वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
विष्णुधर्मोत्तरोक्तवास्तुविधिः । २३९ यमो भृशश्च गन्धर्वो मृगोऽथ पितरस्तथा । दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह ॥ दौवारिकश्च सुग्रीवः पुष्पदन्तस्तथासुरः । वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च ॥ पश्चिमेन विनिर्दिष्टो देव दानवनाशनः । नागराजस्तथा मुख्यो भल्लाटश्च तथा शशी ॥ अदितिश्च कुबेरश्च रोगश्चाथ हुताशनः । एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज ॥ एतेषामेव देवानां भागे द्वाराणि कारयेत् । शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत् ॥ महेन्द्रसोमदैवत्यौ पूर्वतः शुभदौ स्मृतौ । गृहक्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ ॥ सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतो द्विज । भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा ह्युदक् । द्वात्रिंशच्च बहिर्देवास्तान्तर्द्वादश स्मृताः ॥ मध्ये ब्रह्मा तथा प्रोक्त एवं सम्पिण्डदेवताः । चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव ॥ विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज । तत्र देवविभागेन गृहकर्म विधीयते ॥ चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे । भागे वासगृहं कुर्याद्यथासंस्थानतो द्विज ॥ सूर्यान्तरिक्षादिकं तत्र तथा कुर्याद्द्विजोत्तम ॥ अथ वा दिग्विभागेन गृहकर्म विधीयते ॥ ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम् । अग्न्यगारं च तत्रैव भ्रमं नैर्ऋतके तथा ॥
२४० वीरमित्रोदयस्य राजनीतिप्रकाशे गोष्ठागारायुधागारौ वायव्ये च तथा स्मृतौ । कृपादि चोदकं शस्तं दिक्षु चैवोत्तरासु च ॥ अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत् । पुराणनवमिश्रं तु दारु वेश्मनि वर्जयेत् ॥ स्वकुड्यं परकुड्ये च नैव कार्यं विजानता । विनार्कचन्द्रग्रहणं द्वारसम्परिवर्त्तनम् ॥ वृद्धिक्षयौ न कर्त्तव्यौ भूयः कर्मणि वेश्मनः । प्रागुत्तरे तथा कार्यं ब्राह्मणानुमते तथा ॥ ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव । न पीडनीयं च तथा नागदन्तादिभिर्भवेत् ॥ मर्माणि राम जानीयाद्देवतापदसन्धिषु । न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज ॥ ये द्रुमा घटसिक्ता वै तथा ये च सकोटराः । हस्तिविद्युद्धुता ये च देवतावेश्मजाश्च ये ॥ वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे । एकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन ॥ वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च । मध्वाज्यैरुपदिग्धेन तथा छिन्द्यात्परशुना ॥ पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्त्तितम् । शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम ॥ वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ । पुष्पकः शाल्मलिश्चैव पलाशश्च विवर्जयेत् ॥ पलाशश्चेत्यग्रे, एतानिति शेषः । विस्तारद्विगुणोत्सेधं द्वारं कार्यं तथा गृहे ॥ निधिप्रमथकौ नागहंससारसचित्रितम् ।
