषः उत्कृष्टो मणिः । लोहिताङ्गो मङ्गलः । कान्तिमात्रा महीसुतः इति च सः । परुषघनच्छेदः परिणतमेघखण्डः ॥ ४ ॥ लातव्य इति कञ्चुकितः संज्ञाम् । तच्चामुमुक्ते प्रकृष्टम् ॥ विदूषकः । भो विश्राम्यतु भवान्संप्रतम् । कुत्र गतः स रत्नकुम्भीरको भवतः शासनान्मुञ्चेत । 'कुम्भी- रकाः कण्डोलवृक्षकल्पः प्रच्छन्न इति शेषः ॥ रत्नमिति मेति । विदू- रगतं वर्णशून्यास्तित्वं जीयते । संगमणीयेन तन्नाम्ना । संगमयेन सह संगमितः ॥ ५ ॥ अनेनेति । निर्भिन्नतनुर्विदारितशरीरः । वयमणीयं विहितः । मार्गणतां गतेन

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद) · पृष्ठ 145, कुल 168 में से · BharatKosha