वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 204, कुल 490 में से
संदर्भ में पढ़ें२०८ वीरमित्रोदयस्य राजनीतिप्रकाशे लिकानां च । शराणामथ खङ्गानां कवचानां तथैव च । लगुडानां गुडानां च हुडानां परिघैः सह ॥ अश्मनां च प्रभूतानां मुद्गराणां तथैव च । त्रिशूलानां पट्टिशानां कणपानां च पार्थिव ॥ प्रासानां च सशूलानां शक्तीनां च नरोत्तम । परस्वधानां चक्राणां वर्मणां चर्मभिः सह ॥ कुद्दालरज्जुवेत्राणां पीठकानां तथैव च । हिंसकानां च दात्राणामङ्गाराणां च सञ्चयः ॥ सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र शिष्यते । वादित्राणां च सर्वेषामौषधीनां तथैव च ॥ यवसानां प्रभूतानामिन्धनस्य च सञ्चयः । गुडस्य सर्वतैलानां गोरसानां तथैव च ॥ वसानामथ मज्जानां स्नायूनामस्थिभिः सह । गोचर्मपटहानां च धान्यानां सर्वतस्तथा ॥ सर्वतः, सर्वेषाम् । तथैवाभ्रपटानां च यवगोधूमयोरपि । शणसर्जरसं भूर्जं जतु लाक्षा च टङ्कणम् ॥ अभ्रम्, अभ्रकसंज्ञको धातुविशेषः । राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ॥ कुम्भेष्वाशीविषाः कार्या व्यालसिंहादयस्तथा । मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम् ॥ स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक् । कर्त्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥ १ तुषाणां चैव इति मुद्रितमात्स्ये पाठः ।