भारतकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 156, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 156

पञ्चमोऽङ्कः । ११५ राजा—(सनिःश्वासं ।) अहो, सुखप्रत्यर्थिता दैवस्य । आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि विप्रयोगः । व्यावर्तितातपरजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत इवानलपण्डितोऽयम् ॥ १६ ॥ विदूषकः—अधं सो भत्थो अणत्थाणुबन्धीत्ति तक्केमि तत्तभ- वदा वकलं गेण्हिअ तवोवणं गन्तव्वं ति । उर्वशी—हा हदम्हि मन्दभाआ। मयि किदविणअस्स पुत्त- अस्स रम्भाणन्तरं सम्गारोहणेण अवसिदकज्जो विप्पओअमुही महाराओ समाथस्सदि । राजा—सुन्दरि, मा मैवम् । नहि सुलभवियोगा कर्तुमात्मप्रियाणि प्रभवति परवशः प्राक्ते तिष्ठ भर्त्तु । १ अथ सोऽर्थोऽनर्थानुबन्धीति तर्कयामि तत्रभवता वल्कलं गृहीत्वा तपोवनं गन्तव्यमिति । २ हा हतास्मि मन्दभाग्या । मयि कृतविनयस्य पुत्रस्य रम्भानन्तरं स्वर्गारोहणेनावसितकार्यं वियोगमुखी महाराजं समर्थयिष्यति । सुखविरोधिता । प्रतिरोधितारको मय्यवस्थितिवत् इति टिप्पणी ॥ आश्वासितस्येति । सुतोपलब्ध्या पुत्रप्राप्त्या । नामेति प्रकाशे । नाम प्राक्- दर्शेनाभ्यस्तेष्वैषम्यमुखेष्विति टिप्पणी । आश्वासितस्य कृतसमाश्वासस्य । विप्रयोगो वियोगः । व्यावर्तिता दूरीकृता आतपरजोभ्यां सा यस्य । अन्धो रश्मिमात्रे साम्प्रतेऽपि च हन्यते इति घटा । भासस्त्विषा इत्युक्त- त्वात् । प्रथमाभ्रवृष्ट्या नूतनमेघवर्षेण । अयं मेधो बरिवाह इत्यमरः । वैद्युतो विद्युत्संबन्धी ॥ १६ ॥ विदूषकः । अथ सोऽर्थोऽनर्थानुबन्धीति तर्कयामि तत्रभवता वल्कलं गृहीत्वा तपोवनं गन्तव्यमिति । असमयप्रविष्टस्य तस्य दुश्चेष्टितस्येत्यपि द्रष्टव्यम् ॥ उर्वशी । हा हतास्मि मन्दभाग्या । मयि कृतविनयस्य पुत्रस्य रम्भानन्तरं स्वर्गारोहणेनावसितकार्यो वियोगमुखं महाराजः समर्थयिष्यति ॥ नहीति । दुःखं मुक्त्वा वियोगेन यतः सोऽपराधी