विष्णुधर्मोत्तरोक्तवास्तुविधिः । २४१ द्वारकोणे भ्रमश्वभ्रचतुष्पथसुरालयैः ॥ कूपैकवृक्षरथ्याभिर्विद्धं द्वारं विवर्जयेत् । रथ्या मार्गः । वेधोऽत्राभिमुखेनावस्थानम् । द्विगुणात्तु गृहोच्छ्रायात् भूमिं त्यक्त्वा न दोषभाक् । वेध इतिशेषः । आध्मातं सङ्कटं राम तथाम्बुस्रावि यद्भवेत् । द्वारं न तत्प्रशंसन्ति तस्मात्तत्परिवर्जयेत् ॥ मूलद्वाराधिकं श्रीभागेषु च तथा भ्रमम् । धनदस्य तथा भागे धनुर्वेश्म विधीयते ॥ इन्द्रादित्येन्द्रसुग्रीवद्वारमन्यत्तु कारयेत् । स्तम्भं तु नवधा कृत्वा पीठभागे तु कारयेत् ॥ भागे कुम्भं तथा कार्यं भागे पद्मं निवेशयेत् । स्तम्भे भागत्रये कार्यमष्टास्रिमथ वर्त्तुलम् ॥ तस्योपरि तथा भागे भवत्यामलसारकम् । भागे दोषतुला कार्या भागे कार्या तथा तुला ॥ एकशालचतुःशालौ कर्त्तव्यौ स्वेच्छया सदा । पूर्वोत्तराभिः शालाभिर्हीनौ कार्यों द्विशालकौ ॥ दक्षिणापरशालाभिर्हीनौ मरणदायकौ । अन्यथा गर्हितौ राम सुतार्थक्षयदौ मतौ ॥ अष्टहस्तोच्छ्रायादूर्ध्वं भूमिकां तु न कारयेत् । वास्तूच्छ्रायो न कर्त्तव्यस्तथा हस्तशताधिकः ॥ आरम्भः सशिलान्यासो द्वारस्तम्भोच्छ्रायावुभौ । तथाऽऽरोहणनिष्पत्तिस्तथा वास्तुप्रवेशनम् ॥ आरोहणनिष्पत्तिः, सोपानपङ्क्तिः । सर्वाण्येतानि कार्याणि दिवसे राम पूजिते । ३१
२४२ वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्व्वेष्वेतेषु कर्त्तव्यं देवब्राह्मणपूजनम् ॥ कालज्ञपूजनं चैव स्थपतीनां च भार्गव । प्रावृट्काले न कर्त्तव्यं वास्तुकर्म विजानता ॥ कृष्णपक्षत्रिभागान्ते शुक्लाद्ये च भृगूत्तम । तिथिं चतुर्थीं नवमीं वर्जयेच्च चतुर्दशीम् ॥ अङ्गारकदिनं राम करणं विष्टिसंज्ञितम् । दिव्यान्तरिक्षक्षितिजैरुत्पातैर्न च पीडितम् ॥ ग्रहोपसृष्टं च तथा व्यतीपातहतं च यत् । चन्द्रतारानुकूले भे गृहं कर्तुं विजानता । ध्रुवाणि भानि शस्तानि शाक्रं वै नैर्ऋतं तथा ॥ याम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च । स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयात्मके ॥ राम सौम्यग्रहाः केन्द्रे त्रिकोणे वापि भार्गव । पापाश्चोपचयस्थाने तस्मिन् कार्यं प्रवेशनम् ॥ केन्द्रस्थं वर्जयेत्पापं सर्वयत्नेन कर्मसु । केन्द्रसौम्ययुतं देयं न तु शून्यं कदाचन ॥ अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव । चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ॥ कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज । श्रियाः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ॥ पूजनं मण्डले कार्यं वासुदेवगणस्य च । गन्धाद्यैर्पुष्पनैवेद्यधूपदीपैर्भृगूत्तम ॥ तेषां सम्पूजनं कृत्वा समाधाय हुताशनम् ॥ ओङ्कारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु । श्रियः कृत्वा ततो होमं ब्रह्मणः कारयेत्ततः ॥
विष्णुधर्मोत्तरोक्तवास्तुविधिः । २४३ ब्राह्मणं तु पुरस्कृत्य वास्तुदेवगणस्य च । होतव्यमाज्यं धर्मज्ञ यस्य देवस्य हूयते ॥ तत्कालमाशु भजते लक्षणेऽग्नौ द्विजोत्तम । तस्य देवस्य यत्स्थानं तत्र शल्यं विनिर्दिशेत् ॥ शल्यस्योद्धरणं कार्यं राम यत्नेन जानता । मध्ये शैलमयं कुम्भं शङ्कुं च स्थापयेद्बुधः ॥ ऐशाने च तथा कोणे शिलां पूर्वं प्रतिष्ठयेत् । प्रदक्षिणं ततो राम शिलान्यासो विधीयते ॥ कुम्भस्य च शिलानां च ततः स्नानं विधीयते । वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः ॥ ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना । आच्छादनं ततः कार्यं वासोभिः कुसुमैः शुभैः ॥ दीपं धूपं च नैवेद्यं तेषां राम निवेदयेत् । दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते ॥ कालवित्स्थपती पूज्यौ ततो राम विजानता । ततो मन्त्रं जपेत्कर्त्ता कालज्ञः स्थपतिस्त्वथ ॥ गृहपुष्टिकंरं राम मुनिवक्त्रविनिःसृतम् । नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥ जये जयावहे देवि प्रजानां जयमावह । पूर्णे गिरीशदायादे पूर्णकामं कुरुष्व माम् ॥ भद्रे कश्यपदायादे कुरु भद्रां मतिं मम । सर्वबीजसमायुक्ते सर्वरत्नौषधैर्वृते ॥ रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह । प्रजापतिसुते देवि चतुरस्रे महीमये ॥ सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यताम्
२४४ वीरमित्रोदयस्य राजनीतिप्रकाशे पूजितैः परमाचार्यैर्गन्धमाल्यैरलङ्कृते । भव भूतिकरी देवि गृहे भार्गवि रम्यताम् । अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् । देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥ मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव । गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः ॥ कर्त्तव्यः सकलो राम शिलान्यासविवर्जितः । पूजितामरलक्ष्मीकं हुताग्निं चाप्यलङ्कृतम् ॥ पञ्चरङ्गेण सूत्रेण प्रतिबद्धसरं तथा । सकलेषु तु कोणेषु दिशासु विदिशासु च ॥ गवाक्षकेषु कर्त्तव्याश्चक्रा रक्षोहणास्तथा । सर्वस्यास्य तथा न्यासो मन्त्रै रक्षोहणैर्भवेत् ॥ गोपृष्ठविन्यस्तकरः प्रविशेच्च गृही गृहम् । स्वनुलिप्तः सुखी स्रग्वी सपत्नीकस्तथैव च ॥ द्विजपुण्याहघोषेण वीणावेणुरवेण च । वन्दिनां च निनादेन पटहानां स्वनेन च ॥ काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णघटाभिरामम् । प्रविश्य कालज्ञसमर्चितानां कृत्वार्चनं तत्र सुरोत्तमानाम् ॥ सम्पूज्य वह्निद्विजपुङ्गवांश्च मङ्गल्यमालभ्य च भोजयित्वा । विप्रान्मधुक्षीरघृतोत्कटान्नं सदक्षिणांस्तांश्च तथा विसृज्य ॥ सप्ताहमाग्निं परिचर्य तत्र सम्पूज्य विप्रान् विधिवच्च राम । गृहे वसेत्पूजितदेवविप्रे शुचौ सदा सर्वगुणोपपन्ने ॥ इति । इति विष्णुधर्मोत्तरेषु वास्तुविद्या । एवं गृहादौ निर्मिते गृहस्य कस्मिन् भागे के वृक्षाः शुभाः
गृहे दिग्भेदेन रोपणीया वृक्षा उद्यानकरणं च । २४३ के चाशुभा इत्यपेक्षिते— विष्णुधर्मोत्तरे, पुष्कर उवाच । उत्तरेण शुभः प्लक्षो वटः प्राग्भागवोत्तम । उदुम्बरश्च याम्येन सौम्येनाश्वत्थ एव च ॥ एते क्रमेण नेष्यन्ते दक्षिणादिसमुद्भवाः । समीपजाताश्च तथा वर्ज्याः कण्टकिनो द्रुमाः ॥ इति । उद्यानं कुत्र भागे कर्त्तव्यं कथं वा कर्त्तव्यमित्यपेक्षायाम्- तत्रैव, वामभागे तथोद्यानं कुर्याद्वासगृहाच्छुभम् । वापयेत्त्रांस्तिलांस्तत्र मृद्दीयात्तांश्च पुष्पितान् ॥ ततस्तु रोपयेद्वृक्षान् प्रयतः सुसमाहितः । ततो द्रुममथाभ्यर्च्य ब्राह्मणान् शशिनं तथा ॥ ध्रुवाणि पञ्च वायव्यं हस्तं पुष्यं सवैष्णवम् । नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे । उद्यानमजलं राम नाभिरामं यदा तदा ॥ प्रवेशयेन्नदीवाहान् पुष्करिण्यश्च कारयेत् । संस्कार्यशुद्धिदा तोयं कूपाः कार्याः प्रयत्नतः ॥ हस्तं मघा तथा मैत्रमाप्यं पुष्यं च वासवम् । उत्तरात्रितयं राम तथा पूर्वा च फल्गुनी ॥ जलाशयसमारम्भे प्रशस्तं वारुणं तथा । सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च ॥ तर्पयित्वा द्विजान् कामैस्तदारम्भपरो भवेत् । अथोद्याने प्रवक्ष्यामि प्रशस्तान् पादपान् द्विज ॥
