वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 203, कुल 490 में से
संदर्भ में पढ़ेंदक्षिणाभिमुखा वाथ परिशिष्टास्तु गर्हिताः । तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः ॥ इति । मन्दुरास्थाश्वानां दृष्टिदोषनिरासाय कुक्कुटादिस्थापनमुक्तम्— तत्रैव, कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः । श्याममुखताम्रमुखाभ्यां ह्रस्वलाङ्गूलदीर्घलाङ्गुलाभ्यां वा वानरमर्कटयोर्भेदः । धारयेदश्वशालासु सवत्सां धेनुमेव च ॥ अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा । गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः ॥ अस्तङ्गते न कर्त्तव्यो देवदेवे दिवाकरे । ततस्तत्र यथास्थानं राजा विज्ञाय सारथिम् ॥ दद्यादावसथस्थानं सर्वेषामनुपूर्वशः । योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥ दद्यादावसथान् दुर्गे मन्त्रकालविदां शुभान् । गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥ आह्वयेत भृशं राजा दुर्गे हि प्रबला रुजः । कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥ न बहूनामतो दुर्गे विना कार्यं तथा भवेत् । दुर्गे च यन्त्राः कर्त्तव्या नानाप्रहरणान्विताः ॥ सहस्रघातिनो राज्ञा तैस्तु रक्षा विधीयते । दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥ सञ्चयश्चात्र सर्वेषामायुधानां प्रशस्यते । धनुषां क्षेपणीयानां तोमराणां च पार्थिव ॥ क्षेपणीयानां, क्षेप्तुं योग्यानां पाषाणानाम्, लोहसीसगु-