वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 220, कुल 490 में से
संदर्भ में पढ़ें२२४ वीरमित्रोदयस्य राजनीतिप्रकाशे बहिःकोणेषु चाष्टौ तु सार्द्धाश्चोभयतः स्थिताः । तद्वत्कोणेष्वेकपदा इति । तद्वत् एकाशीतिपदवास्तुवत् । एकाशीतिपदे वास्तौ याः कोणेष्वेकपदा देवता इहापि तास्त- थैव बोद्धव्याः । बहिःकोणेषु, वेद्यादिप्रान्तकोणेषु चतुर्षु ये उभयपार्श्वे कोष्ठकाः तेष्वष्टौ देवताः सार्द्धा भवन्ति, देवताच- तुष्टयसहिता भवन्तीत्यर्थः । विंशतिर्द्विपदास्तेषां चतुःषष्टिपदास्तथा ॥ गृहारम्भे तु कण्डूतिः स्वस्याङ्गे यत्र जायते । शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि वा ॥ सशल्यं भयदं यस्मादशल्यं भयनाशनम् । हीनाधिकाङ्गतां वास्तोः सर्वथा परिवर्जयेत् ॥ नगरग्रामदेशेषु सर्वत्रैवं प्रकल्पयेत् । चतुःशालं त्रिशालं च द्विशालं चैकशालकम् । सूतउ वाच ॥ चतुःशालं प्रवक्ष्यामि स्वरूपान्नामतस्तथा । चतुःशालं चतुर्द्वारैरालिन्दैः सर्वतोमुखम् ॥ नाम्ना तत्सर्वतोभद्रं शुभं देवनृपालये । पश्चिमद्वारहीनं तु नन्द्यावर्त्तं प्रचक्षते ॥ दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम् । पूर्वद्वारविहीनं तु स्वस्तिकं नाम विश्रुतम् ॥ रुचकं चोत्तरद्वारविहीनं तु प्रचक्षते । सौम्यशालाविहीनं यत्रिशालं धन्यकं च तत् ॥ क्षेमवृद्धिकरं नृणां बहुपुत्रफलप्रदम् । शालया पूर्वया हीनं सुक्षेत्रमिति विश्रुतम् ॥