भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

शिलान्यासादिकम् । २३१ परीक्ष्य पूर्ववत् कुर्यात् स्तम्भोच्छ्रायं विचक्षणः । १ ने देवपूर्त्तसविधे चत्वराणां समीपतः ॥ कारयेद्भवनं प्राज्ञो दुःखशोकसमन्वितम् । तस्य प्रवेशाश्चत्वारस्तस्योत्सङ्गोऽग्रतः शुभः ॥ पृष्ठतः पृष्ठतो गन्तुं सव्यावर्त्त प्रशस्यते । अपसव्यो विनाशाय दक्षिणे शीर्षकस्तथा ॥ सर्वकामफलो नृणां सम्पूर्णो नाम दामतः । एवं प्रवेशमालोच्य यत्नेन गृहमारभेत् ॥ अथ सांवत्सरोक्ते मुहूर्ते शुभलक्षणे । रत्नोपरि शिलां कृत्वा सर्वबीजसमन्विताम् ॥ चतुर्भिर्ब्राह्मणैः स्तम्भं वस्त्रालङ्कारपूजितम् । शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः ॥ स्नपितं तं न्यसेत्तद्वत्सर्वौषधिसमन्वितम् । नानाक्षतसमोपेतं वस्त्राभरणसंयुक्तम् ॥ ब्रह्मघोषेण वाद्येन गीतमङ्गलनिःस्वनैः । प्रदोषे भोजयेद्विप्रान् होमस्तु मधुसर्पिषा ॥ वास्तोष्पते प्रतिजानीतिमन्त्रेणानेन सर्वदा । सूत्रपाते तथा कार्यमेवं स्तम्भोच्छ्रये पुनः ॥ द्वारवंशोच्छ्रये तद्वत्प्रवेशसमये तथा । वास्तूपशमने तद्वद्वास्तुयज्ञस्तु पञ्चधा ॥ ईशाने सूत्रपातः स्यादाग्नेये स्तम्भारोपणम् । प्रदक्षिणं च कुर्वीत वास्तोः पदविलेखनम् ।


१ न देवधूर्त्तसचिवचत्वराणां समन्ततः । इति. मा० पा० । २ पृष्ठभागस्तु इति. मा० पा० । ३ पायसम् इति मा० पा० ।

२३२ वीरमित्रोदयस्य राजनीतिप्रकाशे तर्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे । प्रवालरत्नकनकं फलेमृष्टाक्षतोदकम् ॥ सर्ववास्तुविभागेषु शस्तं पदविलेखने । न भस्माङ्गारकाष्ठेन न शस्त्रनखचर्मभिः ॥ न शृङ्गास्थिकपालैश्च क्वचिद्वास्तु विलेखयेत् । एभिर्विलिखितं कुर्यात् दुःखशोकभयादिकम् ॥ यदा गृहप्रवेशः स्याच्छिल्पी तत्राभिलक्षयेत् । स्तम्भसूत्रादिकं तद्वच्छुभाशुभफलोदयम् ॥ आदित्याभिमुखं रौति शकुनिः परुषं यदि । तुल्यकालं स्पृशेदङ्गं गृहभर्त्ता यदात्मनः ॥ वास्त्वङ्गे तद्विजानीयान्नरः शल्यं भयप्रदम् । अङ्गनानन्तरं यत्र हस्त्यश्वश्वापदं भवेत् ॥ तदङ्गसम्भवं विद्यात्तत्र शल्यं विचक्षणः । प्रसार्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते ॥ तत्र शल्यं विजानीयात्खरशब्दे च भैरवे । यदि शाक्रे तु दिग्भागे मधुरं रौति वायसः ॥ धनं तत्र विजानीयात् भागे वा स्वाम्यधिष्ठिते । सूत्रच्छेदे भवेन्मृत्युर्व्याधिः कीले ह्यधोमुखे ॥ अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् । कण्ठशल्येषु जानीयात्पौंश्चल्यं स्त्रीषु शास्त्रवित् ॥ गृहभर्तुर्गृहस्यापि विनाशः शिल्पिसम्भ्रमे । स्तम्भस्कन्धच्युते कुम्भे शिरोरोगान् विनिर्दिशेत् ॥ कुम्भापहारे सर्वस्य कुलस्यापि क्षयो भवेत् । मृत्युः स्थानच्युते कुम्भे भग्ने बन्धं विदुर्बुधाः ॥ १ फलंपेष्टा कृतोदकम् इति मा० पा० ।

