वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 235, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्तवास्तुविधिः । २३९ यमो भृशश्च गन्धर्वो मृगोऽथ पितरस्तथा । दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह ॥ दौवारिकश्च सुग्रीवः पुष्पदन्तस्तथासुरः । वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च ॥ पश्चिमेन विनिर्दिष्टो देव दानवनाशनः । नागराजस्तथा मुख्यो भल्लाटश्च तथा शशी ॥ अदितिश्च कुबेरश्च रोगश्चाथ हुताशनः । एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज ॥ एतेषामेव देवानां भागे द्वाराणि कारयेत् । शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत् ॥ महेन्द्रसोमदैवत्यौ पूर्वतः शुभदौ स्मृतौ । गृहक्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ ॥ सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतो द्विज । भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा ह्युदक् । द्वात्रिंशच्च बहिर्देवास्तान्तर्द्वादश स्मृताः ॥ मध्ये ब्रह्मा तथा प्रोक्त एवं सम्पिण्डदेवताः । चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव ॥ विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज । तत्र देवविभागेन गृहकर्म विधीयते ॥ चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे । भागे वासगृहं कुर्याद्यथासंस्थानतो द्विज ॥ सूर्यान्तरिक्षादिकं तत्र तथा कुर्याद्द्विजोत्तम ॥ अथ वा दिग्विभागेन गृहकर्म विधीयते ॥ ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम् । अग्न्यगारं च तत्रैव भ्रमं नैर्ऋतके तथा ॥