वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 224, कुल 490 में से
संदर्भ में पढ़ें२३८ वीरमित्रोदयस्य राजनीतिप्रकाशे सोष्णीषं नाम तद्वास्तु पश्चात्तापोश्रयं भवेत् ॥ • पार्श्वयोर्वीथिका यत्र सावष्टम्भं तदुच्यते । समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते ॥ शुभदं सर्वमेतत्स्याच्चातुर्वर्ण्ये चतुर्विधम् । विस्तारात्षोडशो भागस्तथा हस्तचतुष्टयम् ॥ प्रथमो भूमिकोच्छ्राय उपरिष्टात्प्रहीयते । द्वादशांशेन सर्वासु भूमिकासु तथोच्छ्रयः ॥ पश्वेष्टका भवेद्भित्तिः षडंशांशेन विस्तरात् । दारवैरपि कल्प्या स्यात्तथा मृन्मयभित्तिका ॥ गर्भमानेन मानं तु सर्ववास्तुषु शस्यते । गृहव्यासस्य पञ्चाशदष्टादशभिरङ्गुलैः ॥ संयुतो द्वारविष्कम्भो द्विगुणश्चोच्छ्रयो भवेत् । द्वारशाखासु बाहुल्यमुच्छ्रायकरसम्मितैः ॥ अङ्गुलैः सर्ववास्तूनां पृथुत्वं शस्यते बुधैः । उदुम्बरोत्तमाङ्गं च तदर्धार्धप्रविस्तरात् ॥ उदुम्बरो देहली । अथातः सम्प्रवक्ष्यामि स्तम्भमानाविनिर्णयम् । तद्वास्तुभवनोच्छ्रायं सदा सप्तगुणं विदुः ॥ अशीत्यंशं पृथुत्वं स्यादग्रे नवगुणैः सह । चरुकश्चतुरस्रः स्यादष्टास्रो वज्र उच्यते ॥ द्विवज्रः षोडशास्रस्तु द्वात्रिंशास्रः प्रलीनकः । मध्यप्रदेशे यः स्तम्भो वृत्तो वृत्त इति स्मृतः ॥ १ पश्चाच्छ्रेयोच्छ्रयम् इति मा० पा० । २ पक्केष्टका भवेद्भित्तिः षोडशांशेन विस्तरात् । इति मा० प० ।