वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 236, कुल 490 में से
संदर्भ में पढ़ें२४० वीरमित्रोदयस्य राजनीतिप्रकाशे गोष्ठागारायुधागारौ वायव्ये च तथा स्मृतौ । कृपादि चोदकं शस्तं दिक्षु चैवोत्तरासु च ॥ अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत् । पुराणनवमिश्रं तु दारु वेश्मनि वर्जयेत् ॥ स्वकुड्यं परकुड्ये च नैव कार्यं विजानता । विनार्कचन्द्रग्रहणं द्वारसम्परिवर्त्तनम् ॥ वृद्धिक्षयौ न कर्त्तव्यौ भूयः कर्मणि वेश्मनः । प्रागुत्तरे तथा कार्यं ब्राह्मणानुमते तथा ॥ ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव । न पीडनीयं च तथा नागदन्तादिभिर्भवेत् ॥ मर्माणि राम जानीयाद्देवतापदसन्धिषु । न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज ॥ ये द्रुमा घटसिक्ता वै तथा ये च सकोटराः । हस्तिविद्युद्धुता ये च देवतावेश्मजाश्च ये ॥ वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे । एकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन ॥ वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च । मध्वाज्यैरुपदिग्धेन तथा छिन्द्यात्परशुना ॥ पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्त्तितम् । शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम ॥ वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ । पुष्पकः शाल्मलिश्चैव पलाशश्च विवर्जयेत् ॥ पलाशश्चेत्यग्रे, एतानिति शेषः । विस्तारद्विगुणोत्सेधं द्वारं कार्यं तथा गृहे ॥ निधिप्रमथकौ नागहंससारसचित्रितम् ।