दिग्भेदेन वास्तुवृद्धिफलं देवगृहादि च । २३३ करसङ्ख्याविनाशे तु नाशं गृहपतेर्विदुः । बीजौषधिविहीने तु भूतेभ्यो भयमादिशेत् ॥ प्राग्दक्षिणेन विन्यस्य स्तम्भं छत्रे निवेशयेत् । ततः प्रदक्षिणेनान्यान्यसेत् स्तम्भान् विचक्षणः ॥ यस्माद्भयकरो नॄणां योजितस्त्वप्रदक्षिणः । रक्षां कुर्वीत यत्नेन स्तम्भोपद्रवनाशिनीम् ॥ तथा फलवतीं शाखां स्तम्भोपरि निवेशयेत् । प्रागुदक्प्रवणं कुर्याद्दिङ्गूढं तु न कारयेत् ॥ स्तम्भं वा भवनं वापि द्वारं वासगृहं तथा । दग्धोहे कुलनाशः स्यान्न च संवर्द्धते गृहम् ॥ यदि संवर्द्धयेद्गेहं सर्वमेव विवर्धयेत् । पूर्वेण वर्द्धते वास्तु कुर्याद्वैराणि सर्वदा ॥ दक्षिणे वर्द्धितं वास्तु मृत्यवे स्यान्न संशयः । पश्चाद्विवृद्धं यद्वास्तु तदर्थक्षयकारकम् ॥ वर्द्धापितं तथा सौम्ये बहुसन्तापकारकम् । आग्नेये तस्य वृद्धिः स्यात्तदातिभयदं भवेत् ॥ वर्द्धितं राक्षसे कोणे वित्तक्षयकरं भवेत् । वर्द्धापितं तु वायव्ये वातव्याधिप्रकोपकृत् ॥ ईशाने सस्यहानिः स्याद्वास्तौ संवर्द्धिते सदा । ईशाने देवतागारं तथा शान्तिगृहं भवेत् ॥ महानसं तथाऽग्नेये तत्पार्श्वे चोत्तरे जलम् । गृहस्योपस्करं सर्वं नैर्ऋते स्थापयेद्बुधः ॥ धर्मस्थानं बहिः कुर्यात्स्नानमण्डपमेव च । १ सर्वदिक्षु विवर्धयेत् इति मा० पा० । २ वध्रस्थानमिति मा० पा० । ३०

२३४ वीरमित्रोदयस्य राजनीतिप्रकाशे धनधान्यं च वायव्ये कर्मशालां ततो बहिः ॥ एवं वास्तुविशेषः स्याद्गृहभर्तुः शुभावहः । अथातः सम्प्रवक्ष्यामि दार्वाहरणमुत्तमम् ॥ धनिष्ठापञ्चकं मुक्त्वा विष्ट्यादिकमतः परम् । ततः सांवत्सरादिष्टे दिने यायाद्वनं बुधः ॥ प्रथमं बलिपूजां च कुर्याद्वृक्षाय सर्वथा । पूर्वोत्त्तरेण पतितं गृहदारु प्रशस्यते ॥ अन्यथा न शुभं विद्याद्याम्यापरनिपातने । क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत् ॥ कृताधिवासं विहगैरनलानिलपीडितम् । गजावभग्नं च तथा विद्युन्निर्घातपीडितम् ॥ ऊर्ध्वं शुष्कं तथा दारु भग्नं वक्रं तथैव च । चैत्यदेवालयोत्पन्नं नदीसङ्गमजं तथा ॥ श्मशानकूपनिलयं तडागादिसमुद्भवम् । वर्जयेत्सर्वदा दारु यदिच्छेद्विपुलां श्रियम् ॥ तथा कण्टकिनो वृक्षान्नीपनिम्बविभीतकान् । श्लेष्मातकानाम्नतरून् वर्जयेत् गृहकर्मणि ॥ इति । बह्वृचगृह्येऽपि, अथातो वास्तुपरीक्षा । अनूपरमंविवदिष्णु भूमौषधिवनस्प- तिवत् । यस्मिन् कुशवीरणं प्रभूतम् । कण्टकिक्षीरिणस्तु समू- लान् परिखायोद्वासयेदपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि । यत्र सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं प- रीत्य प्राच्यः स्यन्देरन्ननवदत्यस्तत्सर्वसमृद्धम् । समवस्रवे भक्त- शरणं कारयेत् । बह्वन्नं हि भवति । दक्षिणाप्रवणे सभां मापये- १ अर्धशुष्कम् इति मा० पा० ।

