विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 153, कुल 168 में से
संदर्भ में पढ़ें१३२ विक्रमोर्वशीये राजा—आर्ये, तत्रभवते च्यवनाय मम प्रणाममावेदविष्यसि । तापसी—ऐव्वं भोदु । कुमारः—आर्ये, सत्यमेव निवर्तनम् । इतो मामपि नेतुमर्हसि । राजा—अयि वत्स, उषितं त्वया पूर्वस्मिन्नाश्रमे । द्वितीयम- ध्यासितुं तव समयः । तापसी—जाद, गुरुणो वअणं अणुचिट्ठ । कुमारः—तेन हि यं सुप्तवान्मदङ्के शिखण्डकण्डूयनोपलब्धसुखम् । तं मे जातकलापं प्रेषय शितिकण्ठकं शिखिनम् ॥ १३ ॥ तापसी—ऐव्वं करेमि । उर्वशी—भअवदि, पादवन्दणं करेमि । राजा—भगवति, प्रणमामि । तापसी—सोत्थि भोदु तुम्हाणम् । (इति निष्क्रान्ता ।) राजा—सुन्दरि, अद्याहं पुत्रिणामग्र्यः सुपुत्रेण त्वयामुना । पौलोमीसम्भवेनेव जयन्तेन पुरंदरः ॥ १४ ॥ १ एवं भवतु । २ जातः, गुरोर्वचनमनुतिष्ठ । ३ एवं करोमि । ४ भगवति, पादवन्दनं करोमि । ५ स्वस्ति भवतु युष्मभ्यम् । गार्ह्य । 'कामं विसृज्य प्रेष्यं विरहोत्कण्ठितासि न पुनर्नेमावरोधे वर्तितुम्' इत्यपि कचित्पाठः ॥ तापसी । एवं भवतु ॥ उषितं स्थितम् । पूर्वेस्मिन्नाश्रमे ब्रह्मचर्याश्रमे । द्वितीयो गार्हस्थ्याश्रमः ॥ तापसी । जात, गुरोर्वचनमनुतिष्ठ । यं सुप्तवानिति । गुप्तवानित्या चकार । यद्वा सुप्तः स्वापो विद्यतेऽस्येति तथा तम् । जातकलापमुद्गतपिच्छभारम् । कलापः संहतौ बर्हे काष्यादावित्युभयदत्तो' इति मुखरटी । शितिकण्ठकं नीलश्रीवं तन्नामानं वा ॥ १३ ॥ तापसी । एवं करोमि ॥ उर्वशी । भगवति, पादवन्दनं करोमि ॥ तापसी । स्वस्ति भवतु युष्मभ्यम् ॥ अद्याहमिति । पुत्रिणां पुत्रवतामग्र्यः श्रेष्ठः पौलोमी