वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 226, कुल 490 में से
संदर्भ में पढ़ें२३० वीरमित्रोदयस्य राजनीतिप्रकाशे वंधा न वास्तुवध इत्यर्थः । स्वयमुद्घाटिते द्वारे उन्मादो गृहवासिनाम् । स्वयं च पिहिते विद्यात्कुलनाशं विचक्षणः ॥ मानाधिके राजभयं न्यूने तस्करतो भयम् । द्वारोपरि च यद्वारं तदन्तकमुखं स्मृतम् ॥ अध्वनो मध्यदेशे तु अधिको यस्य विस्तरः । वज्रं तु सङ्कटं मध्ये सद्यो भर्तृविनाशनम् ॥ तथान्यपीडितं द्वारं बहुदोषकरं भवेत् । मूलद्वारात्तथात्यन्तं नाधिकं शोभनावहम् ॥ कुम्भश्रीपर्णिबल्लीभिर्मूलद्वारं तु शोभयेत् । पूजयेद्वापि तन्नित्यं बलिना चाक्षतोदकैः ॥ भवनस्य वटः पूर्वे दिग्भागे सार्वकामिकः । उदुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः ॥ प्लक्षश्चोत्तरतो धन्यो विपरीतस्त्वसिद्धये । कण्टकी क्षीरवृक्षश्च आसन्नः सफलद्रुमः ॥ भार्याहानिः प्रजाहानिर्भवेतां क्रमशः सदा । न छिन्द्याद्धितानन्यानन्तरे स्थापयेच्छुभान् ॥ पुन्नागाशोकतिलकशमीवकुलचम्पकान् । दाडिमीं पिप्पलीं द्राक्षां तथा कुसुममण्डपान् ॥ जम्बीरपूगपनसद्रुमकेतकीभि- र्जातीसरोजशतपत्रिकमल्लिकाभिः । यन्नारिकेलकदलीदलपाटलाभि- र्युक्तं तदत्र भवनं श्रियमातनोति ॥ उदगादिप्लवं वास्तोः समानस्य शिरस्तथा । समानस्य, मानसाहितस्य । वास्तोः, वास्तुपुरुषस्य ।