भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 304, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 304

३०८ वीरमित्रोदयस्य राजनीतिप्रकाशे एकः, स्वयम् । बहुभिः, त्र्यधिकैः । अत्र स्वस्यैकस्य मन्त्र- निषेधात्स्वभिन्नेनैकेन द्वाभ्यां वा सह मन्त्रः कार्यः । यदि बहु- भिः सह मन्त्रयेत् तदा पृथक् पृथगित्यर्थः । तेन मन्त्रः सुरक्षितो भवति । अत एव— याज्ञवल्क्यः, मन्त्रमूलमिदं राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथाऽस्य न विदुः कर्मणामाफलोदयात् ॥ इति । मन्त्रमूलानां कर्मणामाफलोदयात्परेभ्यो मन्त्रं सुरक्षितं कुर्यात् । मनुरपि, यस्य मन्त्रं न जानन्ति समागत्य पृथग्जनाः । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ इति । अग्निपुराणेऽपि, गुप्तमन्त्रो भवेद्राजा आपदोऽगुप्तमन्त्रतः । मदः प्रमादः कामश्च सुप्तप्रलपितानि च ॥ भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्योऽवमतास्तथा । इति । मत्स्यपुराणेऽपि, बहुभिर्मन्त्रयेन्मन्त्रं राजा कामं पृथक् पृथक् । मन्त्रिणामपि नो कुर्यान्मन्त्रिमन्त्रप्रकाशनम् ॥ क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम् । निश्चयस्तु सदा मन्त्रे कार्य एकेन सूरिणा ॥ भवेद्वा निश्चयावाप्तिः परबुद्ध्युपजीवनात् । एकस्यैव महीभर्तुर्भूयःकार्यविनिश्चये ॥ ब्राह्मणान् पर्युपासीत त्रयीशास्त्रसुनिश्चितान् । नासच्छास्त्रवतो मूढांस्ते हि लोकस्य कण्टकाः ॥ इति ।