आश्वलायनगृह्योक्तवास्तुविधिः । २३५ त्साद्युता ह भवति । युवानस्तस्यां कितवाः कलहिनः प्र- मायुका भवन्ति । यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्यय- न्यनूता च ( आ० गृ० अ० २ खं० ७ ) । अथैतैर्वास्तु परीक्षेत । जानुमात्रं गर्तं खात्वा तैरेव पांसुभिः प्रतिपूरयेत् । अधिके प्रशस्तं, समे वार्त्तं, न्यूने गर्हि- तम् । अस्तमिते पांसुपूर्णं परिवासयेत् । सोदके प्रशस्तम्, आर्दे वार्तं, शुष्के गर्हितं, श्वेतं मधुरास्वादम् । सिकतोत्तरं ब्राह्मण- स्य, लोहितं क्षत्रियस्य, पीतं वैश्यस्य । तत्सहस्रसीतं कृत्वा यथादिशं समचतुरस्रं मापयेत् आयतचतुरस्रं वा । तच्छमीशा- खयोदुम्बरशाखया वा शन्तातीयेन त्रिःप्रदक्षिणं परित्रजन्प्रोक्ष- ति-अविच्छिन्नया चोदकधारया “आपोहिष्ठामयो भुव” इति तृचेन । वंशान्तरेषु शरणानि कारयेत् । गर्त्तेष्ववकां शीपालमित्यवधापयेन्नास्याग्निर्दाहुको भवतीति विज्ञायते । म- ध्यमस्थूणाया गर्त्तेऽवधाय प्रागग्रोदगग्रान् कुशानास्तीर्य व्री- हियवमतीरप आसेचयेद् “अच्युताय भौमाय स्वाहा” इति । अथैनामुच्छ्रीयमाणामनुमन्त्रयेत “इहैव तिष्ठ निर्मिता तिल्वि- लास्तामिरावतीं मध्ये पोषस्य तिष्ठन्तीम् । आ त्वा प्रापन्नघायव आ त्वा कुमारस्तरुण आवत्सो जायतां सह । आ त्वा परि- श्रितः कुम्भ आदन्नः कलशैरयन”इति । (आ०गृ०अ०२खं०८) वंशमाधीयमानम् । “ऋतेन स्थूणामधिरोह वंश द्रा- घीय आयुः प्रतरं दधाना” इति । सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत् “पृथिव्या अधि सम्भव” इति । “अरङ्गरो वावदीति त्रेधा बद्धो वरत्रया । इरामु ह प्रशं- सत्यनिरामपबाधताम्” इति वा । अथास्मिन्नप आसेचयेत् “ऐतु राजा वरुणो रेवतीभिरस्मिंस्थाने तिष्ठतु मोदमानः ।

२३६ वीरमित्रोदयस्य राजनीतिप्रकाशे इरां वहन्तो घृतमुक्षमाणा मित्रेण साकं सह संविशन्तु” इति । अथैनञ्छमयति व्रीहियवमतीभिरद्भिर्हिरण्यमवधाय शान्ता- तीयेन त्रिः प्रदक्षिणं परित्रजन्प्रोक्षति अविच्छिन्नया चोदकधा- रया “आपोहिष्ठामयो भुव” इति तृचेन । मध्येऽगारस्य स्थाली- पाकं श्रपयित्वा “वास्तोष्पते प्रतिजानी ह्यस्मान्” इति चतसृभिः प्रत्यृचं हुत्वाऽन्नं संस्कृत्य ब्राह्मणान् भोजयित्वा 'शिवं वास्तु शिवं वास्तु' इति वाचयीत । इति । (आ. गृ. अ. २ खं. ९) । अविवादिष्णु, यत्र विवादिष्णुर्विवादिता न विद्यते तत् । अ- विवादीति तु पाठे विवादरहितमित्यर्थः । भूमौषधिवनस्पति- वत्, बहुतरौषधिवनस्पत्युत्पत्तियोग्यम् । परिखाय, उत्पाट्य । परिव्याधो, राजवृक्षविशेषः । प्रदक्षिणं शयनीयं परीत्य, शयन- गृहं प्रदक्षिणं यथा भवति तथाकृत्वा । अप्रवदत्यः, अशब्दवत्यः। छान्दसो नुमभावः। सर्वसमृद्धं, सर्वैः पुत्रादिभिः सम्पूर्णम् । समव- स्रवे, प्रणालिकादेशे । भक्तशरणं, पाकशाला । सभा, गृहस्थस्य समाजशाला, सा यदि दक्षिणाप्रवणे देशे क्रियते तदा द्यूतवती भवत्यतो न तथा कार्येत्यर्थः । प्रमायुकाः, मरणशीलाः । वार्त्तम्, नात्युत्कृष्टं नापकृष्टमित्यर्थः । सहस्त्रसीतम्, अपरिमितकृष्टम् । शान्तातीयैः, शन्न इन्द्राग्नी भवतेतिसूक्तेन । अवकाः शम्बुकाः । शीपालाः शैवालाः । विष्णुधर्मोत्तरे, राम उवाच । वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज । हिताय मानवेन्द्राणां तथान्येषां च मानद ॥ पुष्कर उवाच । भूमिमादौ परीक्षेत शुभलक्षणसंयुताम् ।