२४६ वीरमित्रोदयस्य राजनीतिप्रकाशे अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः । परमाशोककदलीजम्बूलकुचदाडिमाः ॥ मङ्गल्याः सुद्रुमा राम रोपणीया गृहेषु वा । कृत्वा बहुत्वमेतेषां सेव्याः सर्वेऽप्यनन्तरम् ॥ शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम् । दमनं देवदारुं च पलाशं पुष्करं तथा ॥ न विवर्ज्यास्तथा केचिद्देवोद्यानेषु जानता । तत्रापि बहुता कार्या मङ्गलानां द्विजोत्तम ॥ सायम्प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे । वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ उत्तमं विंशतिर्हस्ता मध्यमं षोडशायतम् । स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥ अभ्यासजातास्तरवः संस्पृशन्तः परस्परम् । अव्यक्तमूलमिश्रत्वाद्भ्रवन्ति विफला द्विज ॥ इति । एवं रोपितानां द्रुमाणां रोगोत्पत्तौ चिकित्सोक्ता— तत्रैव, तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम् । आदौ संशोधनं तेषां किञ्चिच्छस्त्रेण कारयेत् ॥ विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा । फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ॥ शृतशीतपयःसेकः फलपुष्पाय सर्वदा । अविकाऽजशकृच्चूर्णं यवचूर्णं तिलानि च ॥ उदकं गोमयं चेति सप्तरात्रं निधापयेत् । उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥ इति । नानारङ्गपुष्पोत्पत्तौ प्रकार उक्तः—
विष्णुधर्मोत्तरोक्तवृक्षायुर्वेदः । २४७ तत्रैव, रङ्गतोयाभिषेचितम् । तद्रङ्गपुष्पं भवति यौवने नात्र संशयः । मत्स्याम्भसा तु सेकेन दृष्टिर्भवति शाखिनाम् ॥ इति । अथैतेषां दोहदानाह— तत्रैव, ततः प्राधान्यतो वक्ष्ये द्रुमाणां दोहदान्यहम् । मत्स्योदकेन शीतेन आम्राणां सेक इष्यते ॥ मृद्वीकानां तथा कार्यस्तेनैव रिपुसूदन । पकासृग्रुधिरं चैव दाडिमानां प्रशस्यते ॥ तुषं देयं च नव्यानां मद्यं च बकुलद्रुमे । विशेषात्कामिनीवक्त्रसंसर्गात्तु गुणो भवेत् ॥ प्रशस्तं चाप्यशोकस्य कामिनीपादताडनम्। शृगालमांसतोयं च नारङ्गाक्षोटयोर्हितम् ॥ मधुपर्ण्युदकं चैव बदराणां प्रशस्यते । गन्धोदकं सगोमांसं केतकानां प्रशस्यते ॥ क्षीरसेकेन भवति सप्तपर्णो मनोहरः । मांसयूषवसामज्जासेकः कुरवके हितः ॥ पूतिमत्स्याघृतं पूतिकार्पासफलमेव च । अरिमेदस्य सेकोऽयं पाटलेषु प्रशस्यते ॥ शृगालमत्स्यमांसाभ्यां चम्पकेषु च वापयेत् । पारावतानां क्षीरेण रुधिरेण च शस्यते ॥ कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत् । जातीनां मल्लिकायाश्च गन्धतोयेन रञ्जनम् ॥ जपाकुरवजातीनां कूर्ममांसं प्रशस्यते ।
२४८ वीरमित्रोदयस्य राजनीतिप्रकाशे खर्जूरनारिकेराणां वंशस्य कदलस्य च ॥ लवणेन सतोयेन सेको वृद्धिकरः स्मृतः । विडङ्गलवणोपेतं मत्स्यमांसं भृगूत्तम ॥ सर्वेषामविशेषेण दोहदं परिकल्पयेत् । एवं कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवर्जिताश्च । भवन्ति नित्यं तरवः सुरम्याश्चिरायुषः स्वादुफलान्विताश्च॥इति। इति विष्णुधर्मोत्तरे वृक्षायुर्वेदः । अथ राष्ट्रम् । तत्र मनुः, राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत् । सुसङ्गृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥ सङ्ग्रहः, संरक्षणमात्मीयताकरणं वा । द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममवस्थितम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य गुप्तये ॥ द्वयोर्ग्रामशतयोस्त्रयाणां पञ्चानां वा ग्रामशतानां मध्ये गुल्मं पदात्यादिसमूहमावस्थितं कुर्यात्स्थापयेत् । राष्ट्रस्य सङ्ग्रहम् इति पाठे सङ्ग्रहं रक्षास्थानं, गुल्मं गुल्मसहितम्, अवस्थितं सत्यशीलपुरुषाधिष्ठितम् । दस्युलाघवगौरवापेक्षयोक्तो विकल्पः। दुर्गे स्थित एकैकस्मिन् ग्रामे ग्रामसमुदाये वा प्रजापालननियु- क्तान् कुर्यात् । तदुक्तम्— विष्णुना,तत्र स्वस्वग्रामाधिपान् कुर्यात् दशाध्यक्षानिति। मनुरपि, ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा । विंशतीशं शतेशं च सहस्रपतिमेव च ॥ इति ।
सप्ताङ्गेषु राष्ट्रम् । २४९ विष्णुधर्मोत्तरेऽपि पुष्करवाक्यम्— राजा धर्मभृतां श्रेष्ठः कृत्वा पुरुषविग्रहम् । पुरुषान् विनियुञ्जीत उत्तमाद्यमकर्मसु ॥ ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा । शतग्रामाधिपं वापि तथैव विषयेश्वरम् ॥ इति । आपस्तम्बोऽप्याह-ग्रामेषु नगरेषु चार्यान् शुचीन् सत्यशीलान् प्रजागुप्तये निदध्यात्तेषां पुरुषास्तथागुणा एव स्युः सर्वतो नगरं योजनं तस्करेभ्यो रक्ष्यं क्रोशो ग्रामः । इति । विष्णुधर्मोत्तरे विशेषः । तेषां भागो विभागश्च भवेत्कर्मानुसारतः । नित्यमेव तथा कार्यं तेषां चारैः परीक्षणम् ॥ इति । याज्ञवल्क्योऽपि, ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । साधून् सम्मानयेद्राजा विपरीतांश्च घातयेत् ॥ उत्कोचजीविनो हीनद्रव्यान् कृत्वा विवासयेत् । सदानमानसत्कारान् श्रोत्रियान् वासयेत् सदा ॥ इति । विचेष्टितं, विविधं व्यापारम् । विपरीतान्, असाधून् । कार्यार्थं कार्यिणो धनादानमुत्कोचः । मानः, पूजा। विशेषान्त- रमप्याह— मनुः, तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥ पृथक्कार्याणि, परस्परकलहादीनि । पृथक्कार्यानीति कचि- त्पाठः । तदा विप्रतिपन्नानीत्यर्थः । नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् । ३२
२५० वीरमित्रोदयस्य राजनीतिप्रकाशे उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥ उच्चैःस्थानं, कुलादिना महान्तम्, अथवा अत्युच्चोपवे- शनस्थलम् । घोररूपं भयानकम् । स ताननुपरिक्रामेत्सर्वानायुक्तकान् स्वयम् । तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः ॥ इति । अनुपरिक्रामेत्, यदा अन्यायिभिस्तेऽभियुक्ता अभिभूयन्ते तदा तान् बलेन पूरयेत् इत्यर्थः । वृत्तं चेष्टितम् । परिणयेत्, प्रापयेत् । तच्चरैः, नृपचरैः । विष्णुधर्मोत्तरे, ग्रामदोषान् समुत्पन्नान् ग्रामेशः प्रशमं नयेत् । अशक्तौ दशपालस्य स तु गत्वा निवेदयेत् ॥ सोऽप्यशक्तः शतेशाय यथावद्विनिवेदयेत् । शतेशो विषयेशाय सोऽपि राज्ञे निवेदयेत् ॥ अशक्तौ शक्तिमान् राम स्वयं युक्तिमुपाचरेत् । राजा सर्वात्मना कुर्याद्विषये राम रक्षणम् ॥ वित्तमाप्नोति धर्मज्ञ विषयात्स सुरक्षितात् । इति मनुरप्याह- ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने ॥ विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ इति । एतेषां वृत्तिमाह- स एव, यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥
