विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 68, कुल 168 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः। ५७ देवी—१णत्थि भवदो अवराहो । अह एव्व अवराद्धा । जा पडिकूलदंसणा भविअ अग्गदो चिट्ठामि । २इदो गमिस्सम् । (इति कोपं नाटयित्वा प्रस्थिता ।) राजा— अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥ (इति पादयोः पतति ।) देवी—(आत्मगतम् ।) मा खु लहुहिअआ अणुणअं बहु मण्णे । किं दु दक्खिण्णकिदपश्चादावस्स भाएमि । (इति राजानमपहाय सपरिवारा निष्क्रान्ता ।) विदूषकः—३दिट्ठणट्ठदी विअ अप्पसण्णा गदा देवी । ण उट्ठेहि । राजा—(उत्थाय ।) वयस्य, नेदमुपपन्नम् । पश्य । प्रियवचनशतोऽपि योषितां दयितजनानुगयो रसादृते । १ नास्ति भवतोऽपराधः । अहमेवापराद्धा । या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतः गमिष्यामि । २ मा खलु लघुहृदया अनुनयं बहु मन्ये । किं तु दाक्षिण्यकृत- पश्चात्तापस्य बिभेमि । ३ दृष्टनष्टश्रीरिवानप्रसन्ना गता देवी । ननूत्तिष्ठ । आत्मानमेवापराधिनं मन्यमाना देवीति भावः । या प्रतिकूलदर्शना या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतः गमिष्यामि । अपराधी नामे- ति । संरम्भात् क्रोधात् । विरम उपशमं कुरु । सेव्यो जनश्च स्वातन्त्र्यात् कुपितः । दासो भृत्यस्तु कथं नु किमुत निरपराधः । सेव्यस्यापराधो नास्तीति भावः । अत एव निरपराधः कथं न स्यादित्यर्थः । आत्मगतं मनोगतम् । मा खल्वित्यादि ततः । लघुहृदया लघूभवद्धृदया, अनन्यचित्ता । दाक्षिण्यकृत- पश्चात्तापस्य बिभेमि । विदूषकः । ३ दृष्टनष्टप्रणया गता देवी । ननूत्तिष्ठ ॥ प्रियवचनशत इति । शिखरिणी वृत्तम् । दयितजनानुगमः दयितजन-