विष्णुधर्मोत्तरोक्तवास्तुविधिः । २३७ पूर्वोदक्प्रवणां धन्यां तथा वै दक्षिणोन्नताम् ॥ न तथा शकटाच्छिन्नां न च तोयपरिप्लुताम् । वल्मीकमूषिकावासश्वभ्रकण्टकितद्रुमैः ॥ विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूषराम् । न तथा यवसंस्थानां नेभवज्रोपमां तथा ॥ न शूर्पकूर्मसंस्थानां स्रक्तिहीनां तथैव च । स्रक्तिहीनां, कोणरहिताम् । सम्पूर्यमाणां स्वात्खातात्तथा रिक्तमृदं शुभाम् ॥ गर्भे च कुसुमं यस्या न म्लानिमुपगच्छति । न निर्वाणमवाप्नोति यस्यां दीपश्च भार्गव ॥ उदकं च तथा यस्यां शीघ्रं राम न जीर्यते । सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः ॥ श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् । विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज ॥ घृतासृग्गन्धमद्यानां तुल्यगन्धा तथैव च । मधुरा च कषाया च अम्लौषणरसा तथा ॥ कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च संवृता । परीक्ष्य यत्नतो भूमिं तिथिनक्षत्रसम्पदा ॥ सम्पूज्य ब्राह्मणान् पूर्वं निःशल्यां तां तु कारयेत् । खातपूर्णां तु तां कृत्वा देवभागांश्च कल्पयेत् ॥ चतुःषष्टिपदं कृत्वा वास्तु सर्वं यथाविधि । चतुष्षष्टिविभागेन कल्पयित्वा समन्ततः ॥ एकैकं तु गृहं तत्र तथैव परिकल्पयेत् । यस्मात्सुरविभागेन द्वारन्यासः प्रकीर्त्तितः ॥ अतः परं प्रवक्ष्यामि देवभागान् यथाविधि ।

२३८ वीरमित्रोदयस्य राजनीतिप्रकाशे मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः ॥ प्राक् तथाविग्रहः स्वामी कथितश्च तथाऽर्यमा । दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः ॥ उदक्पृथ्‍वीधरश्चैव विकोणेष्वथ मे शृणु । विकोणे शिवदैवत्ये राजयक्ष्माम्बुपौ स्मृतौ ॥ सावित्रस‌वितारौ तु तथाग्नये प्रकीर्तितौ । तथा नैर्ऋतकोणे तु जयेन्द्रौ राम कीर्तितौ ॥ रुद्रव्याधी तु वायव्ये कथितौ भृगुनन्दन । देवतानां तथैतासां भूमौ बाह्ये तु मण्डले ॥ पूर्वादिक्षु यथा दिक्षु देवतास्तन्निबोध मे । महेन्द्रश्च रविः सत्यो भृशः प्राग्राम कीर्तितः ॥ गृहक्षतो यमो भृङ्गो गन्धर्वश्चैव याम्यतः । भल्लाटश्च तथा सोम अदितिर्धनदस्तथा ॥ उत्तरेण स्मृता देवा विकोणेष्वथ मे शृणु । दितिरीशो मेघजयौ शिवकोणे प्रकीर्तिताः ॥ व्योमाग्नी पूषावितथौ शिखिकोणे च भार्गव । मृगपित्रीशदौवारिसुग्रीवाश्चैव नैर्ऋते ॥ रोग आपश्च वायुश्च मुख्यश्चानिलदिक्स्थिताः । तथैव बाह्यतश्चाष्टौ शृणुष्व गदतो मम ॥ अष्टावष्टौ विनिर्दिष्टा देवा दिशि दिशि द्विज । आद्यन्तौ तु तयोर्देवौ प्रोक्तावन्नग्रहेश्वरौ ॥ पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः । महेन्द्ररविसत्याश्च भृशोऽथ गगनस्ततः ॥ पवनश्च महाभागाः पूर्वेणैते प्रकीर्तिताः । पुष्पोऽथ वित्तदश्चैव तथैव च गृहक्षतः ॥

विष्णुधर्मोत्तरोक्तवास्तुविधिः । २३९ यमो भृशश्च गन्धर्वो मृगोऽथ पितरस्तथा । दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह ॥ दौवारिकश्च सुग्रीवः पुष्पदन्तस्तथासुरः । वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च ॥ पश्चिमेन विनिर्दिष्टो देव दानवनाशनः । नागराजस्तथा मुख्यो भल्लाटश्च तथा शशी ॥ अदितिश्च कुबेरश्च रोगश्चाथ हुताशनः । एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज ॥ एतेषामेव देवानां भागे द्वाराणि कारयेत् । शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत् ॥ महेन्द्रसोमदैवत्यौ पूर्वतः शुभदौ स्मृतौ । गृहक्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ ॥ सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतो द्विज । भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा ह्युदक् । द्वात्रिंशच्च बहिर्देवास्तान्तर्द्वादश स्मृताः ॥ मध्ये ब्रह्मा तथा प्रोक्त एवं सम्पिण्डदेवताः । चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव ॥ विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज । तत्र देवविभागेन गृहकर्म विधीयते ॥ चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे । भागे वासगृहं कुर्याद्यथासंस्थानतो द्विज ॥ सूर्यान्तरिक्षादिकं तत्र तथा कुर्याद्द्विजोत्तम ॥ अथ वा दिग्विभागेन गृहकर्म विधीयते ॥ ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम् । अग्न्यगारं च तत्रैव भ्रमं नैर्ऋतके तथा ॥

