वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 303, कुल 490 में से
संदर्भ में पढ़ेंमन्त्रः । ३०७ श्रीरामायणेऽपि, त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः । तेषां तु समवेतानां गुणदोषान् वदाम्यहम् ॥ मन्त्रिभिर्मन्त्रसंयुक्तैः समर्थैर्मन्त्रनिश्चये । मित्रैर्वातिसमानार्थैर्बान्धवैश्चातिवाहितैः ॥ समानार्थैः, समानप्रयोजनैः । मन्त्रिभिर्मन्त्रयित्वा यः कर्मारम्भे प्रवर्तते । तत्रैव कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ एकोऽर्थं विमृशत्येको धर्मे प्रकुरुते मतिम् । एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ गुणदोषावानिश्चित्य त्यक्तधर्मव्यपाश्रयः । करिष्यामीत्युपेक्षेत यः कार्यं स नराधमः ॥ यथैव पुरुषा नित्यमुत्तमाधममध्यमाः । एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । मन्त्रिणां मन्त्रनियमस्तमाहुर्मन्त्रमुत्तमम् ॥ बह्व्यस्तु मतयो भूत्वा मन्त्रिणामर्थसिद्धये । पुनर्यत्रैकतां यान्ति स मन्त्रो मध्यमः स्मृतः ॥ अन्योन्यं मतिमास्थाय यत्र सम्प्रतिपद्यते । न चैकमत्ये श्लेषोऽस्ति स मन्त्रोऽधम उच्यते ॥ अर्थानर्थौ हि यत्रोभौ संशयश्च परीक्ष्यते । स मन्त्र इति विज्ञेयः शेषस्तु खलु विक्रमः ॥ इति । विष्णुधर्मोत्तरे, नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह । बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान् पृथक् पृथक् ॥ इति ।