सप्ताङ्गेषु राष्ट्रम् । २५१ यानि राज्ञे प्रदेयानि अन्नादीनि तानि वृत्त्यर्थं ग्रामाधिप- तिर्गृह्णीयात्, न त्वाब्दिकं करम् । आब्दिकं तु करमाप्तद्वारा राजैव गृह्णीयात् । तदुक्तम्— विष्णुधर्मोत्तरे, सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् । इति । दशी कुलं तु भुञ्जीत विंशी पञ्चकुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ कुलं, ग्रामैकदेशः, पादुकाख्य इति कल्पतरुः। अन्ये तु कुलं हलद्वयकृष्टा भूः “कुलं तु द्विगुणं हलम्” इति स्मरणात् । हलो- ऽपि षड्गव एव । अष्टागवं धर्म्यहलं षड्गवं जीवितार्थिनाम् । चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥ इति हारीतस्मरणात् । तद्दशग्रामाधिपतिर्जीवितार्थे षड्- वहलद्वयकृष्टां भुवं भुञ्जीत । विंशी, विंशतिग्रामाधिपतिः पञ्च- कुलानि भुञ्जीत । विशेषान्तरमाह— विष्णुः, ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात्, अ- थाशक्तो दशग्रामाध्यक्षाय निवेदयेत्, सोऽप्यशक्तः शताध्यक्षाय, सोऽप्यशक्तो देशाध्यक्षाय, देशाध्यक्षोऽपि सर्वात्मना दोषमु- च्छिन्द्यात् । इति । सर्वात्मनेति । स्वशक्त्यतिक्रमेणाप्येतदर्थं, न तु स्वयमेव दोषमुच्छिन्द्यान्न वा राज्ञे निवेदयेदित्येवमर्थम् । शतेशो विषयेशाय सोऽपि राज्ञे निवेदयेत्— इति विष्णुधर्मोत्तरोक्तवचनविरोधात् । मनुः, राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
२५२ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्मानुरूपतः ॥ पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् । षाण्मासिकस्तथाऽऽच्छादो धान्यद्रोणस्तु मासिकः । इति । अवकृष्टस्य, गृहकर्मकरस्य । वेतनं, भक्तकम् । आच्छादः, आच्छादनवस्त्रद्वयम् । द्रोण, आढकचतुष्टयम् । तदुक्तम्— अष्टमुष्टि भवेत्किञ्चित्१किञ्चित्चत्वारि पुष्कलम् । पुष्कलानि च चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेद्द्रोण इति । शङ्खलिखितौ, वाहनयोधानां सततमन्वीक्षणं, प्रतिमासं द्विसौवर्णिकी वृत्तिः, षाण्मास्यं स्मरणं, चातुर्मास्यं वा, स्वर्ग्यातेषु दानमनु- क्रोशो, विदितेष्वनुप्रदानं, कुलचारित्रशीलविद्यालक्षणगुणा- धिकेषु सम्मानं प्रयुञ्जीत । इति । षाण्मास्यं स्मरणं, षड्भिर्मासैश्चतुर्भिर्वा मासैरतिक्रान्तैः स- द्भिः स्मृत्वा वेतनं देयमित्यर्थः । स्वर्ग्यातेषु, मृतेषु । मृतेषु योधे- षु दानदययोरसम्भवात्तत्पुत्रादिषु दानदये विधेये । विदितेषु, युद्धादौ कृतकार्यतया प्रसिद्धेषु । अनुप्रदानं, वेतनादधिकं व- स्त्रादि देयमित्यर्थः । निर्दोषस्य वृत्तिं न परिहरेदित्याह— बृहस्पतिः, गुणवानिति यः प्रोक्तः ख्यापितो जनसंसदि । कथं तेनैव वक्त्रेण निर्गुणः परिकथ्यते ॥ तस्मात्प्रभृत्वं वृत्तिं च निर्दोषस्य न चालयेत् । अनवस्थाप्रसङ्गः स्यान्नश्येतोपग्रहस्तथा ॥ इति । उपग्रहः, परिग्रहः । दुर्गादिनिवेशानन्तरं कर्त्तव्यानन्तरमाह— १ किञ्चिदष्टौ च पुष्कलमिति क्वचित्पाठः ।
सप्ताङ्गेषु राष्ट्रम् । २७३ स एव, सम्यङ्गनिविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः । कण्टकोद्धरणे नित्यमातिष्ठेद्बलमुत्तमम् ॥ इति । कण्टकाः, दुष्टसामन्तादयः । मनुरपि, यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥ निर्दाता, प्ररूढक्षेत्रमध्यस्थिततृणादिलविता । कक्षं, तृणम् । राष्ट्रेषु रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ इति । याज्ञवल्क्योऽपि, चाटतस्करदुर्वृत्तमहासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः । तस्माच्च नृपतेरर्द्धं यस्माद्गृह्णात्यसौ करान् ॥ इति । मत्स्यपुराणेऽपि, यथा न स्यात्कृशीभावः प्रजानामनवेक्षया । तथा राज्ञा विधातव्यं स्वराज्यं परिरक्षता ॥ मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः ॥ भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् । तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत् ॥ यो राष्ट्रमनुगृह्णाति राष्ट्रं स्वं परिरक्षति । सञ्जातमुपजीवेत्तु विन्दते स महत्फलम् ॥ १ राज्ञो हि इति मुद्रितमनुपुस्तके पाठः ।