२४० वीरमित्रोदयस्य राजनीतिप्रकाशे गोष्ठागारायुधागारौ वायव्ये च तथा स्मृतौ । कृपादि चोदकं शस्तं दिक्षु चैवोत्तरासु च ॥ अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत् । पुराणनवमिश्रं तु दारु वेश्मनि वर्जयेत् ॥ स्वकुड्यं परकुड्ये च नैव कार्यं विजानता । विनार्कचन्द्रग्रहणं द्वारसम्परिवर्त्तनम् ॥ वृद्धिक्षयौ न कर्त्तव्यौ भूयः कर्मणि वेश्मनः । प्रागुत्तरे तथा कार्यं ब्राह्मणानुमते तथा ॥ ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव । न पीडनीयं च तथा नागदन्तादिभिर्भवेत् ॥ मर्माणि राम जानीयाद्देवतापदसन्धिषु । न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज ॥ ये द्रुमा घटसिक्ता वै तथा ये च सकोटराः । हस्तिविद्युद्धुता ये च देवतावेश्मजाश्च ये ॥ वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे । एकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन ॥ वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च । मध्वाज्यैरुपदिग्धेन तथा छिन्द्यात्परशुना ॥ पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्त्तितम् । शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम ॥ वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ । पुष्पकः शाल्मलिश्चैव पलाशश्च विवर्जयेत् ॥ पलाशश्चेत्यग्रे, एतानिति शेषः । विस्तारद्विगुणोत्सेधं द्वारं कार्यं तथा गृहे ॥ निधिप्रमथकौ नागहंससारसचित्रितम् ।

विष्णुधर्मोत्तरोक्तवास्तुविधिः । २४१ द्वारकोणे भ्रमश्वभ्रचतुष्पथसुरालयैः ॥ कूपैकवृक्षरथ्याभिर्विद्धं द्वारं विवर्जयेत् । रथ्या मार्गः । वेधोऽत्राभिमुखेनावस्थानम् । द्विगुणात्तु गृहोच्छ्रायात् भूमिं त्यक्त्वा न दोषभाक् । वेध इतिशेषः । आध्मातं सङ्कटं राम तथाम्बुस्रावि यद्भवेत् । द्वारं न तत्प्रशंसन्ति तस्मात्तत्परिवर्जयेत् ॥ मूलद्वाराधिकं श्रीभागेषु च तथा भ्रमम् । धनदस्य तथा भागे धनुर्वेश्म विधीयते ॥ इन्द्रादित्येन्द्रसुग्रीवद्वारमन्यत्तु कारयेत् । स्तम्भं तु नवधा कृत्वा पीठभागे तु कारयेत् ॥ भागे कुम्भं तथा कार्यं भागे पद्मं निवेशयेत् । स्तम्भे भागत्रये कार्यमष्टास्रिमथ वर्त्तुलम् ॥ तस्योपरि तथा भागे भवत्यामलसारकम् । भागे दोषतुला कार्या भागे कार्या तथा तुला ॥ एकशालचतुःशालौ कर्त्तव्यौ स्वेच्छया सदा । पूर्वोत्तराभिः शालाभिर्हीनौ कार्यों द्विशालकौ ॥ दक्षिणापरशालाभिर्हीनौ मरणदायकौ । अन्यथा गर्हितौ राम सुतार्थक्षयदौ मतौ ॥ अष्टहस्तोच्छ्रायादूर्ध्वं भूमिकां तु न कारयेत् । वास्तूच्छ्रायो न कर्त्तव्यस्तथा हस्तशताधिकः ॥ आरम्भः सशिलान्यासो द्वारस्तम्भोच्छ्रायावुभौ । तथाऽऽरोहणनिष्पत्तिस्तथा वास्तुप्रवेशनम् ॥ आरोहणनिष्पत्तिः, सोपानपङ्क्तिः । सर्वाण्येतानि कार्याणि दिवसे राम पूजिते । ३१

२४२ वीरमित्रोदयस्य राजनीतिप्रकाशे

सर्व्वेष्वेतेषु कर्त्तव्यं देवब्राह्मणपूजनम् ॥ कालज्ञपूजनं चैव स्थपतीनां च भार्गव । प्रावृट्काले न कर्त्तव्यं वास्तुकर्म विजानता ॥ कृष्णपक्षत्रिभागान्ते शुक्लाद्ये च भृगूत्तम । तिथिं चतुर्थीं नवमीं वर्जयेच्च चतुर्दशीम् ॥ अङ्गारकदिनं राम करणं विष्टिसंज्ञितम् । दिव्यान्तरिक्षक्षितिजैरुत्पातैर्न च पीडितम् ॥ ग्रहोपसृष्टं च तथा व्यतीपातहतं च यत् । चन्द्रतारानुकूले भे गृहं कर्तुं विजानता । ध्रुवाणि भानि शस्तानि शाक्रं वै नैर्ऋतं तथा ॥ याम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च । स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयात्मके ॥ राम सौम्यग्रहाः केन्द्रे त्रिकोणे वापि भार्गव । पापाश्चोपचयस्थाने तस्मिन् कार्यं प्रवेशनम् ॥ केन्द्रस्थं वर्जयेत्पापं सर्वयत्नेन कर्मसु । केन्द्रसौम्ययुतं देयं न तु शून्यं कदाचन ॥ अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव । चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ॥ कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज । श्रियाः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ॥ पूजनं मण्डले कार्यं वासुदेवगणस्य च । गन्धाद्यैर्पुष्पनैवेद्यधूपदीपैर्भृगूत्तम ॥ तेषां सम्पूजनं कृत्वा समाधाय हुताशनम् ॥ ओङ्कारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु । श्रियः कृत्वा ततो होमं ब्रह्मणः कारयेत्ततः ॥

