वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 205, कुल 490 में से
संदर्भ में पढ़ेंदुर्गे सङ्गाह्यान्तराणि । २०९ तथा, मनुरुवाच । राजा रक्षारहस्यानि यानि दुर्गे निधापयेत् । कारयेद्वा महीभर्त्ता ब्रूहि तत्त्वानि तानि च ॥ मत्स्य उवाचेत्युपक्रम्य सङ्ग्राह्यान्तरमप्युक्तम्- शिरीषौदुम्बरशमीबीजपूरं घृतप्लुतम् । क्षुद्योगः कथितो राजन्मासार्द्धस्य पुरातनैः ॥ शिरीषादिकं घृतप्लुतं भुक्तं सत् मार्द्धस्य पञ्चदशादिनात्म- कपक्षरूपस्य क्षुद्योगः क्षुत्प्रशमनोपायः । नरं शस्त्रहतं प्राप्य तस्यास्थि अरणिर्भवेत् । कुल्माषवेणुना तत्र जनयेत्तु विभावसुम् ॥ गृहं त्रिरपसव्यं तु क्रियते यत्र पार्थिव । नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा ॥ कार्पासास्थि भुजङ्गस्य तथा निर्मोचनं भवेत् । सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥ सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका । तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप ॥ दिवा च दुर्गे रक्ष्योग्निर्वाति वाते विशेषतः । तथा, उक्तानि वाप्यनुक्तानि राजा द्रव्याण्यशेषतः । सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया ॥ जीवकर्षभकाकोलमामलक्याटरूषकम् । १ अत्र 'कशेरुफलमूलानि इक्षुमूलं तथा विषम् । दूर्वा क्षीर- घृतैर्मण्डः सिद्धोऽयं मासिकः परः' ॥ इति मुद्रितमात्स्येऽधिकं वर्तते । २७