वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 187, कुल 490 में से
संदर्भ में पढ़ेंराज्ञोऽनुजीविवृत्तम् । १९१ जृम्भां निष्ठीवनं कासं कोपं पर्यस्तिकाश्रयम् ॥ भ्रुकुटिं वातमुद्गारं तत्समीपे विवर्जयेत् । स्वयं तत्र न कुर्वीत स्वगुणाख्यापनं बुधः ॥ स्वगुणाख्यापने युक्त्या परमेव प्रयोजयेत् । हृदयं निर्मलं कृत्वा परां भक्तिमुपाश्रितैः । अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥ शाठ्यं लौल्यं च पैशुन्यं नास्तिक्यं क्षुद्रतां तथा । चापल्यं च परित्याज्यं नित्यं राजानुजीविभिः ॥ श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना । राजसेवां ततः कुर्याद्भूतये भूतिवर्द्धनीम् ॥ नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः । सचिवैश्चास्य विश्वासो न तु कार्यः कथञ्चन ॥ अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथाऽऽपदि । हितं पथ्यं च वचनं हितैः सह सुनिश्चितम् ॥ चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना । भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् । रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता । त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिं तु कारयेत् ॥ विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा । आशावर्द्धनकं कृत्वा फलनाशं करोति च ॥ अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः । वाक्यं स मन्दं वदति वृत्तिच्छेदं करोति च ॥ प्रदेशवाक्यैर्मुदितो न सम्भावयतेऽन्यथा । आराधनासु सर्वासु सुप्रसन्नवच विचेष्टते ॥ कथासु दोषं क्षिपति वाक्यभङ्गं करोति च ।