विष्णुधर्मोत्तरोक्तवास्तुविधिः । २४३ ब्राह्मणं तु पुरस्कृत्य वास्तुदेवगणस्य च । होतव्यमाज्यं धर्मज्ञ यस्य देवस्य हूयते ॥ तत्कालमाशु भजते लक्षणेऽग्नौ द्विजोत्तम । तस्य देवस्य यत्स्थानं तत्र शल्यं विनिर्दिशेत् ॥ शल्यस्योद्धरणं कार्यं राम यत्नेन जानता । मध्ये शैलमयं कुम्भं शङ्कुं च स्थापयेद्बुधः ॥ ऐशाने च तथा कोणे शिलां पूर्वं प्रतिष्ठयेत् । प्रदक्षिणं ततो राम शिलान्यासो विधीयते ॥ कुम्भस्य च शिलानां च ततः स्नानं विधीयते । वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः ॥ ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना । आच्छादनं ततः कार्यं वासोभिः कुसुमैः शुभैः ॥ दीपं धूपं च नैवेद्यं तेषां राम निवेदयेत् । दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते ॥ कालवित्स्थपती पूज्यौ ततो राम विजानता । ततो मन्त्रं जपेत्कर्त्ता कालज्ञः स्थपतिस्त्वथ ॥ गृहपुष्टिकंरं राम मुनिवक्त्रविनिःसृतम् । नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥ जये जयावहे देवि प्रजानां जयमावह । पूर्णे गिरीशदायादे पूर्णकामं कुरुष्व माम् ॥ भद्रे कश्यपदायादे कुरु भद्रां मतिं मम । सर्वबीजसमायुक्ते सर्वरत्नौषधैर्वृते ॥ रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह । प्रजापतिसुते देवि चतुरस्रे महीमये ॥ सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यताम्

२४४ वीरमित्रोदयस्य राजनीतिप्रकाशे पूजितैः परमाचार्यैर्गन्धमाल्यैरलङ्कृते । भव भूतिकरी देवि गृहे भार्गवि रम्यताम् । अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् । देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥ मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव । गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः ॥ कर्त्तव्यः सकलो राम शिलान्यासविवर्जितः । पूजितामरलक्ष्मीकं हुताग्निं चाप्यलङ्कृतम् ॥ पञ्चरङ्गेण सूत्रेण प्रतिबद्धसरं तथा । सकलेषु तु कोणेषु दिशासु विदिशासु च ॥ गवाक्षकेषु कर्त्तव्याश्चक्रा रक्षोहणास्तथा । सर्वस्यास्य तथा न्यासो मन्त्रै रक्षोहणैर्भवेत् ॥ गोपृष्ठविन्यस्तकरः प्रविशेच्च गृही गृहम् । स्वनुलिप्तः सुखी स्रग्वी सपत्नीकस्तथैव च ॥ द्विजपुण्याहघोषेण वीणावेणुरवेण च । वन्दिनां च निनादेन पटहानां स्वनेन च ॥ काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णघटाभिरामम् । प्रविश्य कालज्ञसमर्चितानां कृत्वार्चनं तत्र सुरोत्तमानाम् ॥ सम्पूज्य वह्निद्विजपुङ्गवांश्च मङ्गल्यमालभ्य च भोजयित्वा । विप्रान्मधुक्षीरघृतोत्कटान्नं सदक्षिणांस्तांश्च तथा विसृज्य ॥ सप्ताहमाग्निं परिचर्य तत्र सम्पूज्य विप्रान् विधिवच्च राम । गृहे वसेत्पूजितदेवविप्रे शुचौ सदा सर्वगुणोपपन्ने ॥ इति । इति विष्णुधर्मोत्तरेषु वास्तुविद्या । एवं गृहादौ निर्मिते गृहस्य कस्मिन् भागे के वृक्षाः शुभाः

