विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 99, कुल 168 में से
संदर्भ में पढ़ें८६ विक्रमोर्वशीये सहअरिदुक्खालिद्धं सव्वरअम्मि सिणिद्धअम् । बाहोग्गिण्णअणअं तम्मइ हंसीजुअलअम् ॥ २ ॥ सहजन्या—(सखेदम् ।) सहि चित्तलेहे, म्लिअमाणसणलच्छ- सणा दे मुहच्छाआ हिअअस्स अमत्थदं सूचेदि । ता कहेहि मे अणिव्विदकारणं जेण दे समाणदुक्खा होमि । चित्रलेखा—सहि, अच्छरावारपज्जाएण तत्तभवदो सुज्जस्स उवट्ठाणे वहन्ती पिअसहीए विणा बलिअं उक्कण्ठिदम्हि । सहजन्या—सहि, जाणामि वो अण्णोण्णगदं पेम्मम् । तदो वदो । १ सहचरीदुःखालिढं सरोवरे स्निग्धम् । बाष्पावगलितनयनं ताम्यति हंसीयुगलम् ॥ २ सखि चित्रलेखे, म्लायमानकमलदृष्ट्या ते मुखच्छाया हृदय- स्यास्वस्थतां सूचयति । तत्कथय मेऽनिर्वृतिकारणं येन ते समानदुःखा भवामि । ३ सखि, अप्सरोवारपर्यायेण तत्रभवतः सूर्यस्योपस्थाने वर्तमाना प्रियसख्या विना बलवदुत्कण्ठितास्मि । ४ सखि, जानामि युवयोरन्योन्यगतं प्रेम । ततस्ततः । शुद्धान्तःपुरसंबन्धिन्या मता ॥ ईदृशं प्रकृते वत्स्या... ... सहचरीति । सहचरीदुःखालिढं सरोवरेऽपि रम्य... हंसीयुगलम् ॥ बाष्पावगलितनय- नम् । ताम्यति । उत्कण्ठितं भवति ॥ २ ॥ सहजन्या । सखि चित्रलेखे, म्लायमानक- मलच्छव्या ते मुखच्छाया हृदयस्यास्वस्थतां सूचयति । तत्कथय मे निर्वृतेः का- रणं येन ते समानदुःखा भवामि ॥ चित्रलेखा । सखि अप्सरोवारपर्यायेण तत्रभवतः सूर्यस्योपस्थाने वर्तमाना प्रियसख्या विना बलवदुत्कण्ठितास्मि । यद्य- प्युपस्थानं कुर्वत्या मया प्रियसख्या विना बलवदुत्कण्ठितं तथापि वर्तते तु यदुपस्थीयते तस्यैव कृतेन मम । यथा तथापि वा परस्येवेति । अत्र सूर्यो वदेत् ॥ सहजन्या । सखि, जानामि युवयोरन्योन्यगतं प्रेम । ततस्ततः ॥ चित्रलेखा । हञ्जे एत्थु