भारतकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 151, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 151

१३० विक्रमोर्वशीये कुमारः—(राज्ञिनम् ।) तात, वन्दे । विदूषकः—सोत्थि भवदो । वड्ढदु भवम् । (तत प्रविशत्युर्वशी कञ्चुकी च ।) कञ्चुकी—इत इतो देवी । उर्वशी—(प्रविश्यावलोक्य च ।) को णु क्खु एसो कणअपीठोव विट्ठो महाराएण सञ्चीयमाणसिहण्डो चिट्ठदि । (तापसीं दृष्ट्वा ।) अम्महे, सञ्चवदीसहिदो पुत्तओ मे आऊ महन्तो क्खु संवृत्तो राजा—(विलोक्य ।) वत्स, इयं ते जननी प्राप्ता त्वदालोकनतत्परा । स्नेहप्रस्रवनिर्भिन्नमुद्वहन्ती स्तनांशुकम् ॥ १२ ॥ तापसी—जाद, एहि । पच्चुवगच्छ मादरम् । (इति कुमारेण सहोर्वशीमुपसर्पति ।) उर्वशी—अज्जे, पादवन्दणं करेमि । १ स्वस्ति भवते । वर्धतां भगवान् । २ को नु खल्वेष कनकपीठोपविष्टो महाराजेन सज्यमानशिखण्ड स्तिष्ठति । अहो, सत्यवतीसहित पुत्रको मे आयु महांखलु संवृत्तः । ३ जात, एहि । प्रत्युद्गच्छ मातरम् । ४ आर्ये, पादवन्दनं करोमि । वसिष्ठा शृतशिरमैत्रीक इत्यर्थः ॥ विदूषकः । स्वस्ति भवते । वर्धतां भवान् । उर्वशी । को नु खल्वेष कनकपीठोपविष्टो महाराजेन सज्यमानशि खण्डस्तिष्ठति । शिखण्डश्चूडा । 'शिखण्डे बर्हचूण्डयोः' इति मुक्तावली । अम्महे आश्चर्यै । सत्यवतीसहितः पुत्रको मे आयु । महांखलु संवृत्तः ॥ इयमिति । आलोक्तनतत्परा विलोकनैवताना । स्नेहेन प्रेम्णा प्रस्रव क्षरणयः । येन क्लिन्नं भिन्नं संसक्तम् । आर्दीभूतमिति यावत् । स्नेहप्रसर-'इति पाठे स्नेहस्य प्रसरो रोमाञ्चस्वेदनादिद्वारा आधिक्यम् । 'प्रस्रव' इति पाठे स्तन्यपयः अर्थात्तवेदोलूम् । भिन्नं वाध्यपदलार्थे दारिते संसक्ते स्फुटे इति लोचन ॥ १२ ॥ तापसी । जात, एहि प्रत्युपगच्छ मातरम् ॥ उर्वशी । आर्ये, पादवन्दनं करोमि ॥ तापसी ।