भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 206, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 206

२१० वीरमित्रोदयस्य राजनीतिप्रकाशे शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥ माषपर्णी च मेदे द्वे सारिवे द्वे बलात्रयम् । वीराश्वसन्ती वृष्णीया बृहती कण्टकारिका ॥ शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्भद्ररेणुका । मधुपर्णी विदार्यौ द्वे महाक्षुद्रा महातपाः ॥ धन्वना सहदेवाह्वा कटुकैरण्डकं विषः । पर्णासनाह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः ॥ शुकातिशुक्राश्मर्य्यच्छत्रातिच्छत्रवीरणाः । इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम ॥ सिंही च सहदेवी च विश्वेदेवाटरूषकम् । मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका ॥ शतावरीमधूके च पिप्पलं तालमद्ये च । आत्मगुप्ता कट्फलाख्या दार्थिका राजशीर्षिका ॥ राजसर्षपधान्याकवृष्यनोक्ता तथोत्कटा । कालशाकं पद्मबीजं गोवल्ली मधुवल्लिका ॥ शीतपाकी कुलिशाक्षी काकजिह्वोरुपुष्पिका । एर्वारुत्रपुसौ चोभौ गुञ्जातक्रपुनर्नवे ॥ कशेरुका तु काश्मीरी विल्वशालूककेसरम् । शूकधान्यानि सर्वाणि शिम्बीधान्यानि चैव हि ॥ क्षीरं क्षौद्रं तथा चुक्रं तैलं मज्जा वसा घृतम् । निचोवारिष्टकाक्षोडा वाताममोरुशाणकम् ॥ एवमादीनि चान्यानि विज्ञेयो मधुरो गणः । १ वृष्या चेति मात्स्ये पाठः । २ पर्णी शताह्वा इति मात्स्ये पाठः । ३ 'नीपश्चारिष्टकाक्षोडवातामसोमबाणकम्' इति मात्स्ये पाठः