वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 208, कुल 490 में से
संदर्भ में पढ़ें२१२ वीरमित्रोदयस्य राजनीतिप्रकाशे एवमादीनि चान्यानि गणः कटुकसंज्ञितः । राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम ॥ मुस्तचन्दनह्रीबेरकृतमालकदारवः । हरिद्रानलदोशीरनक्तमालकदम्बकम् ॥ दूर्वा पटोलकटुका दीर्घत्वक् चूतकं वचा । किरातातिक्तकं निम्बं विषा चातिविषा तथा ॥ तालीसपत्रं तगरं सप्तपर्णविकङ्कताः । काकोदुम्बरिकोदीच्यमुपवीकृमिहिंसकाः ॥ षड्ग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका । रसाञ्जनं भृङ्गराजं पेणासं परिपेलवम् ॥ दुःस्पर्शा गुरुणी कामा श्यामाकं कङ्कुनाकुली । तुपपर्णी व्याघ्रनखमम्वष्ठा चतुरङ्गुला ॥ रम्भा चैवाङ्कुरास्फोटा तालास्फोटा हरेणुका । वेत्राग्रवेतसस्तुम्बी विषाणी लोहपँअरा ॥ मालती करतिक्ताख्या वृषाङ्गी जिह्विका तथा । पर्पटं च गुडूची च स गणस्तिक्तसंज्ञकः ॥ एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे । अभयाममलकौ चोभौ तथैव च विभीतकम् ॥ प्रियङ्गुधातकीपुष्पं मोचालोध्रार्जुनासनाः । अनन्ता स्त्री सुरानङ्गा स्योनाकं कट्फलं तथा ॥ भूर्जपत्रशिलोद्भेदपाटला पङ्कलाष्टकम् । १ पतङ्गी इति मात्स्ये पाठः । २ गन्धनाकुली इति मात्स्ये पाठः । ३ लोध्रपुष्पिणी इति मा० पा० । ४ तुबरिका इति मा० पा० ।