विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 67, कुल 168 में से
संदर्भ में पढ़ें५६ विक्रमोर्वशीये देवी—$^१$दुरागदं दाणिं संवृत्तम् । राजा—(जनान्तिकम् ।) वयस्य, किमत्र प्रतिविधानम् । विदूषकः—(जनान्तिकम् ।) $^२$लोत्तेणे सूइदस्स कुम्भिलअस्स अत्थि वा पडिवअणम् । राजा—(अपवार्य ।) मूढ, नायं परिहासकालः । (प्रकाशम् ।) नेदं पत्रं मया सृज्यते । तत्खलु मन्मथपत्रं यदन्वेषणाय ममायमारम्भः । देवी—$^३$जुज्जदि अत्तणो सोइग्गं पच्छादेदुम् । विदूषकः—$^४$भोदि, तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु । देवी—$^५$णिउणिए, सोहणं क्खु बह्मणेण आसासविदो वअस्सो । विदूषकः—$^६$णं पेक्ख । आसासविदो वअस्सो चित्तभोअणेण । राजा—मूर्ख, बलादपराधििनं मामापादयसि । १ दुरागतमिदानीं संवृत्तम् । २ लोप्त्रेण सूचितस्य कुम्भीरकस्यास्ति वा प्रतिवचनम् । ३ युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् । ४ भवति, त्वरयस्वास्म भोजनम् । पित्तोपशमनेन स्वस्थो भवतु । ५ निपुणिके, शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः । ६ ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन । व जायश नाश्च मा याद व$|३$म् ॥ इति सागरोक्त ॥ दर्घा । दुरागतमिदानीं संवृत्तम् ॥ प्रतोवध्रानं प्रतीकारः ॥ विदूषकः । लोप्त्रेण सूचितस्य । मस्ति कस्यास्त वा प्रतिवचनम् । लोप्तं चोरितद्रव्याश [त] बलुः । दापी इति भाषायां प्रसिद्धम् । स्वल्पस्य वचनदन्तम् इति त्रिहाण्डी । कुम्भीरकश्चोरः । कुम्भीरको गन्ध बन्धकश्चमत्स्यत्सुवः । इति कोषः । २४ । १ विवक्षा पारम्न उज्जाव ॥ दर्घा । युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् ॥ विदूषकः । भवती त्वरयस्वास्म भोजनम् । पित्तोपशमनेन स्वस्थो भवतु ॥ दर्घा । निपुणिके शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः । वयस्य राशो ॥ विदूषकः । ननु प्रेक्षस्व ।