भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 207, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 207

दुर्गे सङ्ग्राह्यान्तराणि । २११ राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ॥ दाडिमाम्रातकाम्रं च तिन्तिडीकाम्लवेतसम् । भव्यर्ककन्धुलकुचकरमर्दकरूपकम् ॥ बीजपूरककण्डूरे मालती राजबन्धुकम् । कोलकद्वयपर्णानि द्वयाराम्लकयोरपि ॥ आरेवतं नागरकं प्राचीनारुकमेव च । कपिलामलकं चुक्रा फलं दन्तशठस्य च ॥ जाम्बवं नवनीतं च सौवीरकतुषोदके । सुराऽऽसवं च मद्यानि मण्डतक्रदधीनि च ॥ शुक्तानि चैव सर्वाणि ज्ञेयान्यम्लगणानि च । एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । कुबेरकं समरिचं शिग्रुभल्लातसर्षपाः ॥ कुष्ठाजमोदा किणिही हिङ्गुमूलकधान्यकम् । कारदी कुञ्चिका याज्या सुमुखा कालमालिका ॥ फणिज्जकोऽथ लशुनं भूस्तृणं सुरसं तथा । कायस्था च वयःस्था च हरितालं मनःशिला ॥ अमृता च रुदन्ती च रोहितं कुङ्कुमं तथा । यवासैरण्डकाण्डीरं शल्लकी हञ्जिका तथा ॥ सर्वपित्तानि मूत्राणि प्रायो हरितकानि च । फलानि चैव च तथा सूक्ष्मैला हिङ्गुपत्रिका ॥ १ अत्र मात्स्ये–'सैन्धवोद्भिदपाठेयपाक्यसामुद्रलोमकम्। कुप्य- सौवर्चलबिडं बालकेयं यवाह्वकम् ॥ और्वं क्षारं कालभस्म विज्ञे- यो लावणो गणः। एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे' ॥ इत्यधिकं वर्तते ।