वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 305, कुल 490 में से
संदर्भ में पढ़ेंमन्त्रः । ३०९ विष्णुधर्मोत्तरेऽपि, राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम । तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ॥ कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः । नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ॥ मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः । कर्त्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा ॥ मन्त्रवत्साधितो मन्त्रः सङ्घातानां सुखावहः । मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥ न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा । भवतीह महीभर्तुः सदा भार्गवनन्दन ॥ इति । मन्त्रे जडादीनां निषेधमाह — मनुः, जडमूकन्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्ग्यान्मन्त्रकाले प्रसेधयेत् ॥ जडो, बुद्धिहीनः । तैर्यग्योनाः, शुकसारिकादयः । वयोऽतिगा, अतिवृद्धाः । म्लेच्छः, अव्यक्तवाक् । क्लीब इति क्वचित्पाठः । भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादतो भवेत् ॥ इति । आदतः, शङ्कितः । श्रीरामायणे, अनभिज्ञाय शास्त्राणि बहवः पशुबुद्धयः ।