विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 26, कुल 168 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । २१ राजा—भवत्यश्च सखीसमागमेन । उर्वशी—(चित्रलेखादत्तहस्तावलम्बा रथादवतीर्य ।) हला, अभिअं परिसज्जह । ण क्खु मे आसी आसासो जधा पुणो वि सहीअणं पेक्खिस्सं चि । (सह्य परिष्वजन्ते ।) मेनका—(ससम्भ्रमं ।) सव्वहा कप्पसदं महाराओ पुढविं पालयन्तो होदु । सूतः—आयुष्मन्, पूर्वस्यां दिशि महता रथवेगेनोपदर्शित शब्द । अय च गगनात्कोऽपि तप्तचामीकराङ्गदः । अधिरोहति शैलाग्रं तडित्वानिव तोयदः ॥ १५ ॥ अप्सरसः—(पश्यन्त्यः ।) अह्मो, चित्तरहो । (ततः प्रविशति चित्ररथः ।) चित्ररथः—(राजानं दृष्ट्वा सबहुमानम् ।) दिष्ट्या महेन्द्रोपकार- पर्याप्तेन विक्रममहिम्ना वर्धते भवान् । राजा—अये गन्धर्वराजः । (रथादवतीर्य ।) स्वागतं प्रियसुहृदे । (परस्परं हस्तौ स्पृशतः ।) १ सख्यः, अधिकं परिष्वजध्वम् । न खलु मे आसीदाशासो यथा पुनरपि सखीजनं प्रेक्षिष्य इति । २ सर्वथा कल्पशतं महाराजः पृथिवीं पालयन्भवतु । ३ अहो, चित्ररथः । भाग... सख्यः अधिकं परिष्वजध्वम् । न खलु मे आसीदाशासो यथा पुनरपि सखीजनं प्रेक्षिष्य इति ॥ मेनका । सर्वथा कल्पशतं महाराजः पृथिवीं पालयन्भवतु ॥ अयमिति । गगनात्कोऽपि । चामीकरं सुवर्णम् । चामीकरं जातरूपं महार- जतकाञ्चनम् । इत्यमरः । तस्य चाङ्गदम् । अङ्गदं प्रकोष्ठगदाभरणम् । शैलाग्रं नगशृङ्गम् करीन्द्रस्य । अवगाहति इति पाठे अवगाहीत्यर्थः । तडित्त्वासडियुक्तः । तोयदो मेघः ॥ १५ ॥ अप्सरसः । अह्मो इति । तथा च सागरः — अज्जा अम्म ...