वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 228, कुल 490 में से
संदर्भ में पढ़ें२३२ वीरमित्रोदयस्य राजनीतिप्रकाशे तर्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे । प्रवालरत्नकनकं फलेमृष्टाक्षतोदकम् ॥ सर्ववास्तुविभागेषु शस्तं पदविलेखने । न भस्माङ्गारकाष्ठेन न शस्त्रनखचर्मभिः ॥ न शृङ्गास्थिकपालैश्च क्वचिद्वास्तु विलेखयेत् । एभिर्विलिखितं कुर्यात् दुःखशोकभयादिकम् ॥ यदा गृहप्रवेशः स्याच्छिल्पी तत्राभिलक्षयेत् । स्तम्भसूत्रादिकं तद्वच्छुभाशुभफलोदयम् ॥ आदित्याभिमुखं रौति शकुनिः परुषं यदि । तुल्यकालं स्पृशेदङ्गं गृहभर्त्ता यदात्मनः ॥ वास्त्वङ्गे तद्विजानीयान्नरः शल्यं भयप्रदम् । अङ्गनानन्तरं यत्र हस्त्यश्वश्वापदं भवेत् ॥ तदङ्गसम्भवं विद्यात्तत्र शल्यं विचक्षणः । प्रसार्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते ॥ तत्र शल्यं विजानीयात्खरशब्दे च भैरवे । यदि शाक्रे तु दिग्भागे मधुरं रौति वायसः ॥ धनं तत्र विजानीयात् भागे वा स्वाम्यधिष्ठिते । सूत्रच्छेदे भवेन्मृत्युर्व्याधिः कीले ह्यधोमुखे ॥ अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् । कण्ठशल्येषु जानीयात्पौंश्चल्यं स्त्रीषु शास्त्रवित् ॥ गृहभर्तुर्गृहस्यापि विनाशः शिल्पिसम्भ्रमे । स्तम्भस्कन्धच्युते कुम्भे शिरोरोगान् विनिर्दिशेत् ॥ कुम्भापहारे सर्वस्य कुलस्यापि क्षयो भवेत् । मृत्युः स्थानच्युते कुम्भे भग्ने बन्धं विदुर्बुधाः ॥ १ फलंपेष्टा कृतोदकम् इति मा० पा० ।