वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 221, कुल 490 में से
संदर्भ में पढ़ेंराज्ञो भवनपरिमाणादिकम् । २२५ धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् । चुल्ली तु याम्यया हीनं त्रिशालं शालया तु यत् ॥ कुलक्षयकरं नृणां सर्वव्याधिभयावहम् । हीनं पश्चिमया यत्तु पक्षघ्नं नाम तद्विदुः ॥ पितृबन्धुसुतान् हन्ति तथा सर्पभयावहम् ॥ याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् । क्षेमवृद्धिकरं नृणां तथा पुत्रफलप्रदम् ॥ यमसूर्ये च विज्ञेयं पश्चिमोत्तरशालकम् । राजाग्निभयदं नृणां कुलक्षयकरं च तत् ॥ पूर्वपश्चिमशाले द्वे दण्डाख्यं तत्र तद्भवेत् । अकालमृत्युभयदं परचक्रभयावहम् ॥ वायव्यं याम्यपूर्वाभ्यां शालाभ्यां यद्द्विशालकम् । विषशस्त्राग्निभयदं पराभवभयावहम् ॥ चुल्ली पूर्वापराभ्यां च सा भवेन्मृत्युसूचनी । वैधवत्वाय च स्त्रीणामनेकभयकारिका ॥ कार्यमुत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम् । सिद्धार्थवर्जं वर्ज्यानि द्विशालानि सदा बुधैः ॥ अलिन्दं द्वारचतुरस्रिका । सौम्यशाला उत्तरद्वारशाला । सिद्धार्थवर्जं, याम्यापराभ्यां शालाभ्यां युक्तं यद्द्विशालं तद्विहाय। अथातः सम्प्रवक्ष्यामि भवनं पृथिवीपतेः । पञ्चप्रकारं तत्प्रोक्तमुत्तरादिविभेदतः ॥ अष्टोत्तरं हस्तशतं विस्तारश्चोत्तमो मतः । चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः ॥ १ शालया याम्यया हीनं यद्द्विशालं तु शालया। इति मा०पा० । २ धनाख्यमिति मा० पा० । २९