२५४ वीरमित्रोदयस्य राजनीतिप्रकाशे दुह्याद्धिरण्यं धान्यं च महीं राजा सुरक्षिता । इति । मनुरपि, मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भ्रश्यते स्वाम्याज्जीविताच्च सबान्धवः ॥ शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ इति । याज्ञवल्क्योऽपि, अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिरक्षति । सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञां श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति । कात्यायनोऽपि, यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः । तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ॥ इति । मनुः, रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ यदधीते यद्यजते यज्जुहोति यदर्च्चति । तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ इति । कात्यायनः, प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् । द्विजानां पूजनं चैव एतदर्थं कृतो नृपः ॥ इति । वृहस्पतिः, तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः । परचक्राच्चौरभयाद्बलिनोऽन्यायवर्त्तिनः ॥
सप्ताङ्गेषु राष्ट्रम् । २५६ परानीकस्तेनभयमुपायैः शमयेन्नृप । बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः ॥ इति । मनुः, सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ योऽरक्षन्बलिमादत्ते करं शुल्कं च पार्थिवः । प्रतिभोगं च दण्डं च स सद्यो नरकं व्रजेत् ॥ अरक्षितारं राजानं बलिषड्भागहारिणम् । तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ अनवेक्षितमर्यादं नास्तिकं विप्रलोपकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ यो¹ हत्वा गोसहस्राणि नृपो दद्यादरक्षिता । स शब्दमात्रफलभाद्राजा भवति तस्करः ॥ विप्रलोपकं, विप्रवृत्त्युच्छेदकर्तारम् । अत्तारं, भोक्तारम् । शङ्खः, न व्रतैर्नोपवासेन न च यज्ञैः पृथग्विधैः । राजा स्वर्गमवाप्नोति प्राप्नोति परिपालनात् ॥ इति । यमः, वानप्रस्थाः परिव्राजः श्रोत्रियाश्चाहिताग्नयः । षड्भागस्य प्रदातारो नैते राज्ञो हिरण्यदाः ॥ इति । षड्भागस्य, स्वकृतस्य श्रेयस इतिशेषः । विष्णुधर्मोत्तरे, प्रजासुखं तु कर्त्तव्यं सुखमुद्दिश्य चात्मनः । किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिता ॥ १ अयं श्लोको मुद्रितमनौ नोपलभ्यते ।
२५६ वीरमित्रोदयस्य राजनीतिप्रकाशे सुरक्षिता प्रजा यस्य स्वर्गस्तस्य गृहोपमः । अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ॥ राम षड्भागमादत्ते सुकृताद्दुष्कृतादपि । धर्मभागं महाभाग सम्यग्रक्षणतत्परः ॥ अरक्षिता तथा सर्वं पापमाप्नोति भार्गव । न वै किञ्चिदवाप्नोति पुण्यभाक् पृथिवीपतिः ॥ आपन्नमपि धर्मिष्ठं प्रजा रक्षन्त्यथाऽऽपदि । तस्माद्धर्मार्थकामेन प्रजा रक्ष्या महीभृता ॥ सुभगाचाटदुर्वृत्तराजवल्लभतस्करैः । भक्ष्यमाणाः प्रजा रक्ष्याः कायस्थैश्च विशेषतः ॥ सुभगा, अतिप्रिया स्त्री, वेश्या वा । चाटाः, बहुभाषिणः रक्षिता तद्भयेभ्यस्तु राज्ञा भवति सा प्रजा । अरक्षिता सा भवति तेषामेव हि भाजनम् ॥ साधुसंरक्षणार्थाय राजा दुष्टनिबर्हणम् ॥ तृणानामपि निर्माता सदा कुर्याज्जितेन्द्रियः । शास्त्रोक्तं बलिमादद्याद्धर्म्यं तत्तस्य जीवितम् ॥ इति । विष्णुः, प्रजासुखैः सुखी राजा तद्दुःखैश्च दुःखितः । स कीर्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्गे महीयते ॥ इति स्वराष्ट्रसंरक्षणवत्परराष्ट्रग्रहणे फलमाह— याज्ञवल्क्यः, य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति । वशीकृतपरराष्ट्रविषये— स एव विशेषमाह,
सप्ताङ्गेषु कोशः । २५७ यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ इति । इति राष्ट्रम् । अथ कोशः । तत्र विष्णुधर्मोत्तरे, रिपुघातसमर्थः स्याद्वित्तवानेव पार्थिवः । परचक्रमर्देषु वित्तवान्नैव मुह्यति ॥ वित्तवानेव सहते सुदीर्घमपि विग्रहम् । बहुदण्डानपि परांस्तथा भिन्द्याद्धनाधिकः ॥ बहुदण्डान्, बहु दण्डयन्ति ते तथाविधास्तान्, दण्डार्जितब- हुतरकोशान् । अत्र दण्डस्य बहुत्वं स्मृत्युक्तदण्डापेक्षया आ- धिक्यं, तेनान्यायार्जितधनान् जयतीतिव्याख्येयम् । तेन धना- धिको बहुतरधनवान् न्यूनधनान् जयतीत्येतदर्थकं वचनमनर्थ- कं न भवति । वस्तुतस्तु दण्डो बलमिति यथाश्रुतमेव सम्यक् । अन्नप्राणाः प्रजाः सर्वा धने तच्च प्रतिष्ठितम् । धनवान् धर्ममाप्नोति धनवान् काममश्नुते ॥ यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः । यस्यार्थः स पुमांल्लोके यस्यार्थः स च पण्डितः ॥ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः । विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ विशेषो नास्ति लोकेषु पतितस्याधनस्य च । पतिता न तु गृह्णन्ति दरिद्रो न प्रयच्छति ॥ इत्यतो नानुगृह्णन्ति दरिद्रं पतितं जनाः । धनहीनस्य भार्यापि नैव स्याद्वशवर्त्तिनी ॥ ३३
२५८ वीरमित्रोदयस्य राजनीतिप्रकाशे गुणौघमपि चैवास्य नैव कश्चित्प्रकाशयेत् । बान्धवा विनिवर्त्तन्ते धनहीनात्तथा नरात् ॥ यथा पुष्पफलैर्हीनाच्छकुन्ता द्विज पादपात् ॥ द्विजेति रामसम्बोधनम् । दारिद्र्यमरणे चोभे केषां चित्सदृशे मते । सत्यं हासाददरिद्रश्च मृतः श्रेयान्मतो मम ॥ कोशं राज्यतरोर्मूलं तस्माद्यत्नं तदर्जने । धर्मेणैव ततः कुर्यान्नाधर्मेण कथञ्चन ॥ धनैरधर्मसम्प्राप्तैर्यद्राष्ट्रमपिधीयते । तदेव याति विस्तारं विनाशाय दुरात्मनाम् ॥ सुकृतस्य पुराणस्य बलेन बलिनां वर । यद्यधर्मात्फलं शीघ्रं नाप्नुवन्ति दुरात्मनः ॥ पुराणस्य, जन्मान्तरकृतस्य । तथापि पूर्वकर्मान्ते तेन पापेन कर्मणा । विनश्यन्ति सभूतास्ते सपुत्रपशुबान्धवाः ॥ नरकेषु तथा तेषां यातना विविधाः स्मृताः । बहून्यब्दसहस्राणि ये नृपा राष्ट्रपीडकाः ॥ नित्यं राज्ञा तथा भाव्यं गर्भिणीसहधर्मिणा । यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत् ॥ गर्भिणी तद्वदेवेह भाव्यं भूपतिना सदा । प्रजासुखं तु कर्तव्यं सुखमुद्दिश्य चात्मनः ॥ किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिताः । सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥ “प्रजा स्यात्सन्ततौ जने” इत्युभयत्र कोषः । अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ॥