वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 245, कुल 490 में से
संदर्भ में पढ़ेंसप्ताङ्गेषु राष्ट्रम् । २४९ विष्णुधर्मोत्तरेऽपि पुष्करवाक्यम्— राजा धर्मभृतां श्रेष्ठः कृत्वा पुरुषविग्रहम् । पुरुषान् विनियुञ्जीत उत्तमाद्यमकर्मसु ॥ ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा । शतग्रामाधिपं वापि तथैव विषयेश्वरम् ॥ इति । आपस्तम्बोऽप्याह-ग्रामेषु नगरेषु चार्यान् शुचीन् सत्यशीलान् प्रजागुप्तये निदध्यात्तेषां पुरुषास्तथागुणा एव स्युः सर्वतो नगरं योजनं तस्करेभ्यो रक्ष्यं क्रोशो ग्रामः । इति । विष्णुधर्मोत्तरे विशेषः । तेषां भागो विभागश्च भवेत्कर्मानुसारतः । नित्यमेव तथा कार्यं तेषां चारैः परीक्षणम् ॥ इति । याज्ञवल्क्योऽपि, ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । साधून् सम्मानयेद्राजा विपरीतांश्च घातयेत् ॥ उत्कोचजीविनो हीनद्रव्यान् कृत्वा विवासयेत् । सदानमानसत्कारान् श्रोत्रियान् वासयेत् सदा ॥ इति । विचेष्टितं, विविधं व्यापारम् । विपरीतान्, असाधून् । कार्यार्थं कार्यिणो धनादानमुत्कोचः । मानः, पूजा। विशेषान्त- रमप्याह— मनुः, तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥ पृथक्कार्याणि, परस्परकलहादीनि । पृथक्कार्यानीति कचि- त्पाठः । तदा विप्रतिपन्नानीत्यर्थः । नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् । ३२