विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 83, कुल 168 में से
संदर्भ में पढ़ें७० विक्रमोर्वशीये उर्वशी—१अणिब्भिण्णत्थेण इमिणा वअणेण आकम्पिदं मे हिअअम्। अन्तरिदा सुणुम्ह आलापम्। जाव णे संगमसंसओ होदि। चित्रलेखा—२जं दे रोअदि। विदूषक—३णे इमे अमिअगब्भा सेवीअन्तु चन्दवादा। राजा—वयस्य, एवमादिभिरनुपक्रम्योऽयमातङ्कः। पश्य। कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः। मनसिजरुजं सा वा दिव्या ममालमपोहितुं रहसि श्लथयेदारब्धा वा तदाश्रयिणी कथा ॥ १० ॥ उर्वशी—४हिअअ, जं दाणिं सि म उज्झिअ इदो संकन्तं तस्स फलं तुए उवलद्धम्। १ अनिर्भिन्नार्थनानेन वचनेनाकम्पितं मे हृदयम्। अन्तरिते शृणुव आलापम्। यावदानयोः संशयच्छेदो भवति। २ यत्ते रोचते। ३ नन्वेतेऽमृतगर्भा सेव्यन्तां चन्द्रपादाः। ४ हृदय यदिदानीमसि मामुज्झित्वा इतः संक्रान्तं तस्य फलं त्वयो- पलब्धम्। वयस्यमानसंगयो राजानं । तदुपसर्पाव ॥ उर्वशी। अनिर्भिन्नार्थनानेन वचन- नाकम्पितं मे हृदयम्। अन्तरिते शृणुव आलापम्। यावदानयोः संशयच्छेदो भवति ॥ चित्रलेखा। यत्त रोचते ॥ विदूषक । नन्वेतेऽमृतगर्भाः सेव्यन्तां चन्द्रपादाः ॥ अनुपक्रम्योऽचिकित्स्यः । आतङ्को रोगः सन्तापो वा। आतङ्को रोगसन्तापाशङ्कासु मुरजध्वना इति विश्वलोचन ॥ कुसुमशयनमिति । प्रत्यग्रं नूतनम् । सर्व्वाङ्गीणं सर्वाङ्गव्यापि । मलयजं चन्दनम् । मणियष्टयो मणियुक्ता हाराः । यष्टिः स्यात्तौ तरौ हारे हाराङ्गरेऽपि च इति विश्वलोचनः । मन- सिजरुजं मदनबाधाम् । अलं समर्था । अपाहितुं दूरीकर्तुम् । रहस्येकान्ते । श्ल- थयेदनुकूलाद् ॥ १० ॥ उर्वशी। हृदय, यदिदानीमसि मामुज्झित्वा इतः संक्र-