भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 306, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 306

३१० वीरमित्रोदयस्य राजनीतिप्रकाशे प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ मन्त्रिरूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः । ये हितोदयमुत्सृज्य विपरीतोपसेविनः ॥ अहितं हि हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । अवेक्ष्या मन्त्रबाह्यास्ते कर्तव्याः कृतदूषणाः ॥ विनाशाय स्वभर्तुर्हि संहताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ इति निषिद्धान्तरमुक्तम्— महाभारते, मन्त्रभेदस्य यत्प्राज्ञो द्वाराणीमानि कल्पयेत् । अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥ मदं स्वप्नमवज्ञानमाकारं चात्मसम्भवम् । दुष्टामात्येषु विश्रम्भं दूतं चाकुशलं तथा ॥ इति । तथा विष्णुधर्मोत्तरे, न च मूर्खैर्न चानाप्तैस्तथा नाधार्मिकैर्नृपः । मन्त्रं तु स्वादितं कुर्याद्येन राष्ट्रे न धावति ॥ स्वादितम्, आस्वादितम् । न धावति, न प्रसरति । राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः । नाशहेतुर्भवेन्मन्त्रः कुप्रयुक्तस्तु मन्त्रवत् ॥ मन्त्रे सुरक्षिते सिद्धिः कथिता पृथिवीक्षिताम् । क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ॥ कृतान्येव विजानाति स राजा पृथिवीपतिः । इति । मन्त्रणयोग्या अमात्या उक्ता— महाभारते, मन्त्रनिश्चयतत्त्वज्ञाष्षाड्गुण्यगुणवेदिनः ।