गृहे दिग्भेदेन रोपणीया वृक्षा उद्यानकरणं च । २४३ के चाशुभा इत्यपेक्षिते— विष्णुधर्मोत्तरे, पुष्कर उवाच । उत्तरेण शुभः प्लक्षो वटः प्राग्भागवोत्तम । उदुम्बरश्च याम्येन सौम्येनाश्वत्थ एव च ॥ एते क्रमेण नेष्यन्ते दक्षिणादिसमुद्भवाः । समीपजाताश्च तथा वर्ज्याः कण्टकिनो द्रुमाः ॥ इति । उद्यानं कुत्र भागे कर्त्तव्यं कथं वा कर्त्तव्यमित्यपेक्षायाम्- तत्रैव, वामभागे तथोद्यानं कुर्याद्वासगृहाच्छुभम् । वापयेत्त्रांस्तिलांस्तत्र मृद्दीयात्तांश्च पुष्पितान् ॥ ततस्तु रोपयेद्वृक्षान् प्रयतः सुसमाहितः । ततो द्रुममथाभ्यर्च्य ब्राह्मणान् शशिनं तथा ॥ ध्रुवाणि पञ्च वायव्यं हस्तं पुष्यं सवैष्णवम् । नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे । उद्यानमजलं राम नाभिरामं यदा तदा ॥ प्रवेशयेन्नदीवाहान् पुष्करिण्यश्च कारयेत् । संस्कार्यशुद्धिदा तोयं कूपाः कार्याः प्रयत्नतः ॥ हस्तं मघा तथा मैत्रमाप्यं पुष्यं च वासवम् । उत्तरात्रितयं राम तथा पूर्वा च फल्गुनी ॥ जलाशयसमारम्भे प्रशस्तं वारुणं तथा । सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च ॥ तर्पयित्वा द्विजान् कामैस्तदारम्भपरो भवेत् । अथोद्याने प्रवक्ष्यामि प्रशस्तान् पादपान् द्विज ॥

२४६ वीरमित्रोदयस्य राजनीतिप्रकाशे अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः । परमाशोककदलीजम्बूलकुचदाडिमाः ॥ मङ्गल्याः सुद्रुमा राम रोपणीया गृहेषु वा । कृत्वा बहुत्वमेतेषां सेव्याः सर्वेऽप्यनन्तरम् ॥ शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम् । दमनं देवदारुं च पलाशं पुष्करं तथा ॥ न विवर्ज्यास्तथा केचिद्देवोद्यानेषु जानता । तत्रापि बहुता कार्या मङ्गलानां द्विजोत्तम ॥ सायम्प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे । वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ उत्तमं विंशतिर्हस्ता मध्यमं षोडशायतम् । स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥ अभ्यासजातास्तरवः संस्पृशन्तः परस्परम् । अव्यक्तमूलमिश्रत्वाद्भ्रवन्ति विफला द्विज ॥ इति । एवं रोपितानां द्रुमाणां रोगोत्पत्तौ चिकित्सोक्ता— तत्रैव, तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम् । आदौ संशोधनं तेषां किञ्चिच्छस्त्रेण कारयेत् ॥ विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा । फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ॥ शृतशीतपयःसेकः फलपुष्पाय सर्वदा । अविकाऽजशकृच्चूर्णं यवचूर्णं तिलानि च ॥ उदकं गोमयं चेति सप्तरात्रं निधापयेत् । उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥ इति । नानारङ्गपुष्पोत्पत्तौ प्रकार उक्तः—

विष्णुधर्मोत्तरोक्तवृक्षायुर्वेदः । २४७ तत्रैव, रङ्गतोयाभिषेचितम् । तद्रङ्गपुष्पं भवति यौवने नात्र संशयः । मत्स्याम्भसा तु सेकेन दृष्टिर्भवति शाखिनाम् ॥ इति । अथैतेषां दोहदानाह— तत्रैव, ततः प्राधान्यतो वक्ष्ये द्रुमाणां दोहदान्यहम् । मत्स्योदकेन शीतेन आम्राणां सेक इष्यते ॥ मृद्वीकानां तथा कार्यस्तेनैव रिपुसूदन । पकासृग्रुधिरं चैव दाडिमानां प्रशस्यते ॥ तुषं देयं च नव्यानां मद्यं च बकुलद्रुमे । विशेषात्कामिनीवक्त्रसंसर्गात्तु गुणो भवेत् ॥ प्रशस्तं चाप्यशोकस्य कामिनीपादताडनम्। शृगालमांसतोयं च नारङ्गाक्षोटयोर्हितम् ॥ मधुपर्ण्युदकं चैव बदराणां प्रशस्यते । गन्धोदकं सगोमांसं केतकानां प्रशस्यते ॥ क्षीरसेकेन भवति सप्तपर्णो मनोहरः । मांसयूषवसामज्जासेकः कुरवके हितः ॥ पूतिमत्स्याघृतं पूतिकार्पासफलमेव च । अरिमेदस्य सेकोऽयं पाटलेषु प्रशस्यते ॥ शृगालमत्स्यमांसाभ्यां चम्पकेषु च वापयेत् । पारावतानां क्षीरेण रुधिरेण च शस्यते ॥ कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत् । जातीनां मल्लिकायाश्च गन्धतोयेन रञ्जनम् ॥ जपाकुरवजातीनां कूर्ममांसं प्रशस्यते ।

