वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 222, कुल 490 में से
संदर्भ में पढ़ेंचतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते । युवराजस्य वक्ष्यामि तथा भवनपञ्चकम् ॥ षड्भिः षड्भिस्तथाशीतिर्हीयते तत्र विस्तरात् । त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम् । चतुःषष्टिस्तु विस्तारः षड्भिः षड्भिः प्रहीयते ॥ पञ्चस्वेतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् । मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम् ॥ चतुश्चतुर्विहीना स्यात्करषष्टिः प्रविस्तरे । अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् । चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात् ॥ चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते । शिल्पिनां कञ्चुकिनां च वेश्यानां गृहपञ्चकम् ॥ अष्टाविंशत्कराणां तद्द्विहीनं विस्तरात्क्रमात् । द्विगुणं दैर्घ्यमेवोक्तमध्यक्षेष्वेवमेव तु ॥ दूतकर्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् । चतुर्थांशाधिकं दैर्घ्यं विस्तराद्द्वादशैव तु ॥ अर्धार्धकरहानिः स्याद्विस्तरात्पञ्चसु क्रमात् । दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम् ॥ तेषामपि प्रवक्ष्यामि क्रमाद्भवनपञ्चकम् । चत्वारिंशत्प्रविस्ताराच्चतुर्भिर्हीयते क्रमात् ॥ पञ्चस्वेतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् । चातुर्वर्ण्यस्य वक्ष्यामि सामान्यं गृहपञ्चकम् ॥ द्वात्रिंशद्वै कराणां तु चतुर्भिर्हीयते क्रमात् ।