वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 227, कुल 490 में से
संदर्भ में पढ़ेंशिलान्यासादिकम् । २३१ परीक्ष्य पूर्ववत् कुर्यात् स्तम्भोच्छ्रायं विचक्षणः । १ ने देवपूर्त्तसविधे चत्वराणां समीपतः ॥ कारयेद्भवनं प्राज्ञो दुःखशोकसमन्वितम् । तस्य प्रवेशाश्चत्वारस्तस्योत्सङ्गोऽग्रतः शुभः ॥ पृष्ठतः पृष्ठतो गन्तुं सव्यावर्त्त प्रशस्यते । अपसव्यो विनाशाय दक्षिणे शीर्षकस्तथा ॥ सर्वकामफलो नृणां सम्पूर्णो नाम दामतः । एवं प्रवेशमालोच्य यत्नेन गृहमारभेत् ॥ अथ सांवत्सरोक्ते मुहूर्ते शुभलक्षणे । रत्नोपरि शिलां कृत्वा सर्वबीजसमन्विताम् ॥ चतुर्भिर्ब्राह्मणैः स्तम्भं वस्त्रालङ्कारपूजितम् । शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः ॥ स्नपितं तं न्यसेत्तद्वत्सर्वौषधिसमन्वितम् । नानाक्षतसमोपेतं वस्त्राभरणसंयुक्तम् ॥ ब्रह्मघोषेण वाद्येन गीतमङ्गलनिःस्वनैः । प्रदोषे भोजयेद्विप्रान् होमस्तु मधुसर्पिषा ॥ वास्तोष्पते प्रतिजानीतिमन्त्रेणानेन सर्वदा । सूत्रपाते तथा कार्यमेवं स्तम्भोच्छ्रये पुनः ॥ द्वारवंशोच्छ्रये तद्वत्प्रवेशसमये तथा । वास्तूपशमने तद्वद्वास्तुयज्ञस्तु पञ्चधा ॥ ईशाने सूत्रपातः स्यादाग्नेये स्तम्भारोपणम् । प्रदक्षिणं च कुर्वीत वास्तोः पदविलेखनम् ।
१ न देवधूर्त्तसचिवचत्वराणां समन्ततः । इति. मा० पा० । २ पृष्ठभागस्तु इति. मा० पा० । ३ पायसम् इति मा० पा० ।