वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 209, कुल 490 में से
संदर्भ में पढ़ेंदुर्गे सङ्ग्राह्यान्तराणि । २१३ समङ्गा त्रिवृतामूलकार्पासगैरिकाञ्जनम् ॥ विद्रुमं समधूच्छिष्टं कुम्भिका कुमुदोत्पलम् । न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशपा शमी ॥ प्रियालपीलुकासारशिरीषाः पद्मकं तथा । बिल्वोऽग्निमन्थः पुक्षश्च श्यामाकं कवको घनम् ॥ राजादनं करीरं च चम्पकप्रियकौ तथा । कङ्कोलाशोकबदराः कदम्बखदिरद्वयम् ॥ एषां पत्राणि साराणि मूलानि कुसुमानि च । एवमादीनि चान्यानि कषायाख्यो गणो मतः ॥ प्रयत्नेन नृपश्रेष्ठ राजा सञ्चिनुयात्पुरे । कीटाम्बुमारणे योग्या व्यङ्गतायां तथैव च ॥ वातधूमाश्च मार्गाणां दूषणानि तथैव च । धार्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि पार्थिव ॥ विषाणां धारणं कार्यं प्रयत्नेन महीभुजा । विचित्राश्चागदा धार्या विषस्य शमनास्तथा ॥ रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्द्धनाः । कलाविदश्च पुरुषाः पुरे धार्याः प्रयत्नतः ॥ भीतान् प्रमत्तान् कुपितांस्तथैव च विमानितान् । कुभृत्यान् पापशीलांश्च न राजा वासयेत्पुरे ॥ यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम् । वणिग्जनैश्चावृतमावसेत दुर्गे सुगुप्तं नृपतिः सदैव ॥ इत्यादिप्रबन्धेनावश्यापेक्षितवस्तुसञ्चयं विधाय दुर्गमध्ये पुरं सुरक्षितं कृत्वा तत्र वसेत् । तत्र पुरनिर्माणं कथं कार्यमि- त्यपेक्षायाम्— देवीपुराणे,