भारतकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 158, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 158

पञ्चमोऽङ्कः । १२७ राजा—(आकाशमवलोक्य ।) कुतो नु खलु भो विद्युत्संपातः । (निपुणमवलोक्य ।) अये, भगवान्नारदः । गोरोचनानिकषपिङ्गजटाकलापः संलक्ष्यते शशिशकलमलीतसूत्रः । मुक्तागुणातिशयसंभृतमण्डनश्री- र्हैमप्ररोह इव जङ्गमवल्पवृक्षः ॥ १९ ॥ अर्घोऽर्घस्तावत् । उर्वशी—अय्य भअवदो अग्घो । (ततः प्रविशति नारदः ।) नारदः—विजयतां विजयतां मध्यमलोकपालः । राजा—भगवन्, अभिवादये । उर्वशी—भअव, पणमामि । नारदः—अविरहितौ दम्पती भूयास्तम् । राजा—(आत्मगतम् ।) अपि नामैवं स्यात् । (प्रकाशम् । कुमारं निर्दि- श्य ।) वत्स, भगवन्तमभिवादयस्व । कुमारः—भगवन्, और्वशेय आयुः प्रणमति । नारदः—आयुष्मान्भव । १ अयं भगवतोऽर्घः । २ भगवन् प्रणमामि । न हेतुः सः २२ सङ्गाद्दर्विर्वृहन्नरामर्षे इत्यर्थः ॥ १८ ॥ संज्ञिरः ! विवक्षामूह गोरोचनेति । गोरोचनाया निकषः कषपाषाणः सदृशस्तद्वत्पिङ्गो पिङ्गो जटाकलापो जटासमूहो यस्य । शशिशकलं चन्द्रखण्डं मुक्तागुणानां माला- मुक्तागुणामौक्तिकहाराणामतिशयेनात्यन्तं संभृतं कृतं मण्डनं भूषणं शोभा यस्य । तथा हैमप्ररोहः कनकप्रवालः स इव कल्पवृक्ष इव संलक्ष्यते दृश्यते जङ्गमः प्ररोह इव संलक्ष्यते ॥ १९ ॥ उर्वशी । अय्य भअवदो अग्घो । आर्य पूजार्हस्य षष्ठ्या इति विकल्पात् । मध्यमलोकस्य पृथिव्याः । पुत्रि एवं च सत्येवमस्तु इतिविकल्पाद् रूपम् । उर्वशी । भगवन् प्रणमामि ॥ आयुष्मान् भव दीर्घायुर्भव ॥