२४८ वीरमित्रोदयस्य राजनीतिप्रकाशे खर्जूरनारिकेराणां वंशस्य कदलस्य च ॥ लवणेन सतोयेन सेको वृद्धिकरः स्मृतः । विडङ्गलवणोपेतं मत्स्यमांसं भृगूत्तम ॥ सर्वेषामविशेषेण दोहदं परिकल्पयेत् । एवं कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवर्जिताश्च । भवन्ति नित्यं तरवः सुरम्याश्चिरायुषः स्वादुफलान्विताश्च॥इति। इति विष्णुधर्मोत्तरे वृक्षायुर्वेदः । अथ राष्ट्रम् । तत्र मनुः, राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत् । सुसङ्गृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥ सङ्ग्रहः, संरक्षणमात्मीयताकरणं वा । द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममवस्थितम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य गुप्तये ॥ द्वयोर्ग्रामशतयोस्त्रयाणां पञ्चानां वा ग्रामशतानां मध्ये गुल्मं पदात्यादिसमूहमावस्थितं कुर्यात्स्थापयेत् । राष्ट्रस्य सङ्ग्रहम् इति पाठे सङ्ग्रहं रक्षास्थानं, गुल्मं गुल्मसहितम्, अवस्थितं सत्यशीलपुरुषाधिष्ठितम् । दस्युलाघवगौरवापेक्षयोक्तो विकल्पः। दुर्गे स्थित एकैकस्मिन् ग्रामे ग्रामसमुदाये वा प्रजापालननियु- क्तान् कुर्यात् । तदुक्तम्— विष्णुना,तत्र स्वस्वग्रामाधिपान् कुर्यात् दशाध्यक्षानिति। मनुरपि, ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा । विंशतीशं शतेशं च सहस्रपतिमेव च ॥ इति ।

सप्ताङ्गेषु राष्ट्रम् । २४९ विष्णुधर्मोत्तरेऽपि पुष्करवाक्यम्— राजा धर्मभृतां श्रेष्ठः कृत्वा पुरुषविग्रहम् । पुरुषान् विनियुञ्जीत उत्तमाद्यमकर्मसु ॥ ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा । शतग्रामाधिपं वापि तथैव विषयेश्वरम् ॥ इति । आपस्तम्बोऽप्याह-ग्रामेषु नगरेषु चार्यान् शुचीन् सत्यशीलान् प्रजागुप्तये निदध्यात्तेषां पुरुषास्तथागुणा एव स्युः सर्वतो नगरं योजनं तस्करेभ्यो रक्ष्यं क्रोशो ग्रामः । इति । विष्णुधर्मोत्तरे विशेषः । तेषां भागो विभागश्च भवेत्कर्मानुसारतः । नित्यमेव तथा कार्यं तेषां चारैः परीक्षणम् ॥ इति । याज्ञवल्क्योऽपि, ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । साधून् सम्मानयेद्राजा विपरीतांश्च घातयेत् ॥ उत्कोचजीविनो हीनद्रव्यान् कृत्वा विवासयेत् । सदानमानसत्कारान् श्रोत्रियान् वासयेत् सदा ॥ इति । विचेष्टितं, विविधं व्यापारम् । विपरीतान्, असाधून् । कार्यार्थं कार्यिणो धनादानमुत्कोचः । मानः, पूजा। विशेषान्त- रमप्याह— मनुः, तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥ पृथक्कार्याणि, परस्परकलहादीनि । पृथक्कार्यानीति कचि- त्पाठः । तदा विप्रतिपन्नानीत्यर्थः । नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् । ३२

२५० वीरमित्रोदयस्य राजनीतिप्रकाशे उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥ उच्चैःस्थानं, कुलादिना महान्तम्, अथवा अत्युच्चोपवे- शनस्थलम् । घोररूपं भयानकम् । स ताननुपरिक्रामेत्सर्वानायुक्तकान् स्वयम् । तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः ॥ इति । अनुपरिक्रामेत्, यदा अन्यायिभिस्तेऽभियुक्ता अभिभूयन्ते तदा तान् बलेन पूरयेत् इत्यर्थः । वृत्तं चेष्टितम् । परिणयेत्, प्रापयेत् । तच्चरैः, नृपचरैः । विष्णुधर्मोत्तरे, ग्रामदोषान् समुत्पन्नान् ग्रामेशः प्रशमं नयेत् । अशक्तौ दशपालस्य स तु गत्वा निवेदयेत् ॥ सोऽप्यशक्तः शतेशाय यथावद्विनिवेदयेत् । शतेशो विषयेशाय सोऽपि राज्ञे निवेदयेत् ॥ अशक्तौ शक्तिमान् राम स्वयं युक्तिमुपाचरेत् । राजा सर्वात्मना कुर्याद्विषये राम रक्षणम् ॥ वित्तमाप्नोति धर्मज्ञ विषयात्स सुरक्षितात् । इति मनुरप्याह- ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने ॥ विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ इति । एतेषां वृत्तिमाह- स एव, यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